अक्षर आकार:

श्रीसुब्रह्मण्यमङ्गळाष्टकं

shrI subrahmaNyama~NgaLAShTakaM

श्रीसुब्रह्मण्यमङ्गळाष्टकं

शिवयोसूनुजायास्तु श्रितमन्दार शाखिने । शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळं ॥ भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने । राजराजादिवन्द्याय रणधीराय मङ्गळं ॥ शूरपद्मादि दैतेय तमिस्रकुलभानवे । तारकासुरकालाय बालकायास्तु मङ्गळं ॥ वल्लीवदनराजीव मधुपाय महात्मने । उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळं ॥ कन्दर्पकोटिलावण्यनिधये कामदायिने । कुलिशायुधहस्ताय कुमारायास्तु मङ्गळं ॥ मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने । देवसेनासमेताय दैवतायास्तु मङ्गळं ॥ कनकांबरसंशोभि कटये कलिहारिणे । कमलापति वन्द्याय कार्तिकेयाय मङ्गळं ॥ शरकाननजाताय शूराय शुभदायिने । शीतभानुसमास्याय शरण्यायास्तु मङ्गळं ॥ मंगळाष्टकमेतन्ये महासेनस्यमानवाः । पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ॥ ॥ इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णं ॥ ॥ इतर मङ्गळ श्लोकानि ॥ नित्योत्सवो भवत्येषां नित्यश्रीर्नित्य मङ्गळं । येषां हृदिस्थो भगवान् मङ्गळायतनं गुहः ॥ राजाधिराजवेषाय राजत् कोमळपाणये । राजीवचारुनेत्राय सुब्रह्मण्याय मङ्गळं ॥ ॥ इतिः ॥