अक्षर आकार:

श्रीसुब्रह्मण्यहृदयस्तोत्रम्

shrI subrahmaNyahRidaya stotraM

श्रीसुब्रह्मण्यहृदयस्तोत्रम्

अस्य श्री सुब्रह्मण्य हृदय स्तोत्रमहामन्त्रस्य, परब्रह्म ऋषिः । देवी गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । सौः बीजम् । प्रीं शक्तिः । श्रीसुब्रह्मण्येश्वरः कीलकम् । श्री सुब्रह्मण्येश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ ॐ सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः । षण्मुखाय तर्जनीभ्यां नमः । शक्तिधराय मध्यमाभ्यां नमः । षड्त्रिंशत्कोणाय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतल करपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ ॐ सुब्रह्मण्याय हृदयाय नमः । षण्मुखाय शिरसे स्वाहा । शक्तिधराय शिखायै वषट् । षड्त्रिंशत्कोणाय कवचाय हुम् । सर्वतोमुखाय अस्त्राय फट् । तारकान्तकाय भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ ध्यानम्- षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥ लमित्यादि पञ्चपूजा । सत्यलोके सदानन्दे मुनिभिः परिवेष्टितम् । पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥ १॥ भगवन्सर्वलोकेश सर्वज्ञ कमलासन । सदानन्द ज्ञानमूर्ते सर्वभूतहिते रत ॥ २॥ बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् । हृदयं श्रोतुमिच्छामः तस्यैव क्रौञ्चभेदिनः ॥ ३॥ ब्रह्मोवाच- श‍ृण्वान्तु मुनयः सर्वे गुह्याद्गुह्यतरं महत् । सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥ ४॥ सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् । धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥ ५॥ रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् । सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥ ६॥ प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा । हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥ ७॥ सुवर्णमण्टपन्दिव्यं रत्नतोरणराजितम् । रत्नस्तम्भ सहस्रैश्च शोभितं परमात्भुतम् ॥ ८॥ परमानन्दनिलयं भास्वत्सूर्यसमप्रभम् । देवदानवगन्धर्वगरुडैर्यक्षकिन्नरैः । ॥ ९॥ सेवार्थमागतैस्सिद्धैः साध्यैरध्युषितं सदा । महायोगीन्द्र संसेव्यं मन्दारतरुमण्डितम् ॥ १०॥ माणिक्य विद्रुमैश्चैव महा श्रीभिरुञ्चितम् । तन्मध्येऽनन्तरत्नश्री जटामकुट शोभितम् ॥ ११॥ रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् । सर्वाश्चर्यामयं पुण्यं सर्वरत्न परिष्कृतम् ॥ १२॥ तन्मध्येष्टदलम्पद्मं उद्यत्सूर्या प्रभोदरम् । निगामागमरोलम्बं लम्बकं चित्स्वरूपिणिम् ॥ १३॥ विद्या ज्योतिर्मयं दिव्यं देवताभिर्नमस्कृतम् । देदीप्यमाना रुचिभिर्विशाखं सुमनोहरम् ॥ १४॥ तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वाङ्गसुन्दरम् । अनन्तादित्यसङ्काश माश्रिताभीष्टदायकम् ॥ १५॥ अचिन्त्यज्ञानविज्ञानतेजोबलसमार्जितम् । सर्वायुध धरं वीरं सर्वाश्चर्यामयं गुहम् ॥ १६॥ महर्ह रत्नखचितं षट्किरीटविराजितम् । शशाङ्गार्ध कलारम्य समुद्यद्मौलिभूषणम् ॥ १७॥ सम्पूर्ण चन्द्रसाहस्र समुद्यद्वदनोज्वलम् । विशाल फाल ललितं विलोलालक भूषणम् ॥ १८॥ मदनोज्वल कोदण्ड मङ्गल भ्रू विराजितम् । विस्तीर्णरूपतेजसं विलसत्द्वादशेक्षणम् ॥ १९॥ चारुश्रीवर्ण सम्पूर्ण कर्णशोभाभिभासुरम् । मणि प्रभा मयूर श्री स्फुरन्मकरकुण्डलम् ॥ २०॥ लसत् दर्पण दर्पघ्न गण्डस्थल विराजितम् । नव्यकाञ्चन पुष्पश्री नासा पुटविराजितम् ॥ २१॥ मन्दहास प्रभाजाल मधुराधर शोभितम् । सर्वलक्षण लक्ष्मीश कम्बुसुन्दर कन्धरम् ॥ २२॥ महनीय महारत्न दिव्यहार विराजितम् । उदग्रनाग केयूर सन्नद्धशुभकुण्डलम् ॥ २३॥ रत्नकङ्कण संशोभि कराग्र श्रीमहोज्वलम् । महामाणिक्य पर्यङ्क वक्षस्थल विराजितम् ॥ २४॥ समस्त जगदाधारं स्वर्णवर्णशुभोदरम् । अतिगाम्भीर्य सम्भाव्य नाभीनव सरोरुहम् ॥ २५॥ रत्नश‍ृङ्खलिका बन्धलसन्मध्यप्रदेशिकम् । कनत् कनक संवीत पीताम्बरसमावृतम् ॥ २६॥ श‍ृङ्गाररस सम्पूर्ण रत्नस्तम्भोपमोरुकम् । रत्नमञ्जीर सन्नद्ध मणिदीप पदाम्बुजम् ॥ २७॥ भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् । कटकाक्षवीक्षणैः स्निग्धस्तोषयत्नञ्जगत्पतिम् ॥ २८॥ सदानन्दं ज्ञानमूर्तिं सर्वलोकप्रियङ्करम् । शङ्करं सात्मजं देवं ध्यायेत् शरवणोत्भवम् ॥ २९॥ अनतादिव्यचन्द्राग्नि तेजसम्पूर्णविग्रहम् । सर्वलोकवनरतं सर्वतत्वाद्य तत्वगम् ॥ ३०॥ सर्वेश्वरं सर्वविभुं सर्वभूतहितेरतम् । एवञ्जपित्वा हृदयं षण्मुखस्यमहात्मनः ॥ ३१॥ सर्वान् कामानवाप्नोति सम्यज्ञानङ्चविन्दति । शुचौ देवशे समासीनः शुद्धात्मा च कृताह्निकः ॥ ३२॥ प्राङ्मुखौ यतचित्तश्च जपेद्-हृदयमुत्तमम् । सकृदेततन्मनन्जप्त्वा सम्प्राप्नोत्यखिलं शुभम् ॥ ३३॥ सर्वाघहरणं मॄत्युदारिद्रस्यचनाशनम् । सर्व सम्पत्करम्पुण्यं सर्वरोग निवारणम् ॥ ३४॥ सर्व शर्म करं दिव्यं सर्वाभीष्टार्थदायकम् । सर्वकामप्रदं गुह्यं अपवर्गैक कारणम् ॥ ३५॥ प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् । गुह्यात् गुह्यतरं भूयो देवानामपि दुर्लभा ॥ ३६॥ इदन्तुनातपस्काय नाभक्ताय कदाचन । नचा शूश्रूषवेदेयं मदान्धायनकर्हिचित् ॥ ३७॥ सच्छिष्याय सुशीलाय स्कन्दभक्तिरतायच । सर्वदाभिरतायेदं दातव्यं जयवर्धनम् ॥ ३८॥ ॥ इति श्री सुब्रह्मण्यहृदयस्तोत्रं सम्पूर्णम् ॥