अक्षर आकार:

श्रीविद्यार्यास्तोत्रम्

Shri Vidyarya Stotram

श्रीविद्यार्यास्तोत्रम्

ॐ श्रीगणेशाय नमः । कामितकल्पतरुभ्यः कुर्मः प्रणतिं कुमारनामभ्यः । कुलगिरिजाकुतुकेभ्यः केभ्यश्चित्केकिराजकेतुभ्यः ॥ १॥ अस्तु मनस्तुष्टयै मे वस्तु मुनिस्तुत्यमस्तमिततूस्तम् । ध्वस्तसमस्तसपत्नं हस्तलसच्छक्ति निस्तुलैश्वर्यम् ॥ २॥ एकं प्रशमितशोकं श्रीकण्ठस्याश्रये त्रियं तोकम् । आकम्पितरिपुलोकं मा कञ्चन लेखमन्यमविवेकम् ॥ ३॥ ईक्षामहे कदाग्रे साक्षाल्लाक्षाझरीसदृक्षाभम् । रूक्षासुरकुलशिक्षादीक्षाधरमक्षयोक्षरथभाग्यम् । ४॥ लम्बोदरसहजेभ्यो बिम्बोकेभ्यो ब्रुवे नमोवाकम् । बिम्बोपमाधरेभ्यः कम्बोरातङ्कदायिकण्ठेभ्यः ॥ ५॥ अर्भकमद्भुतमेकं निर्भरमन्तर्भजामि भव्यार्थम् । यो हि गिरीशात्मभवो भजति गिरीशात्मजात्मभवभावम् ॥ ६॥ हन्त निरन्तरमन्तः सन्तनु देवं तमापदन्तकरम् । किं तपसान्येन फलं चिन्तयतामन्तकान्तकतनूजम् ॥ ७॥ राकाशशधरसुषमानीकाशमृदुस्मितार्द्रमुखकमलम् । श्रीकान्तभागिनेयं शोकान्तकरं भजेऽहमेकान्तम् ॥ ८॥ ईडे हृतभवपाशं सुरपृतनेशं कृतासुरविनाशम् । उद्धतराजसदेशं वेशं वेशं वृथैवमानेशम् ॥ ९॥ मनसा वचसा शिरसा चिन्तय सङ्कीर्तयानम कुमारम् । झटिति स विमतान्हत्वा भगवान्कुर्यादभीष्टघटनां ते ॥ १०॥ हरिहयमुख्यसुराणामरिभयशान्तिप्रदाननिष्णातः । गिरितनयाऽऽत्मभवो मां भरितदयापाङ्गगोचरीकुर्यात् । ११। अभिमतफलदो देवैरभिनुतमहिमा ममास्तु स कुमारः । यस्य शिखी जिष्णुर्भजति प्रकृतित्वमपि च पत्रत्वम् ॥ १२॥ स जयति विचित्रचरित्रः शाक्तीकाग्रेसरो महावीरः । शंसन्ति यं महान्तः पुत्रं च पतिं च देववाहिन्याः ॥ १३॥ अमरनिरामयकन्दं समरपराभृतशक्ररिपुवृन्दम् । भ्रमरमिवाध्यरविन्दं श्रमरहितं कुरुत चेतसि स्कन्दम् ॥ १४॥ काञ्चन कौतुकलहरीं क्रौञ्चनगच्छेदिनीं पनीपद्ये । काञ्चनमणिगणविलसत्काञ्चिकया लाञ्छितामलदुकूलाम् ॥ १५॥ अवलोकयेऽन्तरनिशं शिवलोकस्यैकमुज्ज्वलाभरणम् । नवलोहितप्रकाशं भवलोपविधाननिपुणमग्निभुवम् ॥ १६॥ हरतु रिपूनस्माकं शरवणजो भवतु चेष्टसङ्घटकः । हरतु हिमाचलतनयानिरतिशयप्रेमरत्नसम्पुटकः । १७। अरुणं निरवधिकरुणं शरणागतरक्षणे सजागरणम् । शरणं भजामि तरुणं हरिणाङ्काभरणहार्दपरिणामम् ॥ १८॥ ललिते वल्लीमिलिते लीयेमहि महसि बाहुलेयाख्ये । एकं यदपादानीचक्रे प्रकृतीस्तु षडपि जनिकर्तृ । १९॥ अरविन्दवैरिवदनं कुरुविन्दमदापहाररदनम् । शरदिन्दीवरनयनं स्मर वृन्दारकविरोधिनिर्मथनम् ॥ २०। हस्ते यस्य सदाऽऽस्ते शक्तिर्या काचिदप्रतिमशक्तिः । भूभृद्भेदनचुञ्चुस्तं चुम्बतु मानसं चिराय मम । २१। रमणीयाननषट्कं रभसविदीर्णासुरोत्करपृषत्कम् । भजतानतभरणोत्कं भगवन्तं कार्तिकेयमपकलकम् ॥ २२॥ ईशानात्मजमीडे क्लेशानन्तं नयेत्स मम सर्वान् । बन्धूकाभः सायंसन्ध्यासमयो यथातपोद्गारान् ॥ २३॥ मन्मथमथनतनूजे मन्मनसो रतिरनारतं भवतु । उन्मदखलजनभयदे सन्मतिराजीविनीदिनाधीशे ॥ २४॥ सहसा निहतसपत्ना महसां निधयो महामहानन्दाः । इह साम्राज्यमखण्डं गुह सानतयो जनाःप्रपद्यन्ते ॥ २५॥ अङ्गानम गाङ्गयं भङ्गाकटभङ्गदायकाङ्गाभम् । भृङ्गाभिरामकेशं श‍ृङ्गाराद्वैतचारुमुखचन्द्रम् ॥ २६॥ कलये कपालिपुत्रं करुणापात्रं कलापिवरपत्रम् । कलिमलदारुलवित्रं कमलसुनेत्रं कलाधरसुवक्त्रम् ॥ २७॥ अस्मि निलीये तस्मिन् सुस्मितमुखसारसे सुराभयदे । असुरसमूहासुरसप्रसृमरतर्षप्रचण्डभुजभुजगे ॥ २८॥ लोकोत्तरमवलोके लोहितरुचि मनसि किमपि तद्धाम । शोकोत्तरलोऽपि जनो यत्स्मृतिमात्रेण भवति निर्वृतधीः ॥ २९॥ अनुपमसुषमशरीरं भजत कुमारं भवस्य सुकुमारम् । दनुजविनाशविहारं जलधिगभीरं जगद्धितविचारम् । ३०। हतविमतावितलेखे निटिलतटश्रीनिरस्तशशिलेखे । मम रतिरस्तु विशाखे शमलतमस्समुदयाहिममयूखे । ३१। रे मानस विसृजेमां सीमां शोकस्य तावदुद्दामाम् । कौमारं स्मर चरणं भूमानं भज सुखस्य चामानम् । ३२। ईशात्पितुरतिशयितं पञ्चमुखात्षण्मुखं नमस्कुर्मः । योऽयमधःकुर्वाणो जयतितरां नीलकण्ठमुरगभुजम् ॥ ३३॥ महितदयाभरितमतिं विहितनतानन्दममितवीर्यनिधिम् । विमथितविमतसमूहं नमत महात्रिपुरसुन्दरीसूनुम् ॥ ३४॥ इति श्रीविद्यार्यास्तोत्रं सम्पूर्णम् ।