अक्षर आकार:

कामराजकीलितोद्धारोपनिषत्

Kamaraja Kilitoddhara Upanishad

कामराजकीलितोद्धारोपनिषत्

अथोवाच कामराजम् । तदुपासनात् कुशलं लभेत् । श्रियं लभेत् । गुर्वीं वाणीं लभेत् । सर्वयुवतीनां प्रियो भवेत् । प्रथमं कामस्ततः शक्तिस्तदनु तुरीयं द्वावेतौ परैतानि पञ्चाक्षराणि भवन्ति । ततः शून्यं च द्वौ दिवाकरहरौ । तदनु गोत्रभृन्माया । एतानि षडक्षराणि भवन्ति । ततश्चन्द्रः प्रजापतिशक्रौ । ततो माया । एतानि चतुरक्षराणि भवन्ति । आद्यं वाग्भवं द्वितीयं कामराजं तृतीयं शक्तिबीजं शुक्लं तरुगदिवाकराभं शशिकान्तं क्रमेण स्मरेत् । कफारादित्वात्कीलिता । कोटिजपात् सिद्धिर्न जायते । यदा मन्मथकलादिर्भवति तदा निष्कीलिता भवेत् । सिद्धिदा भवेत् । सा वीर्यवती भवेत् । त्रैलोक्यं वशमानयेत् । पूजनाद्दौर्भाग्यनाशो भवेत् । जपात् सिद्धीश्वरो भवेत् । इति शिवम् ॥ १॥ अथाद्यं शाम्भवं द्वितायं शाक्तं चेति गुरुमुखात् ज्ञातव्यम् । अन्यथा शापमाप्नुयात् । उपासना द्विविधा । शाम्भवं शाक्तं चेति । एवं लोपनाल्लोपा । प्रथमं शम्भुचन्द्रौ । तदनु दिवाकरेन्द्रौ । ततः पराबीजं वाग्भवम् । ततः कामराजं शिवचन्द्रकामशम्भुहरयः । पराबीजं शक्तिः । कामपरामध्ये देवराजमेतच्छक्तिकूटम् । एतेन पञ्चादशाक्षराणि भवन्ति । शम्भुप्रधानत्वाच्छाम्भवम् । पूर्णोहं शिवोऽहमद्वैतरूपोऽहं नित्यानन्दरूपोऽहं इति स्मरेत् । नापि पूजायां व्रतनियमः । सर्वदा जपं चरेत् । विनोदतः कामिनीमध्ये कामि नीर्दृष्ट्वा च सदानन्दरूपो भवेत् । दिव्याङ्गरागौर्देहं भृषयेत् सुगन्धमाल्याम्बरालङ्काराद्यैः । मांसाद्यैः शुद्धैः सुमधुरैर्भोजयेत् । भपञ्चकेन पूजा कार्या । सदा कौलिको भवेत् । कुलाचागत् सर्वसिद्धीश्वरो भवेत् । एकाकी शक्तियुक्तो भवेत् । मादनं भुक्त्वा शक्तिभुग्भवेत् । शक्तिचक्रं पूजयेत् । भोगेन शिवं मोक्षमाप्नुयात् । शक्तिहर्षोत्पादनाच्छक्तिः प्रीता भवति । इति शिवम् ॥ २॥ अथ वकुलैरर्चयेत् । रक्तपुष्पैरर्चयेत् । तदभावे जलैस्तदभाबे मानसीं भक्तिमाचरेत् । इति शिवम् ॥ ३॥ (शाक्त-उपनिषदः) इत्याथर्वणशाखायां कामराजकीलितोद्धारोपनिषत् समाप्ता ।