अक्षर आकार:

श्रीकृष्णोपनिषत्

shrIKrishna Upanishad

श्रीकृष्णोपनिषत्

॥ श्री गुरुभ्यो नमः हरिः ॐ ॥ यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया । अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः शान्तिः शान्तिः । ॥ अथ प्रथम खंडः ॥ हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः । तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं गृण्हीमोऽवतारान्वयम् ॥ १॥ रुद्रादीनां वचः श‍ृत्वा प्रोवाच भगवान्स्वयम् । अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥ मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् । यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥ ३॥ माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी । प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥ तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता । अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥ देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते । निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥ स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह ॥ ७॥ गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । वंशस्तु भगवान् रुद्रः श‍ृङ्गमिन्द्रः सगोसुरः ॥ ८॥ गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः । लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९॥ गोपरूपो हरिः साक्षान्मायाविग्रहधारणः । दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥ १०॥ दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः । रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥ ११॥ बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् । शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥ अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा । ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥ १३॥ द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः । दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥ १४॥ दया सा रोहिणी माता सत्यभामा धरेति वै । अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः ॥ १५॥ शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः । यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः ॥ १६॥ दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः । दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥ १७॥ क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ । संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥ १८॥ कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥ १९॥ जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः । यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥ कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा । चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१॥ यावन्ति देवरूपाणि वदन्ति विभुधा जनाः । नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२॥ गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी । धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः ॥ २३॥ अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया । गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४॥ वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी । तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः । भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५॥ ॥ इति प्रथम खण्डः ॥
॥ अथ द्वितीयः खण्डः ॥ शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् । सोऽकामयत प्रजाः सृजेयेति । ततः प्रद्युम्नसंज्ञक आसीत् । तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत । तस्मात् दश प्रजापतयो मरीच्याद्याः स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त । तेभ्योः सर्वाणि भूतानि च । तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते । तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः सर्वान् परिपाति । स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः सम्प्रार्थ्यमानः सहस्रशिखराणि मेरोः शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार । स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान् प्रवर्तयामास । स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः भुभारमखिलं निचखान । स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान । स एष जगदन्तर्यामी । स एष सर्वात्मकः । स एव मुमुक्षुभिर्ध्येयः । स एव मोक्षप्रदः । एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते । तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति । तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम् एतदधीयानः सर्वत्रतुफलं लभते शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥ ॥ इति द्वितीयः खण्डः ॥ हरिः ॐ तत्सत् ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः शान्तिः शान्तिः । ॥ इति कृष्णोपनिषत्समाप्ता ॥ ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥ Profread by H.P. Raghunandan, Shrisha Rao, Vijay S. Pai