अक्षर आकार:

श्रीश्रीचैतन्योपनिषत्

ShrI ShrI Chaitanya Upanishad

श्रीश्रीचैतन्योपनिषत्

अथ पिप्पलादः समित्पाणिर्भगवन्तं ब्रह्माणमुपसन्नो, भगवन् मे शुभं किमत्र चक्षस्वेति ॥ १॥ स होवाच । भूय एव तपसा ब्रह्मचार्येण शश्वत् रमस्व मनो वशेति ॥ २॥ स तथा भूत्वा भूय एनमुपसद्याह - भगवन् कलौ पापाच्छन्नाः प्रजाः कथं मुच्येरन्निति ॥ ३॥ को वा देवता को वा मन्त्रो ब्रूहीति ॥ ४॥ स होवाच । रहस्यं ते वदिष्यामि - जाह्नवीतीरे नवद्वीपे गोलोकाख्ये धाम्नि गोविन्दो द्विभुजो गौरः सर्वात्मा महापुरुषो महात्मा महायोगी त्रिगुणातीतः सत्त्वरूपो भक्तिं लोके काश्यतीत । तदेते श्लोका भवन्ति ॥ ५॥ एको देवः सर्वरूपी महात्मा गौरो रक्त-श्यामल-श्वेतरूपः । चैतन्यात्मा स वै चैतन्यशक्तिर्भक्ताकारो भक्तिदो भक्तिवेद्यः ॥ ६॥ नमो वेदान्तवेद्याय कृष्णाय परमात्मने । सर्वचैतन्यरूपाय चैतन्याय नमो नमः ॥ ७॥ वेदान्तवेद्यं पुरुषं पुराणं चैतन्यात्मानं विश्वयोनिं महान्तम् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८॥ स्वनाममूलमन्त्रेण सर्वं ह्लादयति विभुः ॥ ९॥ द्वे शक्ती परमे तस्य ह्लादिनी संविदेव च । इति ॥ १०॥ स एव मूलमन्त्रं जपति हरिरिति कृष्ण इति राम इति ॥ ११॥ हरति हृदयग्रन्धिं वासनारूपमिति हरिः । कृषिः स्मरणे तच्च णन्तदुभयमेलनमिति कृष्णः । रमयति सर्वमिति राम आनन्दरूपः । अत्र श्लोको भवति ॥ १२॥ मन्त्रो गुह्यः परमो भक्तिवेद्य ॥ १३॥ नामान्यष्टावष्टे च शोभनानि, तानि नित्यं ये जपन्ति धीरास्ते वै मायामतितरन्ति नान्यः । परमं मन्त्रं परमरहस्यं नित्यमावर्तयति ॥ १४॥ चैतन्य एव सङ्कर्षणो वासुदेवः परमेष्ठी रुद्रः शक्रो बृहस्पतिः सर्वे देवाः सर्वाणि भूतानि स्थावराणि चराणि च यत्किञ्चित् सदसत् कारणं सर्वम् । तदत्र श्लोकः ॥ १५॥ यत्किञ्चिदसद्भुङ्क्ते क्षरं तत्कार्यमुच्यते ॥ १६॥ सत्कारणं परं जीवन्तदक्षरमितीरितम् ॥ १७॥ क्षराक्षराभ्यां परमः स एव पुरुषोत्तमः । चैतन्याख्यं परं तत्त्वं सर्वकारणकारणम् ॥ १८॥ य एनं रसयति भजति ध्यायति स पाप्मानं तरति, स पूतो भवति, स तत्त्वं जानाति, स तरति शोकम् । गतिस्तस्यास्ते नान्यस्येति ॥ १९॥ न चैतन्यात् कृष्णाज्जगति परतत्त्वात्परमिह ॥ इति ।