अक्षर आकार:

बिल्वोपनिषत्

Bilva Upanishad

बिल्वोपनिषत्

अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः पूज्यमाना निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्परं शिवसायुज्यमाप्नोति? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान् सदाशिवः ॥ न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन । मत्स्वरूपस्त्वयं ज्ञेयो बिल्ववृक्षो विधानतः । एकेन बिल्वपत्रेण सन्तुष्टोऽस्मि महामुने ॥ इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥ भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण । कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥ इति पुनः पृच्छन्तं वामदेवमालिङ्ग्येति होवाच ॥ बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम । मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥ द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव । पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥ बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा । मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥ प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥ सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः । प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ॥ देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा । ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥ वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् । इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥ पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये । उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥ मम सायुज्यमाप्नोति नात्र कार्या विचारणा । त्रिमूर्तिस्त्रिगुणं बैल्वमग्निरूप तथैव च । ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥ पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि । सबिल्वरूपं सगुणात्मरूपं त्रिमूर्तिरूपं शिवरूपमस्मि ॥ पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा । उत्तानबिल्वपत्रेण पूजयेत् सर्वसिद्धये ॥ तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय । बिल्वपत्रं विना वस्तु नास्ति किञ्चित्तवानघ ॥ तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय । उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके ॥ इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम । तिष्ठत्येव महावीरः पुनर्जन्मविवर्जितः ॥ सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् । मम सान्निध्यमाप्नोति प्रमथैः सह मोदते ॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । बिल्वपूजनतो लोके मत्पूजायाः परा न हि ॥ त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्णं त्रयीमयम् । त्रिगुणं निजगन्मूर्तित्रयं शक्तित्रयं त्रिदृक् ॥ कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् । तेजस्त्रयमकारोकारमकारप्रणवात्मकम् ॥ देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् । मह्यं वै ब्राह्मणायेदं मया विज्ञप्तकामिकम् ॥ दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः । मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते ॥ त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः । बोधको ह्या सहस्राद्वै पङ्क्तिं पावयते ध्रुवम् ॥ त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता । श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥ अखण्डानन्दसम्बोधमयो यस्मादहं मुने । विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥ अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् । प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥ उत्तानभागपर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् । मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥ येन केन प्रकारेण बिल्वकेनापि मां यज । तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥ बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः । यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥ य एतदधीते ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेय्यस्तेयी भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते । ॐ सत्यम् ॥ (शैव-उपनिषदः) इति बिल्वोपनिषत् समाप्ता ।