अक्षर आकार:

श्रीसुब्रह्मण्य पञ्चरत्नं

shrI subrahmaNya pancharatnaM

श्रीसुब्रह्मण्य पञ्चरत्नं

विमलनिजपदाब्जं वेदवेदान्तवेद्यं ममकुलगुरुदेहं वाद्यगानप्रमोहम् रमणसुगुणजालं रङ्गराढ्भासितनेयम् । कमलजनुतपादं कार्तिकेयं भजामि ॥ १॥ शिवशरवणजातं शैवयोगप्रभावं भवहितगुरुनाथं भक्तबृन्दप्रमोदम् । नवरसमृदुपादं नादह्रींकाररूपं कवनमधुरसारं कार्तिकेयं भजामि ॥ २॥ पाकारातिसुतामुखाब्जमधुरं बालेन्दुमौलीश्वरं लोकानुग्रहकारणं शिवसुतं लोकेशतत्वप्रदम् । राकाचन्द्रसमानचारुवदनमम्भोरुहवल्लीश्वरं ह्रींकारप्रणवस्वरूपलहरीं श्रीकार्तिकेयं भजे ॥ ३॥ महादेवजातं शरवणभवं मन्त्रशरभं महत्तत्वानन्दं परमलहरीमन्दमधुरम् । महादेवातीतं सुखगणयुतं मन्त्रवरदं गुहं वल्लीनाथं मम हृदि भजे गृद्धगिरिशम् ॥ ४॥ नित्याकारान्निखिलवरद निर्मलं ब्रह्मतत्वं नित्यन्देवैर्विनुत चरण निर्विकल्पादियोगम् । नित्याढ्यान्तं निगमविदित निर्गुणन्देवनित्यं वन्दे मम गुरुवरनिर्मलं कार्तिकेयम् ॥५॥ ॥ इति श्रीसुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् ॥