अक्षर आकार:

माण्डूक्योपनिषत् कारिकासहिता

Mandukyopanishat with Karika by Gaudapada

माण्डूक्योपनिषत् कारिकासहिता

। सगौडपादीयकारिकाथर्ववेदीयमाण्डूक्योपनिषत् । ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ भद्रं नो अपि वातय मनः ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । ॐ इत्येतदक्षरं इदꣳ सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोंकार एव । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव ॥ १॥ सर्वꣳ ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥ जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥ यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥ एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६॥ अत्रैते श्लोका भवन्ति बहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ १॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २॥ विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ ४॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५॥ प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ॥ ६॥ विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८॥ भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ९॥ ---------------------------------- नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञं । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥ अत्रैते श्लोका भवन्ति निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १०॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ ११॥ नऽऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १२॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३॥ स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४॥ अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८॥ ---------------------------------- सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८॥ जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद् वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥ स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षाद् उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदꣳ सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥ अत्रैते श्लोका भवन्ति विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९॥ तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २०॥ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ २१॥ त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२॥ अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३॥ ---------------------------------- अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥ अत्रैते श्लोका भवन्ति ओंकारं पादशो विद्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २४॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५॥ प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ २८॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ २९॥ इति माण्डूक्योपनिषदर्थाविष्करणपरायांसु गौडपादियकारीकायांसु प्रथममागमप्रकरणम् ॥ १॥ । ॐ तत्सत् । गौडपादीयकारिकासु वैतथ्याख्यं द्वितीयं प्रकरणम् । । हरिः ॐ । वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १॥ अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २॥ अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३॥ अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४॥ स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७॥ अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तान्यं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८॥ स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९॥ जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १०॥ उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि । क एतान्बुध्यते भेदान् को वै तेषां विकल्पकः ॥ ११॥ कल्पयत्यात्मनाऽऽत्मानमात्मा देवः स्वमायया स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२॥ विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् । नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३॥ चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ॥ कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४॥ अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५॥ जीवं कल्पयते पूर्वं ततो भावान्पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६॥ अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ १७॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ १८॥ प्राणादिभिरनन्तैश्च भावैरेतैर्विकल्पितः । मायैषा तस्य देवस्य यया सम्मोहितः स्वयम् ॥ १९॥ प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २०॥ पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ २१॥ वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २२॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३॥ काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ २४॥ मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २५॥ पञ्चविंशक इत्येके षड्विंश चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६॥ लोकाꣳल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७॥ सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वाऽसौ तद्ग्रहः समुपैति तम् ॥ २९॥ एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३०॥ स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२॥ भावैरसद्भिरेवायमद्वयेन च कल्पितः । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३॥ नाऽऽत्मभावेन नानेदं न स्वेनापि कथञ्चन । न पृथङ्नापृथक्किञ्चिदिति तत्त्वविदो विदुः ॥ ३४॥ वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५॥ तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६॥ निस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७॥ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८॥ इति गौडपादीयकारिकासु वैतथ्याख्यं द्वितीयं प्रकरणम् ॥ २॥ ॐ ॥ उपासानाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः । घटादिवच्च सङ्घातैर्जातावेतन्निदर्शनम् ॥ ३॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहाऽऽत्मनि ॥ ४॥ यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते । न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६॥ नाऽऽकाशस्य घटाकाशो विकारावयवौ यथा । नैवाऽऽत्मनः सदा जीवो विकारावयवौ तथा ॥ ७॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः ॥ ८॥ मरणे सम्भवे चैव गत्यागमनयोरपि । स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ९॥ सङ्घाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १०॥ रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीवः खं यथा सम्प्रकाशितः ॥ ११॥ द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाऽऽकाशः प्रकाशितः ॥ १२॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४॥ मृल्लोहविस्फुलिङ्गाद्यै सृष्टिर्या चोदिताऽन्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५॥ आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८॥ मायया भिद्यते ह्येतन्नान्यथाऽजं कथञ्चन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २०॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २१॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२॥ भूततोऽभूततो वाऽपि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३॥ नेह नानेति चाऽऽम्नायादिन्द्रो मायाभिरित्यपि ॥ अजायमानो बहुधा मायया जायते तु सः ॥ २४॥ सम्भूतेरपवादाच्च सम्भवः प्रतिषिध्यते । को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५॥ स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वमग्राह्यभावेन हेतुनाऽजं प्रकाशते ॥ २६॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते ॥ २८॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २९॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३०॥ मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१॥ आत्मसत्यानुबोधेन न सङ्कल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२॥ अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्मज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४॥ लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५॥ अजमनिद्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३६॥ सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७॥ ग्रहो न तत्र नोत्सर्ग्रश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८॥ अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९॥ मनसो निग्रहायत्तमभयं सर्वयोगिनाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४०॥ उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ४१॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२॥ दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३॥ लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४॥ नाऽऽस्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरच्चित्तमेकी कुर्यात्प्रयत्नतः ॥ ४५॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षत ॥ ४७॥ न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८॥ इति गौडपादियकारिकायामद्वैताख्यं तृतीयं प्रकरणम् ॥ ३॥ ॐ तत्सत् ॥ ज्ञानेनाऽऽकाशकल्पेन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन सम्बुद्धस्तं वन्दे द्विपदां वरम् ॥ १॥ अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ २॥ भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३॥ भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तो द्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४॥ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत ॥ ५॥ अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ७॥ स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ८॥ सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९॥ जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १०॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११॥ कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२॥ अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरूपवर्ण्यते ॥ १४॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५॥ सम्भवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६॥ फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७॥ यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८॥ अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९॥ बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २०॥ पूर्वापरापरिज्ञानमजातेः परिदीपकम् । जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ २१॥ स्वतो वा परतो वाऽपि न किञ्चिद्वस्तु जायते । सदसत्सदसद्वाऽपि न किञ्चिद्वस्तु जायते ॥ २२॥ हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३॥ प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । सङ्क्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४॥ प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ २५॥ चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६॥ निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७॥ तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८॥ अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २९॥ अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति । अनन्तता चाऽऽदिमतो मोक्षस्य न भविष्यति ॥ ३०॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२॥ सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् । संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३॥ न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ ३४॥ मित्राद्यैः सह संमन्त्र्य सम्बुद्धो न प्रपद्यते । गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो न पश्यति ॥ ३५॥ स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ ३६॥ ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते । तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७॥ उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८॥ असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९॥ नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४०॥ विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासात् धर्मांस्तत्रैव पश्यति ॥ ४१॥ उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैः अजातेस्त्रसतां सदा ॥ ४२॥ अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३॥ उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४॥ जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५॥ एवं न जायते चित्तमेवंधर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यते ॥ ४६॥ ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७॥ अस्पन्दमानमलातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४८॥ अलाते स्पन्दमाने वै नाऽऽभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते ॥ ४९॥ न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेशतः ॥ ५०॥ विज्ञाने स्पन्दमाने वै नाऽऽभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥ ५१॥ न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२॥ द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ५३॥ एवं न चित्तजा धर्माश्चित्तं वाऽपि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४॥ यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५॥ यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६॥ संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै । सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७॥ धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८॥ यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः । नासौ नित्यो न चोच्छ्येदी तद्वद्धर्मेषु योजना ॥ ५९॥ नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६०॥ यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ ६१॥ अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयं ॥ ६२॥ स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वाऽपि जीवान्पश्यति यान्सदा ॥ ६३॥ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४॥ चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वाऽपि जीवान्पश्यति यान्सदा ॥ ६५॥ जाग्रच्चितेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६॥ उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति नोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥ ६७॥ यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८॥ यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९॥ यथा निर्मितको जीवो जायते म्रियतेऽपि वा । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७०॥ न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ७१॥ चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम् । चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२॥ योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ । परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३॥ अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ॥ ७४॥ अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५॥ यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६॥ अनिमित्तस्य चित्तस्य याऽनुत्पत्तिः समाऽद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७॥ बुध्द्वाऽनिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८॥ अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८०॥ अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१॥ सुखमाव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३॥ कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदाऽऽवृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४॥ प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५॥ विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ८६॥ सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७॥ अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८॥ ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९॥ हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः । तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९०॥ प्रकृत्याऽऽकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किञ्चन ॥ ९१॥ आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२॥ आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ९४॥ अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५॥ अजेष्वजमसङ्क्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६॥ अणुमात्रेऽपि वैधर्मे जायमानेऽविपश्चितः । असङ्गता सदा नास्ति किमुताऽऽवरणच्युतिः ॥ ९७॥ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८॥ क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९॥ दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १००॥ इति गौडपादाचर्यकृता माण्डूक्योपनिषत्कारिकाः सम्पूर्णाः ॥ ॐ तत्सत् ॥