अक्षर आकार:

श्रीसुब्रह्मण्यसिद्धनामाष्टोत्तरशतनामावलिः

shrIsubrahmaNyasiddhanAmAShTottarashatanAmAvaliH

श्रीसुब्रह्मण्यसिद्धनामाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । ॐ ह्रीम् सुब्रह्मण्याय नमः । ज्ञानशक्तये । अचिन्त्याय । दहरालयाय । चिच्छिवाय । चिद्धनाय । चिदाकारमहीद्वीपमध्यदेशसदालयाय । चिदब्धिमथनोत्पन्नचित्सारमणिमण्डलाय । चिदानन्दमहासिन्धुमध्यरत्नशिखामणये । विज्ञानकोशविलसदानन्दमृतमण्डलाय । वाचामगोचरानन्तशुद्धचैतन्यविग्रहाय । मूलकन्दस्थचिद्देशमहाताण्डवपण्डिताय । षट्कोणमार्गविलसत्परमण्डलमण्डिताय । द्वादशारमहापद्मस्थितचिद्व्योमभासुराय । त्रिकोणाख्यमहापीठस्थितचिद्बिन्दुनायकाय । बिन्दुमण्डलमध्यस्थचिद्विलासप्रकाशकाय । षट्कोणमन्दिरोद्भासिमध्यस्तम्भाशिरोमणये । प्रथमाक्षरनिर्दिष्टपरमार्थार्थविग्रहाय । अकारादिक्षकारान्तमातृकाक्षर सङ्गताय । अकाराख्यप्रकाशात्ममहालक्ष्यार्थविग्रहाय नमः । (२०) ॐ हकाराख्यविमर्शात्ममहालक्ष्यार्थविग्रहाय नमः । ग्रन्थित्रयमहाभेदचतुराय । सद्गुरवे । हृदयाम्बुजमध्यस्थविरजव्योमनायकाय । शान्ताद्रिनिलयाय । अखण्डाकारकज्ञानलक्षणाय । सजातीयविजातीयस्वगतभेदरहिताय । ब्रह्मविद्यास्वरूपहैमवतीतनूजाय । चिदग्निसम्भूताय । भूमानन्दपरिपूर्णाचलविराजिताय । महावाक्योपदेष्ट्रे । शिवगुरवे । मूलाधारमुखोत्पन्नब्रह्मरन्ध्रचिदालयाय । मध्यनाडीमहामार्गस्थितमण्डलमध्यगाय । हंसमार्गैकनिरतज्ञानमण्डलचिद्रसाय । सदोदितमहाप्रज्ञाकाराय । सहस्रारकमलान्तस्थबिन्दुकूटमहागुरवे । स्वात्मन्यारोपितसमस्त जगदाधाराय । सर्वाधिष्ठानचिन्मात्रस्थानमध्यविराजिताय । सर्वोपनिषदुद्घुष्टमहाकीर्तिधराय नमः । (४०) ॐ स्वसाम्राज्यसुखासीनस्वयञ्ज्योतिः स्वरूपाय नमः । कार्यसहितमायाविध्वंसकाय । सर्ववेदान्तसिद्धान्तमहासाम्राज्यदीक्षिताय । सालम्बननिरालम्बवृत्तिमध्यस्थरूपकाय । मोक्षलक्ष्मीप्रदात्रे । शुद्धचैतन्यकान्तारसिद्धाय । भानूकूटप्रतीकाशचित्पर्वतशिखामणये । भावाभावकलातीतशून्यग्राममहेश्वराय । कल्पितपञ्चकृत्याधिपतये । ब्रह्मविद्यामयग्रामचिदालयमहाप्रभवे । प्रत्यग्भूतमहामौनगोचराय । शुद्धचिद्रसाय । हृदयग्रन्थिभेदविद्याविशारदाय । कामाद्यरिषड्वर्गनाशकाय । सर्वज्ञत्वादिगुणमुर्तीकृतषडाननाय । कर्मब्रह्मस्वरूपवेदविलसितचरणाय । अत्यन्तनिर्मलाकारचैतन्यगिरिमध्यगाय । अद्वैतपरमानन्दचिद्विलासमहानिधये । मण्डलत्रयभासकाय । अनेककोटिब्रह्माण्डधारिणे नमः । (६०) ॐ सर्वात्मकाय नमः । तत्वमस्यादिमहावाक्यलक्ष्यार्थस्वरूपाय । अविमुक्तमहापीठस्थितचिद्रूपविग्रहाय । अमितानन्दबोधान्तनादान्तस्थितमण्डलाय । अखण्डशुद्धचैतन्यस्वरूपाय । लोकालोककलैकमत्यपरमार्थस्वरूपाय । आदिमध्यान्तरहितब्रह्मानन्दनिधये । आधारमार्गसीमान्तवासिने । निस्तरङ्गसुखार्णवाय । अवाङ्मनसगोचराय । नित्यशुद्धबुद्धमुक्तसत्यस्वरूपाय । चिद्दीपमङ्गलज्योतिः स्वरूपाय । षट्चक्रनगरविभवेश्वराय । सकललोकैकनेत्रे । निष्प्रपञ्चाय । निराधाराय । सकलाधारस्वरूपाय । भक्तमानसरञ्जकाय । बाह्यानुविद्धसमाधिनिष्ठात्मगोचरवृत्तिस्वरूपदेवसेनासमेताय । आन्तरानुविद्धसमाधिनिष्ठात्मगोचरवृत्तिस्वरूपवल्लीपतये नमः । (८०) ॐ अनाहतमहाचक्रस्थिताय नमः । अवस्थात्रयसाक्षिणे । सहस्रकोटितपनसङ्काशाय । संसारमायादुःखौघभेषजाय । शुद्धचित्तस्वरूपमयूराधिष्ठानाय । चराचरस्थूलसूक्ष्मकल्पकाय । ब्रह्मादिकीटपर्यन्तव्यापकाय । समस्तलोकगीर्वाणशरण्याय । सनकादिसमायुक्तप्रज्ञानघनविग्रहाय । अनन्तवेदवेदान्तसंवेद्याय । धर्मार्थकामकैवल्यदायकाय । सकलवेदसारप्रणवलक्ष्यार्थनिजस्वरूपाय । अप्राकृतमहादिव्यपुरुषाय । अज्ञानतिमिरध्वान्तभास्कराय । अव्ययानन्दविज्ञानसुखदाय । अचिन्त्यदिव्यमहिमारञ्जिताय । परानन्दस्वरूपार्थबोधकाय । षडम्बुरुहचक्रान्तः स्फूर्तिसौदामिनीप्रभाय । षड्विधैक्यानुसन्धानपरहृद्व्योमसंस्थिताय । निस्त्रैगुण्यमहामार्गगामिने नमः । (१००) ॐ नित्यपूर्णचिदाकाशस्थितचिन्मण्डलाय नमः । कार्यकारणनिर्मुक्ताय । नादबिन्दुकलातीताय । शिवाब्धिमथनोत्पन्नानन्दपीयूषविग्रहाय । परिपूर्णपरानन्दप्रज्ञानघनलक्षणाय । अखण्डैकरसस्फूर्तिप्रवाहाश्रयाय । नामरूपविवर्जिताय । श्रीपरब्रह्मणे नमः । (१०८) इति आत्मनाथ प्रणीतः श्रीसुब्रह्मण्यसिद्धनामाष्टोत्तरशतनामावलिः समाप्ता ।