अक्षर आकार:

गोपीचन्दनोपनिषत्

Gopichandana Upanishad

गोपीचन्दनोपनिषत्

गोपिकास्वान्तसंलीनं श्रीकृष्णाख्यं परं महः । ब्रह्मानन्दस्वरूपं तत्स्वमात्रमिति चिन्तये ॥ १॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ गोपी का नाम । संरक्षणी । कुतः संरक्षणी । लोकस्य नरकान्मृत्योर्भयाच्च संरक्षणी । चन्दनं तुष्टिकारणं च । किं तुष्टिकारणम् । ब्रह्मानन्दकारणम् । य एवंविद्वानेतदाख्यापयेद्य एतच्च धारयेद्गोपीचन्दनमृत्तिकाया निरुक्त्या धारणमात्रेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥ १॥ गोप्यो नाम विष्णुपत्न्यः स्युस्तासां चन्दनमाह्लादनम् । कश्चाह्लादः । एष ब्रह्मानन्दरूपः । काश्च विष्णुपत्न्यो गोप्यो नाम । या आत्मना ब्रह्मानन्दैकरूपं कृष्णाख्यं परं धामाजयंस्ता जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाद्या महामायाः । कश्च विष्णुः । परं ब्रह्मैव विष्णुः । कश्चाह्लादः । गोपीचन्दनसंसक्त- मानुषाणां पापसंहरणाच्छुद्धान्तकरणानां ब्रह्मज्ञानप्राप्तिश्च । य एवं वेदेत्युपनिषत् ॥ २॥ गोपीत्यग्र उच्यतां चन्दनं तु ततः पश्चात् । गोपीत्यक्षरद्वयं चन्दनं तु त्रियक्षरं तस्मादक्षरपञ्चकम् । य एवंविद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति पञ्चत्वं न स पश्यति ततोऽमृतत्वमश्नुते ततोऽमृतमश्नुत इति ॥ ३॥ अथ मायाशबलितं ब्रह्मासीत्ततश्च महदाद्या ब्रह्मणो महामायासम्मिलितात् । पञ्चभूतेषु गन्धवतीयं पृथिव्यासीत् । पृथिव्याश्च वैभवाद्वर्णभेदाः । पीतवर्णा मृदो जायन्ते लोकानुग्रहार्थम् । मायासहितब्रह्मसम्भोगवशादस्य चन्दनस्य वैभवम् । य एवंविद्वान्यतिहस्ते दद्यादनुपप्लवः सर्वमायुरेति । ततः प्राजापत्यं रायस्पोषं गौष्पत्यं च । य एतद्रहस्यं सायं प्रातर्ध्यायेदहोरात्रकृतं पापं नाशयति मृतो मोक्षमश्नुत इति ॥ ४॥ गोपीचन्दनपङ्केन ललाटं यस्तु लेपयेत् । एकदण्डी त्रिदण्डी वा स वै मोक्षं समश्नुते ॥ १॥ गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा । तं तं पूतं विजानीयाद्राजभिः सत्कृतो भवेत् ॥ २॥ ब्रह्महन्ता कृतघ्नश्च गोघ्नश्च गुरु तल्पगः । तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥ ३॥ गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् । अभिव्याप्यायतो भूत्वा देवेन्द्रपदमश्नुते ॥ ४॥ गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते । एवं ब्रह्मादयो देवास्तन्मुखास्तानुपासते ॥ ५॥ गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते । विष्णुपूजितभूतित्वाद्विष्णुलोके महीयते ॥ ६॥ सदाचारः शुभाकल्पो मिताहारो जितेन्द्रियः । गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥ ७॥ गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् । ततः कोटिगुणं पुण्यमित्येवं मुनिरब्रवीत् ॥ ८॥ गोपीचन्दनलिप्ताङ्गैर्जपदानादि यत्कृतम् । न्यूनं सम्पूर्णतां याति विधानेन विशेषतः ॥ ९॥ गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् । कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥ १०॥ अग्निष्टोमसहस्राणि वाजपेय शतानि च । तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥ ११॥ गोपीचन्दनदानस्य नाश्वमेधकृतः फलम् । न गङ्गया समं तीर्थं न शुद्धिर्गोपिचन्दनात् ॥ १२॥ बहुमाऽत्र किमुक्तेन गोपीचन्दनमण्डनम् । न तत्तुल्यं भवेल्लोके नात्र कार्या विचारणा ॥ १३॥ चन्दनं चापि गोपीनां केलिकुङ्कुमसम्भवम् । मण्डनात्पावनं नॄणां भुक्तिमुक्तिफलप्रदम् ॥ १४॥ कृष्णगोपीरतोद्भूतं पापघ्नं गोपिचनदनम् । तत्प्रसादात्सर्वदैव चतुर्वर्गफलप्रदम् । तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ॥ १५॥ कुङ्कुमं कृष्णगोपीनां जलक्रीडासु सम्भृतम् । गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ॥ १६॥ कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् । तिलमात्रं प्रदायेदं पुनात्या दशमं कुलम् ॥ १७॥ गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् । विष्णुरूपमिदं पुण्यं पावनं पातवर्णकः ॥ १८॥ आपो वा अग्र आसन् । तत्र प्रजापतिर्वायुर्भूत्वाऽश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत् । ततो व्याहृतीस्ततो गायत्रीम् । गायत्र्या वेदास्तैरिदमसृजत । धूममार्गविस्तृतं हि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत । तत उपनिषदः श्रुतय आविर्बभूवुः । अर्चिमार्गविस्तृतं वेदार्थमभिसन्धाय सर्वान्वेदासरहस्योपनिषदङ्गान्ब्रह्मलोके स्थापयामास । ताश्चोपादिशद्वैवस्वतेऽन्तरे सगुणं ब्रह्म चिद्घनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्याविर्भविष्यति । तत्र भवत्यः सर्वलोकोत्कृष्टसौन्दर्यक्रीडाभोगा गोपिकास्वरूपैः परब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकाः ---इति ब्रह्मवरं लब्ध्वा श्रुतयो ब्रह्मश्लोकगाः । कृष्णमाराधयामासुर्गोकुले धर्मसङ्कुले ॥ १९॥ श्रीकृष्णाख्यं परं ब्रह्म गोपिकाः श्रुतयोऽभवन् । एतत्सम्भोगसम्भूतं चन्दनं गोपीचन्दनं चन्दनं गोपीचन्दनमित्युपनिषत् ॥ २०॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्याथर्वणीया गोपीचन्दनोपनिषत्समाप्ता ॥