अक्षर आकार:

बाष्कलमन्त्रोपनिषत् सवृत्तिका

bAShkalamantropaniShat with commentary

बाष्कलमन्त्रोपनिषत् सवृत्तिका

अथ बाष्कलमन्त्रोपनिषत् । मेधातिथिं काण्वमिन्द्रो जहार द्या मेषभूयोपगतो विदानः । तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १॥ को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति । सुशेवमिच्चङ्क्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २॥ नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति । तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥ इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसासहिस्तपसा मा विचक्षे । स इद्देवो ऋतमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥ कुहेव मावशमितो नयातै कुहेव ते चित्रतमप्रतिष्ठा । कुहाचिदेष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥ ५॥ प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा । न मामिमे नूनमित्था पथो विदुर्ये मा न यन्ति मिथु चाकशानाः ॥ ६॥ परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः । न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥ अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् । अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८॥ मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी । अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९॥ प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रा अकरोदनीकैः। को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥ १०॥ को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा । रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११॥ विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः । अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२॥ अहमु ह प्रवतिं यज्ञियामियां अहं वेद भुवनस्य नाभिम् । आपिः पिता सूरहमस्य विष्वङ् अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥ अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् । अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४॥ अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् । यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५॥ अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः । अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६॥ अहं दिश प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् । अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः प्रजाः ॥ १७॥ अह चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः । यो मा वेद निहितं गुहा चित् स इदित्था शेभवीदाशयध्यै ॥ १८॥ अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र । मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९॥ न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः । न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥ २०॥ क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि । यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥ २१॥ यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे । ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२॥ अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् । अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥ २३॥ विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः । हंसो विशोको अजरः पुराण ऋतीयमानो अहमस्मि नाम ॥ २४॥ अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः । अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥ २५॥ इति बाष्कलमन्त्रोपनिषत् समाप्ता । अथ बाष्कलमन्त्रोपनिषत् सवृत्तिका । मेधातिथिं काण्वमिन्द्रो जहार इत्याद्या बाष्कलानां मन्त्रोपनिषत् । तस्याश्चेयमल्पाक्षरा वृत्तिरारभ्यते । मेधातिथिनामानमृषिं कण्वस्य पुत्रं सामवेदब्राह्मणप्रसिद्धमिन्द्रः जहार । द्या मेषभूयोपगतो विदानः । मेषभूयं मेषभावम् । भुवः क्यप् । उपगतः प्राप्तः । सामवेदब्राह्मणप्रसिद्धाख्यायिकः । द्याः स्वर्गलोकान् प्रतीति विवक्षितं जहार हृतवान् । विदानः ज्ञानी ॥ तमन्य इत्तमनं परिप्राट् । तं इन्द्रं अन्यः मेधातिथिः इदिति निरर्थको निपातः । तमनं हरणेन ग्लानिपदम् । परिपृच्छतीति परिप्राट् । मेधातिथिः पद एनं नियुयुजे परस्मिन् ॥ १॥ परस्मिन् पदे ज्ञेये तत्स्वरूपे पदार्थे नियुयुजे नियुक्तवान् । विलक्षणमेषीभूतेन्द्रकर्तृकविलक्षणक्रियादर्शनात् आपाततो विलक्षणः परो देवः कश्चिन्न तु मे मेष इति तात्विकतत्स्वरूपज्ञानाय वक्ष्यमाणप्रश्नेन परं पदं ज्ञेयं स्वस्वरूपं कथयेति प्रश्नेन नियोजितवानित्यर्थः । प्रश्नमेवाह श्रुतिः । को ह स्मैष भवसि व्यवायः । ह इति पूर्ववृत्तावद्योतको निपातः । स्मेति निरर्थकम् । एष प्रत्यक्षः । व्यवायो ज्ञेयः । व्यवपूर्वस्यैतेर्घञि रूपम् । कच्चित् ज्ञातुं योग्यस्त्वमसि । नावायो म इह शश्वदस्ति । मे मम शश्वदिति ध्रुवार्थं आवायो ज्ञानं नास्ति कस्त्वमिति । दृश्यमाने मेषस्वरूपे कथमेवं संशय इति चेत् । तत्राह । सुशेवमिच्चङ्क्रमसि । शोभनमेव चङ्क्रमणं करोषि । प्रपश्यन् इत्था न कश्चोरणमाचचक्षे ॥ २॥ इत्था न । हरथमिव । नकार इवार्थः । को वा इत्थं क्रममाणं प्रपश्यन् उरणं मेषं आचचक्षे । उक्तवान् । दृष्टवान् वा । इत्थं क्रममाण उरणो न केनचिद्दृष्ट इति भावः क्रमेण वैलक्षण्यमेवाह । नेमामस्पृक्षदिदुदस्यमानः । इमां पृथिवीं उदस्यमानः । इत् एवार्थे । कूर्दन्नेव न अस्पृक्षत् न स्पृशतीति लकारव्यत्ययः । नैतावता वैलक्षण्यमत आह । को अद्धामूमभिचङ्क्रमीति । अद्धा साक्षात् । अनेनैव शरीरेण । अमूं द्याम् । कः अभिचङ्क्रमीति अभिक्रामति । प्रश्नमुपसंहरति । तदिच्छाधि यो असि सर्ववित्तमः । तत् तस्मात् शाधि । इदित्यनर्थकम् । शिक्षय यस्त्वं सर्ववित्तमः सर्वज्ञतमः असि तत्स्वरूपं कथयेति भाव । अकयनेऽनिष्ट सभाव्यते । तन्मा भवत्वित्याह । न त्वाश्नवद्ब्र्ह्म रिषा मयस्वि ॥ ३॥ मयस्वि तेजस्वि ब्रह्म ब्राह्मण्य रिषा क्रोधन त्वा त्वा न अश्नवत् न अश्नोति न व्याप्नोत् । अस्मदीयक्रोधव्यापागविपया मा भूदित्यभिप्रायः । कुतस्तवैव बलमत आह । इन्द्रो नृचक्षा वृषभस्तुरापाट् । इन्द्र परमेश्वर नृचक्षा सर्वजगत्कर्मसाक्षी वृषभ कामप्रदस्तुरपाट् तुर परबल सहत अभिभवतीति सहे छन्दसीति ण्वि । प्रसासहिस्तपसा मा विचक्षे । प्रसासहि प्रसहनशील । तपसा उपलक्षणे तृतीया । मा मा विचक्ष पश्यति । अत सत्यमकथयत ईश्वराद्भयमप्याह । स इहेवो ऋतप्रन्वयन्तम् । इत एवार्थे । स इत स एव देव ऋत सत्य अनु लक्षीकृत्य अयन्त अगच्छट सत्येन पथा अगच्छन्त सत्यमब्रुवाणमिति यावत् । प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४॥ अपविद्धात् क्षिप्तात् तवसो वक्त्रात प्रभी प्रकृष्ट भय मा अक कार्षीत् । प्रष्टव्यमाह । कुहेव मावशमितो नयातै । कुत्रेव मा मा अवशा इत अस्मात् स्थानात् नयात नायसि । किं च । कुहेव ते चित्रतमप्रतिष्ठा । स्पष्टम् । ईदृक्लष्टे कायवाङ्मनानिर्निषवितमीश्वर स्मरति । कुहाचिदेष स्वपिता पिता नः । एष मानसप्रत्यक्षा न पिता ईश्वर कुहाचित् कुत्र स्वपिता स्वपिति । यो न वेद न हृत हरन्तम् ॥ ५॥ य हृत मा न वेद न वा हरन्त वदत्यन्वय । किं च इतर प्यातन्मनिषविता देवा न मत्सहाया इत्याह । प्रत्यङ्ङ्वाङ्प्राङ्तरा च नेह । पञ्चसु दिक्षु तत्र तत्र वर्तमाना प्राणपञ्चका- धिष्टातारो देवा लक्ष्यन्त । इतरा चत्यन्तेषु । सर्वत्र सप्तम्यर्थो बोध्य । वर्तमाना इति च शेष । तेऽत्र देवा अपि किं नेह सन्ति । पक्षान्तरमाह । नाहमेनाननुपस्थिरद्धा । एना देवान् । जद्वा सत्येन । अह नोपतस्थि नोपस्थाता इति न । अपि तु उपस्थातव । किं च । न मामिमे नूनमित्था पथो विदुः । नून निश्चितोऽयमर्थ । इमे देवा मा इत्था इत्थभूत न विदु । ये मा न यन्ति मिथु चाकशानाः ॥ ६॥ ये पथो मार्गात् मा मा न नयन्ति । कीदृश मिथु मिथ चाकशाना भासमाना । अत परमिन्द्रम्य मेषवेषधारिण प्रतिवचनमुपक्रमते । परः स्मियानो अविवरस्य शूकम् । पर इन्द्र स्मियान हसन् अस्य मेधातिथे शूक शङ्का अविव विवृतवान् । किं सीमिच्छरणं मन्यमानः । सीमिति निरर्थको निपात । इत् प्रश्ने । किं शरण रक्षक मन्यमान असीति शेष । इत्थम्भूतस्त्वं किं शरण मन्यस इत्यर्थ । पुनरिन्द्र आह-- न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७॥ हेत्यैतिह्यार्थ । त्वा त्वा स्वविष्ठा स्वस्थान अप्रणीय अप्रापय्य इत्था इत्थभूत अज्ञानपङ्कनिमग्न न जहामि शपमानमिन्नु शपमानमपि । तथा च त्वामज्ञानपङ्कादुद्धृत्य स्वस्थानमात्मस्वरूप यावन्न प्रापयामि तावन्न त्वा मुञ्चामीति फलितोऽर्थ । तदिच्छाधि यो असि सर्ववित्तम इत्यस्योत्तरमाह । अहमस्मि जरितॄणामु दावा । अह उ इति निश्चये । जरितॄणा यजमानाना ``जरिता वै यजमान'' इति श्रुते । दावा दाता फलस्येति शेष । अस्मि भवामि । यागादिफल- प्रदोऽहमेव । अहमाशिरम् । सोमसस्कारक पय तदप्यहमेव । अहमिदं दधग्वान् । इद हवि दधग्वान् दाहक । एतस्य हविषो दाहकश्चाहमेवेत्यर्थ । किं च । अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८॥ विश्वा भुवनानि विश्वेषा भुवनाना विचक्षन् साक्षी सन्नह देवाना आसन् आस्ये अव अन्नाद्य अद ददामि । कुहेव ते चित्रतमप्रतिष्ठा इत्यस्योत्तरमाह । मम प्रतिष्ठा ध्रुव आण्डकोशाः । भुव उत्पादकस्य मम आण्डकोशा ब्रह्माण्डानि प्रतिष्ठा ``तत्सृष्ट्वा'' इति श्रुते । वि चैमि सं च हि नु यो विरश्पी । योऽह व्येमि वियुक्तो भवामि समेमि सङ्गतश्च भवामि ससारेऽस्मिन् विरश्पी विविध रपति शब्द करोतीति विरश्पी रपधातो शिनिन् । शब्दवान् वेदप्रवक्तेति यावत् । अह न्वहि पर्वते शिश्रियाणम् । नु इति निश्चये । अहमेव नान्य । अहि वृत्रासुर पर्वते शिश्रियाण पर्वताश्रित अहनम् । उग्रो न्वहं तवसावस्युरद्धा ॥ ९॥ उग्र क्रूरकर्मा नु निश्चित अहमेव । तवसा वज्रेण अद्धा निश्चितम् । अवस्यु अन्नेच्छ । ऐश्वर्येच्छुरिति यावत् । सोऽप्यहमेव । प्रवङ्क्षणानभिदं पर्वतानाम् । प्रवङ्क्षणान् पक्षान् पर्वताना अभिद भेदितवानस्मि । यत्सीमिन्द्रो अकरोदनीकैः । यत् पुरुषसाध्य कर्मेन्द्र अनीकै अकरोत्तत् अहमेवाकरवमिति वाक्यशष । सीमिति निरर्थको निपात । को अद्धा वेद क इह प्रवोचत् । अद्धा सत्य मम स्वरूपमिति शेष । को वेद क वेत्ता । को वा प्रवक्ता । को अश्नवदभिमातिं विजघ्नुष ॥ १०॥ किं च अभिमाति अरिसैन्य विजघ्नुष हतवतो मम मामित्यर्थ । क अश्नवत् क अश्नोत् । मयि व्यापकता कर्तुं न कोऽपि समर्थ इत्यर्थ । को मे अवो दाशुषो विष्ह्वगूतीरित्था ददश्रे भुवनाधि विश्वा । अवोऽन्न दाशुषो दत्तवत मे ऊती शक्ती विश्वा भुवनान्यधि । अधिरीश्वर इति कर्मप्रवचनीयता । सर्वेषु भुवनेषु क ददश्रे क ददर्श । किं च । रूपंरूपं जनुषा बोभवीमि । जनुषा शरीरग्रहणमत रूपरूप अनेकरूप बोभवीमि भवामि शुद्धस्य तव कथ शरीरग्रहणमत आह । मायाभिरेको अभिचाकशानः ॥ ११॥ अनेकाभिर्विचित्रशक्तिमिर्मायाभि एकोऽपि अभित चाकशान भासमान मायाप्रतिबिम्बित इति यावत् । किं च । विश्वं विचक्षे यमयन्नभीक । अभीको निर्भय विश्व यमयन् । अन्तर्यामिस्वरूपेण अधितिष्ठन् । विचक्षे पश्यामि । किं च । नेशे मे कश्च महिमानमन्यः । महिमान प्राप्तुमिति शेष । स्पष्टम् । किं च । अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥ १२॥ द्यावापृथिवी आततानस्तन्वन्नह जनाना अवसे जनाना अवितु धर्मं महावीरं यज्ञशिरो बिभर्मि । इदमुपलक्षणम् । कर्ममार्गप्रवर्तनेनापि लोकरक्षक इति फलितोऽर्थ । ``आहुत्याप्यायते सोम'' इत्यादिस्मृते । अहमु ह प्रवतिं यज्ञियामियाम् । अह उ ह यज्ञिया प्रवति यज्ञसबन्धिन काममहमियाम् । कर्मफलप्रदोऽप्यहमेवेति भाव । अहं वेद भुवनस्य नाभिम् । त्रैलोक्यवर्तिपदार्थमात्र नाभिपदेनोपलक्ष्यते । आपिः पिता सूरहमस्य विष्वङ् । आपि पितामह पिता जनक सूर्माता अहमेव अस्य विश्वस्य । किं च । अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३॥ दिव्या आन्तरिक्ष्याश्च तुका बिन्दून् अह वह वहामि । लकारव्यत्यय अडागमाभावश्च छान्दस । वृष्टिकर्ताप्यहमेवेत्यर्थ । अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् । सर्वत्र कर्मणि षष्ठी अविद वेद्मि । अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य गव्ये ॥ १४॥ परस्य सरस समुद्रस्य मध्ये यत् इत् उदर्थे । उदेतीव । उदय बडबानलस्वरूपेण उदय प्राप्नोतीति यावत् । तत् बडबानलस्वरूप तेज अहमेव सन् सरिरस्य सलिलस्य कर्मणि षष्ठी सलिलमहमेव पचामि । अहमिन्न्नु परमो जातवेदा यमध्वर्युरभिलोकम्पृणैधीत् । अहमिन्नु परम पवित्रतमो जातवेदा अग्नि य जातवेदस अध्वर्यु अभिलोकं पृणा लोकपृणामिष्टकामभि लक्षीकृत्य अध्वर्यु ऐधीत् समिद्ध चकार । यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽऋतोमुतश्च ॥ १५॥ यमध्वर्युमनु लक्ष्यीकृत्य नभसो न पक्षी नभस पक्षीव नकार इवार्थे गोभिर्वाग्भि । इत अमुतश्च काष्ठा दिश भिन्दन् अन्वाह शसति । होतेति शेष । अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः । अह उ । द्विषडारेण द्वादशारेण द्वादशमासात्मकेन संवत्सररूपेण अन्तरिक्षेऽपि अपतता रथेन प्रधिना चक्रधारया उपलक्षितेन यन् गच्छन् य सोऽहमेवेत्यन्वय । कीदृशोऽह एकचक्र । न खल्वन्योऽहमिव एकेन चक्रेण याति । एव सूर्यरूपेण प्रस्तूय चन्द्ररूपेण स्तौति । अहमिन्नु दिद्युतानो दिवेदिवे तन्वं पुपुष्यानमृतं वहामि ॥ १६॥ अहमव निवेदिवे प्रतितिन तन्व शरीर पुपुण्यान् पोपयन् अमृत वहामि प्रापयामि प्रजाभ्य इति शप । कीदृश दिद्युतान प्रकाशमान । अथ वायुरूपेण स्तौति । अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् । स्पष्टम् । अथ पृथिवीरूपेण स्तौति । अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्वाशुपः प्रजाः ॥ १७॥ विश्वा सर्वा ओषधी अन्नानि । आधा दध । दाशुप यजमानस्य प्रजा याभिरोषधीभि इद विश्व धिनुयु प्रीणयन्ति । अथ सकलजीवरूपतामाह । अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः । उच्चावच ऊर्ध्वमधश्च । आब्रह्मस्तम्बपर्यन्तजीवरूपोऽहमेवेति भाव । यो मा वेद निहित गुहा चित्स इदित्था बोभबीदाशययै ॥ १८॥ यो मा मा गुहा गुहायामन्तःकरण निहित हृत्कमलान्तर्वर्तिनमेतदुक्तरूपाभेदेन वेद उपास्त स इत्था इत्थ आशय यै आशयितु आशय कर्तु बोभवीति भवति । इत्थमशया ब्रह्मज्ञानी मत्तुयो भवतीति यावत् । चिदिति निरर्थकम् । अहं पञ्चधा दशधा चैकधा च सहस्रधा नेकधा चासमत्र । अत्र विश्वस्मिन् । एष स्पष्टाम् । मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदु ॥ १९॥ मया ततमिदं विश्वमिति । (अमु अमु प्रकार) अश्नुत प्राप्नोति । तत् तदेतत् मदुक्तम् । अन्यथा असत् अन्यथा स्यात् । यदि एव कऽपि ब्रयुरिति शेष । तर्हि त असद्विदु । स्पष्टम् । न मामश्नोति जरिना कश्चन न माश्नोति परि गोभिराभिः । कश्चित् जरिता यजमान मा न अश्नोति न प्राप्नोति । ``न कर्मणा न प्रजया धनेन'' इति श्रुते । आभिर्गोभिवाग्भि वेदरिति वावत् । न मा परि अश्नोति परिप्राप्नोति । परीति सामस्त्यार्थम् । तथा च ``नायमात्मा प्रवचनेन लभ्य'' इति श्रुतिसमानार्थमेतत् । न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥ २०॥ मे मा कर्मणि षष्ठी । अनाश्वान् अनशनव्रती न अजग्रभीत् । न गृह्णाति । दाश्वान् दाता । दानानाशकयोरपि ``यज्ञेन दानेन तपसानाशकेन'' इति श्रुत्या लोकप्राप्ति हेतुत्वस्यैवोक्ते । न चाहमेकस्मिन्नेव लोके नियत । अतो ज्ञानिन सर्व एव इदेवार्थे मा विश्वत विश्वस्मिन्नुपयन्ति उपगच्छन्ति । क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि । शरारु व्याघ्रादि सृमर वृकश्च क्वेति क्वचित् प्रत्येक उरण मेष सर्वमिदं त्वत् त्वत् त्वच्छब्द अन्यपर्याय । अन्यदन्यच्च इत अनया दिशा अनेन सृष्टिप्रकारेण तसिल सर्वविभक्तिकत्वोक्ते । वहामि । सर्वमपीति भाव । अतश्च पुनरप्याह । यन्मदिमे बिभ्यति तन्म एकम् । यत् मत् मत्त इमे व्याघ्रादयो बिभ्यति भय प्राप्नुवन्ति । व्याघ्रादिभ्यो भूयासो बिभ्यति । व्याघ्रादयोऽपि बहुभ्यो बिभ्यति । यस्माच्च व्याघ्रादयो बिभ्यति सोऽहमेव । तदेतदाह । तन्म एक तत्सर्वमपि मे मम एकमेव । एवमैक्ये स्वस्य तदपेक्षया विशेषमाह । मे ते अक्षन्नहमु ताननुक्षम् ॥ २१॥ ते मे मा न अक्षन् न भक्षयन्ति अदेर्घस्युपधालोप । उ इति अनर्थकम् । अहमु तान् अनुक्ष भक्षयामि अडागमाभाव छान्दस । यत्तप्यथा बहुधा मे पुरा चित् । यत् बहुधा मदर्थ पुरा पूर्व तप्यथा तप्तवानसि । चिदित्यनर्थकम् । तन्नु भुवेऽह उरणो बोभुवे । तत् तस्मादेव हेतो नु निश्चयेन । भुवे भवाय सत्तायै ज्ञानेन तवैव सत्स्वस्वरूपावाप्तय इति यावत् । उरणो मेष । बोभुवे अभवम् । अत परमुपसहरन्नाह । ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे ऋतस्य सत्यस्य पन्था पन्थान प्रपन्नोऽसि । स त्व मे मम एक सत्यमित् सत्यमेव । न त्वन्यत् किमपि सांसारिक ऐहिक प्राप्नुहि । पुन शुद्ध स्वस्वरूपमाह ॥ २२॥ अहं ज्योतिरहममृतं विनद्धिः । नद्धि बन्धनम् । तद्रहितम् । स्पष्टम् । स्वविवर्तत्वेन विश्वय स्वामदमाह । अहं जातं जनि जनिष्यमाणम् । जनि जायमानम् । स्पष्टम् । मेधातिथे स्वामदमुपदर्शयन्नाह । अहं त्वमहमहं त्वमिन्नु त्वमहं चक्ष्व । अहं त्वमेव । अहं दृश्यमानश्चेत् प्रतिबिम्बवत् त्वम् । तर्हि कदाचित् मम मिथ्याभूतत्व प्रतिबिम्बवत् स्यादत आह । अहं चाहमेव । न प्रतिबिम्बवन्मिथ्याभूत इत्यर्थ । तर्हि तवैव प्रतिबिबवन्मिथ्याभूत कदाचित् स्यादत आह । त्वमिन्नु त्वमहं चक्ष्व ॥ त्वमपि त्वमेव अहं चेति च्क्ष्व जानीहि । विचिकित्सीर्म ऋज्वा ॥ २३॥ ऋज्वा ऋजु साम्प्रत न तथाऽपक्वकपायोऽब्रह्मज्ञश्चेति मा विचिकित्सा मा संशय कार्षी । कुत सन्देहे सन् । मा इत्यत्र ऋत्यक इति ह्रस्व ॥ विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः । विधरण जगद्वारकत्वात् । प्रणीती जगत्प्रणेतृत्वात् अन्तर्यामिस्वरूपेणेति भाव । तमन शमन । यमस्वरूपत्वात् । स्पष्टम् । हंसो विशोको अजरः पूरणो ऋतीयमानो अहमस्मि नाम ॥ २४॥ हंसो विवेचकत्वसामान्यात् ऋतीयमानत्व सर्वत्र घृणावत्त्वेन निर्लेपत्वम् । ऋति सात्रा घृणार्य प्रसिद्ध । ऋच्छतत्रियतेर्वा ल्युट् । अहमस्मि दरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः । जरिता यजमान इति व्याख्यात प्राक । पयारण व्यापक । नृचक्षा साक्षी । अहं विःवङ्ङहमस्मि प्रसत्वानहमेको अस्मि यदिद नु किञ्च ॥ २५॥ विश्वङ् व्यापकत्वात् प्रसत्वान् साक्षी । स्पष्टम् । इति बाष्कलमन्त्रोपनिषत् । इति बाष्कलमन्त्रोपनिषत् सवृत्तिका समाप्ता ।