अक्षर आकार:

श्रीस्वामिनाथ षट्पदीस्तोत्रम्

Shri Svaminatha Shatpadi Stotram

श्रीस्वामिनाथ षट्पदीस्तोत्रम्

श्रीसुब्रह्मण्याय नमः । श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम् । श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ १॥ श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम् । भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ २॥ श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम् । श्रीवीरभद्रादि गणैस्समेतं वन्दे गुहं तं गुरुरूपिणं नः ॥ ३॥ श्रीस्वामिनाथं सुरसैन्यपालं शूरादि सर्वासुरसूदकं तम् । विरिञ्चि विष्ण्वादि सुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः ॥ ४॥ श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम् । मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं तं गुरुरूपिणं नः ॥ ५॥ श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं विद्याधराराधितपादपद्मम् । अहोपयोवीवधनित्यतृप्तं वन्दे गुहं तं गुरुरूपिणं नः ॥ ६॥ श्रीरामकृष्णाख्ययतीन्द्रशिष्य श्रीरामचन्द्रेण कृतात्मशुद्ध्यै । श्रीस्वामिनाथस्य हि षट्पदीयं जीयात्तदीयप्रियदायिनी श्रीः ॥ ७॥ इति श्रीस्वामिनाथषट्पदीस्तोत्रं सम्पूर्णम् ॥