अक्षर आकार:

द्रमिडोपनिषत्सारः

dramiDopaniShatsAraH

द्रमिडोपनिषत्सारः

श्रीः । श्री वेदान्ताचार्यैः अनुगृहीतः द्रमिडोपनिषत्सारः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ सेवायोग्योऽतिभोग्यः शुभसुभगतनुः सर्वभोग्यातिशायी श्रेयस्तद्धेतुदाता प्रपदनसुलभोऽनिष्टविध्वंसशीलः । भक्तच्छन्दानवर्ती निरुपधिकसुहृत् सत्पदव्यां सहायः श्रीमान् सर्वोचितायामुपनिषदि मिषत्येष गाथाशतैर्नः ॥ १॥ आद्ये पश्यन्नुपायं प्रभुमिह परमप्राप्यभूतं द्वितीये कल्याणोदारमूर्तेर्द्वितयमिदमिति प्रेक्षमाणस्तृतीये । ऐश्वर्यादेश्चतुर्ये विषमधुतुलयाऽनन्यभोग्यत्वमिच्छन् षड्भिः स्वां पञ्चमाद्यैरनितरगतिततामाचचक्षे मुनीन्द्रः ॥ २॥ परं निर्वैषम्यं सुलभमपराधप्रसहनं सुशीलं स्वाराधं सरसभजनं स्वार्जवगुणम् । सुसात्म्यस्वानन्दप्रदमनघविश्राणनपरं मुकुन्दं निध्यायन् मुनिरधिजगावाद्यशतके ॥ ३॥ द्विकाभ्यां द्व्यष्टाङ्घ्रिर्दुरधिगमनीतिस्थपुटिता यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । तदादौ गाथाभिर्मुनिरधिकविंशाभिभिरिह नः कृती सारग्राहं व्यतरदिह संगृह्य कृपया ॥ ४॥ परत्वाद्यैरित्थं परिचरणसक्तो गुणगणैः प्रभुं सेवायोग्यं प्रथमशतके वीक्ष्य वरदम् । तमेव स्वात्यर्थप्रियमथ च भोक्तुं व्यवसितौ वरेष्कवं तस्य प्रथमवरणीयं प्रथयति ॥ ५॥ छितीयेऽतिक्लेशक्षणविरहमुत्तुङ्गललित भिलत्सर्वारूपादं व्यसनशमनं स्वाप्तिमुदितम् । स्ववैमुख्यत्रस्तं स्वजनसुहृदं मुक्तिरसदं स्वकैकृनर्योद्देश्यं सुभगसविधस्थं निरनिशत् ॥ ६॥ उपायत्वैकान्तं प्रथममिह सेव्यत्वमुदितं ततश्च प्राप्यत्वौपयिकमतिभोग्यत्वमवदत् । द्वयं तत्स्वासाधारणतनुविशित्रस्य गणयन् तृतीये विश्वेशं शुभसुभगरूपं कथयति ॥ ७॥ अनीदृक्यौन्दर्यं तनुविहितसर्शादिसुभं स्वसेवार्थाकारं प्रगुणवपुषं मोहनतनुम् । अपश्यल्लभ्यार्चाविभवमतिदास्यावल्कं सदा दृश्यं स्तुत्याकृ।तेअधविरुद्धाकृतिशिह ॥ ८॥ श्रिया कान्तोऽनन्तः शुमलनुविशिष्टः फलमसौ फलावाप्तहेतुः स्वयप्रिति च निर्धार्य शतकैः । इदानीं घुद्धिस्थक्रमत इह युक्ढ्रया मुनिवरः फलत्वं तस्यैव द्रढयति तदन्येषु विमुखः ॥ ९॥ स्तियैफुवयं तुर्ये रज्ञहजवहभोभ्य निरविशत् मिथस्श्लिञ्छं क्लेशावहसहिनुतुव्य निजजनम् । कृतार्थीकुर्वन्तं प्रणयिभिषजं सद्वदकगुण ख्यहेयस्वोपेक्ष्य स्वमतफलमुञ्चैस्यववगतम् ॥ १०॥ उपायत्वं यत्तत् प्रथमशतकेऽभाव्यत विभोः अनन्योपायस्तत् द्रढयति परं पञ्चमनुखैः । निरीहस्तत्रादौ निरचधिकनिर्हेतुकदया- सरिरस्रोतः पद्मं शरणयति नायदन्य चरणम् ॥ ११॥ दयानिघ्न भक्तैरघविमथनं प्रेमजनकं जगद्रक्षादीक्षं स्मृतिसुप्रमहम्भावविश्वम् । शरण्यं दीनानां स्वररवकृतदास्याभ्युपगमं प्रचख्यौ तं प्राप्तं प्रशकनकृतं पञ्चमशने ॥ १२॥ अन्नाद्यन्तानन्दस्वरसकरुणाकन्दजलितः प्रणेतुर्व्यापारः प्रपदनविपाकार्ह उदितः । तमाचार्योपक्षं चिरविरश्मिख्यात्मघटन- स्फुरच्छक्तिं षष्ठे मुनिरशरणो याति शरणम् ॥ १३॥ गुरुद्वारोपेयं स्वयमभिमतं वौरेघटकं चरित्रैः कर्षन्तं परविघटनं स्वान्वितहरम् । निदानं धृत्यादेर्धटकवशभूतिद्धयमगात् अनर्हद्वैघटथं त्वविकलशरण्यस्थितिमिह ॥ १४॥ तदेवं षष्ठान्तं विक्तिसविशेअग्रपहानः म्लालाभात् खिन्नस्त्वरितहृदयः सप्तमशते । अनिष्टोपन्यासप्रभृतिभिरनिष्टप्रशमने स्वतःसिध्यच्छलि प्रभुमभिमुखं संमुखयति ॥ १५॥ सहन् शाट्याशङ्कनं उपशमितगर्हः प्रकटयन् स्वगोवृणत्वं गुप्तिक्रममखिलजन्तुप्रणयिताम् । श्रिताक्रन्दच्छेत्ता स्मरणविशदश्चित्रविभवः स्तुतौ युञ्जन् स्तोतृमुयसनजिददर्शि प्रभुवरः ॥ १६॥ अथानिष्टान् ख्या स्वयमुपजिहीर्षन्नपि विभुः तदिच्छां बाह्येषु प्रशमयितुकामः क्रमवशात् । निजेच्छार्संसिद्धत्रिविधचिदचिक्कतविततिः श्रितेच्छावैचित्रीवशा इति वदत्यक्ष्मशते ॥ १७॥ दिदृक्षायां दृश्यः प्रभुरगणि निस्सङ्गसुलभः स्वाष्टृश्लेषे कान्तः श्रितविहितपौष्कल्यविभवः । अपेक्षासापेक्षः स्ववितरणसज्जो हृदि रतः स्वदास्यं तन्निष्ठा तदवधिमपीह प्रकटयन् ॥ १८॥ अभीष्टं विश्वस्मिन् विषमफलकाङ्घिण्यविषमं प्रयच्छन्तं दृष्ट्वा परमपुरुषायैकरसिकः । निरस्तान्यापेक्षो निखिलजगदीशस्य नवमे निदानं सिद्धीनां निरुपधिकसुहृत्त्वं गणयति ॥ १९॥ अभाव्येको बन्धुश्चिरकृतदयः शीलजलधिः स्वसबन्धात् गोप्ता स्वगुणगरिमस्मारणपरः । अशक्यो विस्मर्तुं घटकमुखीवस्नभविषयः सुमज्जनिः सिद्ध्यनुछसमय इच्छन्नवसरम् ॥ २०॥ उदन्तैरित्येवं निरुपधिकसौहार्दपिशुनैः उदन्यामुस्तोमुपजनितवन्तं निजपदे । विवर्गाप्तिक्रान्तस्थिरजगरघशवपथगतेः सहायीकुर्वाणश्चरमशतके विन्दनि मुनिः ॥ २१॥ गतिं व्यध्वक्लेशच्छिदमपदशङ्कास्पदरर्सं भजद्भिः सुप्रापं विविधभजनप्रम्लिमिह । फले तीव्रोद्योगं स्वविक्यकृतात्यादरमगात् यदृच्छातुष्टं सत्सराशामपुनर्जन्मसयुजम् ॥ २२॥ परं प्राप्यं पश्यन् परिचरणहेतुं विगणयन् परिष्कुर्वन्नाज्ञामनितरशरण्यः शरणयन् । अनिष्टप्रध्वंसप्रभृतिषु निदानं च कथयन् मुहुर्देवं लक्त्या सहितमिह भेजे मुनिवरः ॥ २३॥ पुरा शोकः श्लोकोऽभवदिति नयादित्यपनिप- न्मुनेः पुण्यश्लोकादजनि परभक्तेः परिणतिः । व्यपोह्य स्वं भावं हरिचरणसन्तानकलिकाम् अविक्षद्योगी यस्तनुमतनुकारुण्यविवशः ॥ २४॥ सतामित्थं सारं द्रमिडनिगमस्यान्वकथयत् बहूनां विद्यानां बहुभतिपद वेङ्कटपतिः । दिशासौधश्रेणीदृढघटितजैत्रध्वजपटी- परामर्शभ्रश्यद्व्यतिमतनिराबाधनिगमः ॥ २५॥ मनुप्रआसप्राचेतधृवपरिषदर्हा क्वचिदियं सुभवासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने । निरुव्यडयुः के विन्ध्याचलविकटसन्ध्यानटज्झा- परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ २६॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु द्रमिडोपनिषत्सारः समाप्तः ।