अक्षर आकार:

श्रीसुब्रह्मण्यपञ्चरत्नम् २

Shri Subrahmanya Pancharatna Stotra 2

श्रीसुब्रह्मण्यपञ्चरत्नम् २

षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १॥ जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् । कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २॥ द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् । शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३॥ सुरारि घोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् । सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४॥ इष्टार्थसिद्धिप्रदमीशपुत्रं मिष्टान्नदं भूसुर कामधेनुम् । गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५॥ यः श्लोकपञ्चमिदं पठतीह भक्त्या ब्रह्मण्यदेव विनिवेशित मानसः सन् । प्राप्नोति भोगमखिलं भुवि यद्यदिष्ट- मन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ॥ इति श्रीसुब्रह्मण्यपञ्चरत्नं समाप्तम् ॥