अक्षर आकार:

श्रीअरुणाचलेश्वराष्टोत्तरशतनामावली

Shri Arunachaleshvara Ashtottarashatanamavali

श्रीअरुणाचलेश्वराष्टोत्तरशतनामावली

ॐ श्रीगणेशाय नमः । ॐ अखण्डज्योतिस्वरूपाय नमः ॥ १ ॐ अरुणाचलेश्वराय नमः । ॐ आदिलिङ्गाय नमः । ॐ ब्रह्ममुरारी सुरार्चिताय नमः । ॐ अरुणगिरिरूपाय नमः । ॐ सिद्धिरूपाय नमः । ॐ अरुणाद्रिशिखरवासाय नमः । ॐ हृदयनटेश्वराय नमः । ॐ आत्मने नमः । ॐ अर्धनारीश्वराय नमः ॥ १० ॐ शक्तिसमन्विताय नमः । ॐ आदिगुरुमूर्तये नमः । ॐ सृष्टिस्थितिलयकरणाय नमः । ॐ सच्चिदानन्दस्वरूपाय नमः । ॐ करुणामूर्तसागराय नमः । ॐ आद्यन्तरहिताय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वरूपाय नमः । ॐ विश्ववन्द्याय नमः । ॐ अष्टदारिद्र्यविनाशकाय नमः ॥ २० ॐ नरकान्तककारणाय नमः । ॐ जटाधराय नमः । ॐ गौरीप्रियाय नमः । ॐ कालान्तकाय नमः । ॐ गङ्गाधराय नमः । ॐ गजराजविमर्दनाय नमः । ॐ भक्तिप्रियाय नमः । ॐ भवरोगभयापहाय नमः । ॐ शङ्कराय नमः । ॐ मणिकुण्डलमण्डिताय नमः ॥ ३० ॐ चन्द्रशेखराय नमः । ॐ मुक्तिदायकाय नमः । ॐ सर्वाधाराय नमः । ॐ शिवाय नमः । ॐ जन्मदुःखविनाशकाय नमः । ॐ कामदहनाय नमः । ॐ रावणदर्पविनाशकाय नमः । ॐ सुगन्धलेपिताय नमः । ॐ सिद्धसुरासुरवन्दिताय नमः । ॐ दक्षसुयज्ञविनाशकाय नमः ॥ ४० ॐ पङ्कजहरसुशोभिताय नमः । ॐ सञ्चितपापविनाशकाय नमः । ॐ गौतमादिमुनिपूजिताय नमः । ॐ निर्मलाय नमः । ॐ परब्रह्मणे नमः । ॐ महादेवाय नमः । ॐ त्रिशूलधराय नमः । ॐ पार्वतीहृदयवल्लभाय नमः । ॐ प्रमथनाथाय नमः । ॐ वामदेवाय नमः ॥ ५० ॐ रुद्राय नमः । ॐ श्रीनीलकण्ठाय नमः । ॐ ऋषभध्वजाय नमः । ॐ ऋषभवाहनाय नमः । ॐ पञ्चवक्त्राय नमः । ॐ पशुपते नमः । ॐ पशुपाशविमोचकाय नमः । ॐ सर्वज्ञाय नमः । ॐ भस्माङ्गरागाय नमः । ॐ नृकपालकलापमालाय नमः ॥ ६० ॐ मृत्युञ्जयाय नमः । ॐ त्रिनयनाय नमः । ॐ त्रिगुणातीताय नमः । ॐ त्रिभुवनेश्वराय नमः । ॐ नारायणप्रियाय नमः । ॐ सगुणाय नमः । ॐ निर्गुणाय नमः । ॐ महेश्वराय नमः । ॐ पूर्णरूपाय नमः । ॐ ओङ्काररूपाय नमः ॥ ७० ॐ ओङ्कारवेद्याय नमः । ॐ तुर्यातीताय नमः । ॐ अद्वैताय नमः । ॐ तपोगम्याय नमः । ॐ श्रुतिज्ञानगम्याय नमः । ॐ ज्ञानस्वरूपाय नमः । ॐ दक्षिणामूर्तये नमः । ॐ मौनमुद्राधराय नमः । ॐ मौनव्याख्याप्रकटितपरब्रह्मतत्त्वाय नमः । ॐ चिन्मुद्राय नमः ॥ ८० ॐ सिद्धिबुद्धिप्रदायाय नमः । ॐ ज्ञानवैराग्यसिद्धिप्रदायाय नमः । ॐ सहजसमाधिस्थिताय नमः । ॐ हंसैकपालधराय नमः । ॐ करिचर्माम्बरधराय नमः । ॐ श्रीरमणप्रियाय नमः । ॐ अचलाय नमः । ॐ श्रीलक्ष्मणप्रियाय नमः । ॐ चिन्मयाय नमः । ॐ श्रीशारदाप्रियाय नमः ॥ ९० ॐ गौरिवदनाब्जवृन्द सूर्याय नमः । ॐ नागेन्द्रहाराय नमः । ॐ यक्षस्वरूपाय नमः । ॐ भुक्तिमुक्तिप्रदाय नमः । ॐ सर्वसुन्दराय नमः । ॐ शरणागतवत्सलाय नमः । ॐ सर्वभूतात्मने नमः । ॐ मृत्योर्मृत्युस्वरूपाय नमः । ॐ दिगम्बराय नमः । ॐ देशकालातीताय नमः ॥ १०० ॐ महापापहराय नमः । ॐ नित्याय नमः । ॐ निराश्रयाय नमः । ॐ नित्यशुद्धाय नमः । ॐ निश्चिन्ताय नमः । ॐ मनोवाचामगोचराय नमः । ॐ शिवज्ञानप्रदाय नमः । ॐ शाश्वताय नमः ॥ १०८ इति श्रीलक्ष्मणभगवद्विरचिता श्रीमदरुणाचलेश्वराष्टोत्तरशतनामावली सम्पूर्णा ।