अक्षर आकार:

श्रीसुब्रह्मण्यस्तवः

shrIsubrahmaNyastavaH

श्रीसुब्रह्मण्यस्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ कृत्तिकेशाय विद्महे । गाङ्गेयाय च धीमहि । तन्नः स्कन्दः प्रचोदयात् ॥ शैलजाभवपुत्राय विघ्नेश्वरानुजाय च । ज्ञानस्कन्दाय कन्दाय सुब्रह्मण्याय ते नमः ॥ १॥ षडाक्षरसुमन्त्राय षट्शत्रुपटदारिणे । षड्जाधारसुरागातिचारुगीताय ते नमः ॥ २॥ षडाचलनिवासाय षण्मुखाय सुखाय च । प्रणवार्थस्वरूपाय पितृबोधाय ते नमः ॥ ३॥ कृत्तिकाशुभताराय कृतिरत्नस्तुताय च । श्रीदीक्षितगुरुस्वामिकीर्तिताय नमो नमः ॥ ४॥ नारायणस्वसीयाय दिव्यलावण्यतेजसे । श्रीवल्लीदेवसेनासुकलत्राय नमो नमः ॥ ५॥ शिखिवाहनसौम्याय श्रीमद्गुरुगुहाय च । अज्ञानध्वान्तसूर्याय स्वामिनाथाय ते नमः ॥ ६॥ गुणातीतस्वरूपाय ज्ञानसत्फलदाय च । गुह्याकाराय साराय गुरवे ब्रह्मणे नमः ॥ ७॥ तामसासुरहाराय सत्त्वसत्यप्रकाशिने । आयुरारोग्यकाराय कुमाराय नमो नमः ॥ ८॥ त्यागराजगुरुस्वामिसत्कीर्तननुताय च । पुष्पवल्लीसुपालाय नादलोलाय ते नमः ॥ ९॥ मङ्गलं श्लोकनाथाय सोमस्कन्दाय मङ्गलम् । मङ्गलं ज्ञानदेवाय सुब्रह्मण्याय मङ्गलम् ॥ १०॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीसुब्रह्मण्यस्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Copyright Pushpa Srivatsan