अक्षर आकार:

श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता

shrIsubrahmaNyasahasranAmAliH from siddhanAgArjunatantra

श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता

श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता ॥ ॐ श्रीगणेशाय नमः । बिल्वैर्वा चम्पकाद्यौर्वा योऽर्चयेद्गुहमादरात् । एतन्नामसहस्रेण शिवयोगी भवेदयम् । अणिमाद्यष्ठसिद्धिश्च लभते निष्प्रयत्नतः । योऽर्चयेच्छतवर्षाणि कृत्तिकासु विशेषतः ॥ स इन्द्रपदमाप्नोति शिवसायुज्यमृच्छति । सङ्कल्पः । ॐ अस्य श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यसहस्रनाम्स्तोत्रस्य, श्रीदक्षिणामूर्तिः ॠषिः, अनुष्टुप्छन्दः, श्रीवल्लीदेवसेनासमेतश्रीसुब्रह्मण्यो देवता, श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यप्रसादसिद्यर्थे सुब्रह्मण्यचरणारविन्दयोः सुब्रह्मण्यसहस्रनामार्चनां करिष्ये ॥ अथ सहस्रनामार्चनारम्भः । ॐ अखण्डसच्चिदानन्दाय नमः । ॐ अखिलजीववत्सलाय नमः । ॐ अखिलवस्तुविस्ताराय नमः । ॐ अखिलतेजःस्वरूपिणे नमः । ॐ अखिलात्मकाय नमः । ॐ अखिलवेदप्रदात्रे नमः । ॐ अखिलाण्डकोटिब्रह्माण्डनायकाय नमः । ॐ अखिलेशाय नमः । ॐ अग्रगण्याय नमः । ॐ अग्रभूम्ने नमः । १० ॐ अगणितगुणाय नमः । ॐ अगणितमहिम्ने नमः । ॐ अघौघसन्निवर्तिने नमः । ॐ अचिन्त्यमहिम्ने नमः । ॐ अचलाय नमः । ॐ अच्युताय नमः । ॐ अजाय नमः । ॐ अजातशत्रवे नमः । ॐ अजरसे नमः । ॐ अज्ञानतिमिरान्धानाञ्चक्षुरुन्मीलनक्षमाय नमः । २० ॐ अजन्मस्थितिनाशनाय नमः । ॐ अणिमादिविभूषिताय नमः । ॐ अत्युन्नतद्धुनिज्वालामायावलयनिवर्तकाय नमः । ॐ अत्युल्बणमहासर्पतप्तभक्तसुरक्षकाय नमः । ॐ अतिसौम्याय नमः । ॐ अतिसुलभाय नमः । ॐ अन्नदानसदानिष्ठाय नमः । ॐ अदृश्यदृश्यसञ्चारिणे नमः । ॐ अदृष्टपूर्वदर्शयित्रे नमः । ॐ अद्वैतवस्तुबोधकाय नमः । ३० ॐ अद्वैतानन्दवर्षकाय नमः । ॐ अद्वैतानन्दशक्तये नमः । ॐ अधिष्ठानाय नमः । ॐ अधोक्षजाय नमः । ॐ अधर्मोरुतरुच्छेत्रे नमः । ॐ अधियज्ञाय नमः । ॐ अधिभूताय नमः । ॐ अधिदैवाय नमः । ॐ अध्यक्षाय नमः । ॐ अनघाय नमः । ४० ॐ अद्भुतचारित्राय नमः । ॐ अनन्तनाम्ने नमः । ॐ अनन्तगुणभूषणाय नमः । ॐ अनन्तमूर्तये नमः । ॐ अनन्ताय नमः । ॐ अनन्तशक्तिसंयुताय नमः । ॐ अनन्ताश्चर्यवीर्याय नमः । ॐ अनन्तकल्याणगुणाय नमः । ॐ अनवरतयोगनिष्ठाय नमः । ॐ अनाथपरिरक्षकाय नमः । ५० ॐ अणिमादिसंसेव्याय नमः । ॐ अनामयपदप्रदाय नमः । ॐ अनादिमत्परब्रह्मणे नमः । ॐ अनादिगुरवे नमः । ॐ अनाहतदिवाकराय नमः । ॐ अनिर्देश्यवपुषे नमः । ॐ अनिमेषरक्षितप्रजाय नमः । ॐ अनुग्रहार्थमूर्तये नमः । ॐ अनेकदिव्यमूर्तये नमः । ॐ अनेकाद्भुतदर्शनाय नमः । ६० ॐ अनेकजन्मनां पापं स्मृतिमात्रेण हारकाय नमः । ॐ अनेकजन्मसम्प्राप्तकर्मबन्धविदारणाय नमः । ॐ अन्तर्बहिश्च सर्वत्र व्याप्ताखिलचराचराय नमः । ॐ अन्तर्हृदयाकाशाय नमः । ॐ अन्तकालेऽभिरक्षकाय नमः । ॐ अन्तर्यामिणे नमः । ॐ अन्तरात्मने नमः । ॐ अन्नवस्त्रेप्सितप्रदाय नमः । ॐ अपराजितशक्तये नमः । ॐ अपरिग्रहभूषिताय नमः । ७० ॐ अपवर्गप्रदात्रे नमः । ॐ अपवर्गमयाय नमः । ॐ अपावृतकृपागाराय नमः । ॐ अपारज्ञानशक्तिमते नमः । ॐ अपार्थिवात्मदेहस्थाय नमः । ॐ अपाम्पुष्पनिबोधकाय नमः । ॐ अप्रपञ्चाय नमः । ॐ अप्रमत्ताय नमः । ॐ अप्रमेयगुणाकराय नमः । ॐ अप्रार्थितेष्टदात्रे नमः । ८० ॐ अप्राकृतपराक्रमाय नमः । ॐ अभयं सर्वभूतेभ्यो ददामीति सदा व्रतिने नमः । ॐ अभिमानातिदूराय नमः । ॐ अभिषेकचमत्कृतये नमः । ॐ अभीष्टवरवर्षिणे नमः । ॐ अभीक्ष्णन्दिव्यशक्तिभृते नमः । ॐ अभेदानन्दसन्दात्रे नमः । ॐ अमर्त्याय नमः । ॐ अमृतवाक्पतये नमः । ॐ अरविन्ददलाक्षाय नमः । ९० ॐ अमितपराक्रमाय नमः । ॐ अरिष्टवर्गनाशिने नमः । ॐ अरिष्टघ्नाय नमः । ॐ अर्हसत्तमाय नमः । ॐ अलभ्यलाभसन्दात्रे नमः । ॐ अल्पदानसुतोषिताय नमः । ॐ अवतारितसर्वेशाय नमः । ॐ अलम्बुद्ध्या स्वलङ्कृताय नमः । ॐ अवधूताखिलोपाधये नमः । ॐ अवलम्ब्यपदाम्बुजाय नमः । १०० ॐ अविशिष्टविशिष्टाय नमः । ॐ अवाक्पाणिपादोरुकाय नमः । ॐ अवाप्तसर्वकामाय नमः । ॐ अवाङ्मनसगोचराय नमः । ॐ अविच्छिन्नाग्निहोत्राय नमः । ॐ अविच्छिन्नसुखप्रदाय नमः । ॐ अवेक्षितदिगन्तस्य प्रजापालनतत्पराय नमः । ॐ अव्याजकरुणासिन्धवे नमः । ॐ अव्याहृतोपदेशकाय नमः । ॐ अव्याहतेष्टसञ्चारिणे नमः । ११० ॐ अव्याहतसुखप्रदाय नमः । ॐ अशक्यशक्यकर्त्रे नमः । ॐ अघपाशादिशुद्धिकृते नमः । ॐ अशेषभूतहृत्स्थास्नवे नमः । variation split ॐ अशेषभूतहृदे नमः । ॐ स्थास्नवे नमः । ॐ अशोकमोहश‍ृङ्खलाय नमः । ॐ अष्टैश्वर्यप्रदाय नमः । ॐ अष्टसिद्धिप्रदाय नमः । ॐ असङ्गयोगयुक्तात्मने नमः । ॐ असङ्गदृढशस्त्रभृते नमः । ॐ अहम्भावतमोहन्त्रे नमः । १२० ॐ अहं ब्रह्मास्मितत्त्वकाय नमः । ॐ अहं त्वं च त्वमेवाहमिति तत्वप्रबोधकाय नमः । ॐ अहेतुककृपासिन्धवे नमः । ॐ अहिंसानिरताय नमः । ॐ अक्षीणसौहृद्याय नमः । ॐ अक्षय्याय नमः । ॐ अक्षयशुभप्रदाय नमः । ॐ अक्षरादिककूटस्थोत्तमपुरुषोत्तमाय नमः । ॐ आखुवाहनमूर्तये नमः । ॐ आगमाद्यन्तसंनुताय नमः । १३० ॐ आगमातीतसद्भावाय नमः । ॐ आचार्यपरमाय नमः । ॐ आत्मानुभवसन्तुष्टाय नमः । ॐ आत्मविद्याविशारदाय नमः । ॐ आत्मानन्दप्रकाशाय नमः । ॐ आत्मैकसर्वदृशे नमः । ॐ आत्मैकसर्वभूतात्मने नमः । ॐ आत्मारामाय नमः । ॐ आत्मवते नमः । ॐ आदित्यमध्यवर्तिने नमः । १४० ॐ आदिमध्यान्तवर्जिताय नमः । ॐ आनन्दपरमानन्दाय नमः । ॐ आनन्दैकप्रदायकाय नमः । ॐ आनाकमाहृताज्ञाय नमः । ॐ आनतावननिर्वृतये नमः । ॐ आपदां अपहर्त्रे नमः । ॐ आपद्बन्धवे नमः । ॐ आनन्ददाय नमः । ॐ आयुरारोग्यदात्रे नमः । ॐ आर्तत्राणपरायणाय नमः । १५० ॐ आरोपणापवादैश्च मायायोगवियोगकृते नमः । ॐ आविष्कृततिरोभूतबहुरूपविडम्बनाय नमः । ॐ आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः । ॐ आशापाशविमुक्ताय नमः । ॐ आशापाशविमोचकाय नमः । ॐ इच्छाधीनजगत्सर्वाय नमः । ॐ इच्छाधीनवपुषे नमः । ॐ इष्टेप्सितदात्रे नमः । ॐ इच्छाभोगनिवर्तकाय नमः । ॐ इच्छोक्तदुःखसञ्छेत्रे नमः । १६० ॐ इन्द्रियानादिदर्पघ्ने नमः । ॐ इन्दिरारमणवत्सलाय नमः । ॐ इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः । ॐ इन्दुशीतलपक्षिणे नमः । ॐ इन्दुवत्प्रियदर्शनाय नमः । ॐ इष्टापूर्तशतैर्वीताय नमः । ॐ इष्टदैवस्वरूपधृते नमः । ॐ ईशासक्तमनोबुद्धये नमः । ॐ ईप्सितार्थफलप्रदाय नमः । ॐ ईशाराधनतत्पराय नमः । १७० ॐ ईशिताखिलदेवाय नमः । ॐ ईशावास्यार्थसूचकाय नमः । ॐ ईक्षणसृष्टाण्डकोटये नमः । ॐ ईप्सितार्थवपुषे नमः । ॐ ईदृगित्यविनिर्देश्याय नमः । ॐ उच्चारणहृदे भक्तहृदन्त उपदेशकाय नमः । ॐ उत्तमप्रेममार्गिणे नमः । ॐ उत्तरोद्धारकर्मकृते नमः । ॐ उदासीनवदासीनाय नमः । ॐ उद्धरामीत्युदीरकाय नमः । १८० ॐ उपद्रवनिवारिणे नमः । ॐ उपांशुजपबोधकाय नमः । ॐ उमेशरमेशयुक्तात्मने नमः । ॐ ऊर्जितभक्तिदायकाय नमः । ॐ ऊर्जितवाक्यप्रदात्रे नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वमूलमधःशाखमश्वत्थं भस्मसात्कराय नमः । ॐ ऊर्ध्वगतिविधात्रे नमः । ॐ ऋतम्पाप्रकृतिदात्रे नमः । ??? ॐ ऋणक्लिष्टधनप्रदाय नमः । १९० ॐ ऋणानुबद्धजन्तूनां ऋणमुक्त्यै फलप्रदाय नमः । ॐ एकाकिने नमः । ॐ एकभक्तये नमः । ॐ एकवाक्कायमानसाय नमः । ॐ एकाय नमः । ॐ एकाक्षराधाराय नमः । ॐ एकाक्षरपरायणाय नमः । ॐ एकाकारधीराय नमः । ॐ एकवीराय नमः । ॐ एकानेकस्वरूपधृते नमः । २०० ॐ एकानेकाक्षराकृताय नमः । ॐ एतत्तदित्यनिर्देश्याय नमः । ॐ एकानन्दचिदाकृतये नमः । ॐ एवमित्यागमाबोध्याय नमः । ॐ एकभक्तिमदर्चिताय नमः । ॐ एकाक्षरपरज्ञानिने नमः । ॐ एकात्मसर्वलोकधृते नमः । ॐ एकविद्याहृदग्राय नमः । ॐ एनःकूटविनाशिने नमः । ॐ एकभोगाय नमः । २१० ॐ एकैश्वर्यप्रदाय नमः । ॐ एकानेकजगदीश्वराय नमः । ॐ एकवीरादिसंसेव्याय नमः । ॐ एकप्रभवशालिने नमः । ॐ ऐक्यानन्दगतद्वन्द्वाय नमः । ॐ ऐक्यानन्दविधायकाय नमः । ॐ ऐक्यकृते नमः । ॐ ऐक्यभूतात्मने नमः । ॐ ऐहिकामुष्मिकप्रदायिने नमः । ॐ ओङ्काराधिपाय नमः । २२० ॐ ओजस्विने नमः । ॐ ओं नमः । ॐ औषधीकृतभस्मकाय नमः । ॐ ककाररूपाय नमः । ॐ करपतये नमः । ॐ कल्याणरूपाय नमः । ॐ कल्याणगुणसम्पन्नाय नमः । ॐ कल्याणगिरिवासकाय नमः । ॐ कमलाक्षाय नमः । ॐ कल्मषघ्नाय नमः । २३० ॐ करुणामृतसागराय नमः । ॐ कदम्बकुसुमप्रियाय नमः । ॐ कमलाऽऽश्लिष्टपादाब्जाय नमः । ॐ कमलायतलोचनाय नमः । ॐ कन्दर्पदर्पविध्वंसिने नमः । ॐ कमनीयगुणाकराय नमः । ॐ कर्त्रकर्त्रान्यथाकर्त्रे नमः । ॐ कर्मयुक्तोऽप्यकर्मकृते नमः । ॐ कामकृते नमः । ॐ कामनिर्मुक्ताय नमः । २४० ॐ क्रमाक्रमविचक्षणाय नमः । ॐ कर्मबीजक्षयङ्कर्त्रे नमः । ॐ कर्मनिर्मूलनक्षमाय नमः । ॐ कर्मव्याधिव्यपोहिने नमः । ॐ कर्मबन्धविनाशकाय नमः । ॐ कलिमलापहारिणे नमः । ॐ कलौ प्रत्यक्षदैवताय नमः । ॐ कलियुगावताराय नमः । ॐ कलौ गिरिवासाय नमः । ॐ कल्युद्भवभयभञ्जनाय नमः । २५० ॐ कल्याणानन्तनाम्ने नमः । ॐ कल्याणगुणवर्धनाय नमः । ॐ कवितागुणवर्धनाय नमः । ॐ कष्टनाशकरौषधाय नमः । ॐ काकवन्ध्यादोषनिवर्तकाय नमः । ॐ कामजेत्रे नमः । ॐ कामरूपिणे नमः । ॐ कामसङ्कल्पवर्जिताय नमः । ॐ कामितार्थप्रदात्रे नमः । ॐ कामाक्षीतनुजाय नमः । २६० ॐ कामकोटिपूजिताय नमः । ॐ कामादिशत्रुघातकाय नमः । ॐ काम्यकर्मसुसंन्यस्ताय नमः । ॐ कामेश्वरमनःप्रियाय नमः । ॐ कामेश्वरतपःसिद्धाय नमः । ॐ कामेश्वरफलप्रदाय नमः । ॐ कामेश्वरसाक्षात्काराय नमः । ॐ कामेश्वरदर्शिताय नमः । ॐ कामेश्वराह्लादकारिणे नमः । ॐ कालाय नमः । २७० ॐ कालकालाय नमः । ॐ कालातीताय नमः । ॐ कालकृते नमः । ॐ कालिकापूजिताय नमः । ॐ कालकूटाशिने नमः । ॐ कालदर्पदमनाय नमः । ॐ कालकेयविनाशकाय नमः । ॐ कालाग्निसदृशक्रोधाय नमः । ॐ काशिवाससे नमः । काशिवासिने ॐ काश्मीरवासिने नमः । २८० ॐ काव्यलोलाय नमः । ॐ काव्यानामधिष्ठात्रे नमः । ॐ कालानलोग्राय नमः । ॐ कालानलभक्षिणे नमः । ॐ कीर्तिमते नमः । ॐ कीर्तिज्वालाय नमः । ॐ कुष्ठरोगनिवारकाय नमः । ॐ कूटस्थाय नमः । ॐ कृतज्ञाय नमः । ॐ कृपापूर्णाय नमः । २९० ॐ कृपया पालितार्भकाय नमः । ॐ कृष्णरामावताराय नमः । ॐ कृत्तिकासुनवे नमः । ॐ कृत्तिकाय नमः । ॐ कृत्तिवाससे नमः । ॐ केवलात्मानुभूतये नमः । ॐ कैवल्यपदनायकाय नमः । ॐ कोविदाय नमः । ॐ कोमलाङ्गाय नमः । ॐ कोपहन्त्रे नमः । ३०० ॐ क्लिष्टरक्षाधुरीणाय नमः । ॐ क्रोधजिते नमः । ॐ क्लेशवर्जिताय नमः । ॐ क्लेशनाशकाय नमः । ॐ गगनसौक्ष्म्यविस्ताराय नमः । ॐ गम्भीरमधुरस्वराय नमः । ॐ गाङ्गेयाय नमः । ॐ गङ्गातीरवासिने नमः । ॐ गङ्गोत्पत्तिहेतवे नमः । ॐ गानलोलुपाय नमः । ३१० ॐ गगनान्तःस्थाय नमः । ॐ गम्भीरदर्शकाय नमः । ॐ गानकेळीतरङ्गिताय नमः । ॐ गन्धपुष्पाक्षतैःपूज्याय नमः । ॐ गन्धर्वपूजिताय नमः । ॐ गन्धर्ववेदप्रीताय नमः । ॐ गतिविदे नमः । ॐ गतिसूचकाय नमः । ॐ गणेशाय नमः । ॐ गं प्रीताय नमः । ३२० ॐ गकाररूपाय नमः । ॐ गिरीशपुत्राय नमः । ॐ गिरीन्द्रतनयालालिताय नमः । ॐ गर्वमात्सर्यवर्जिताय नमः । ॐ गाननृत्यविनोदाय नमः । ॐ गाणापत्याश्रिताय नमः । ॐ गणपतये नमः । ॐ गणानां आत्मरूपिणे नमः । ॐ गोविन्दाय नमः । ॐ गोपालाय नमः । ३३० ॐ गर्गपूजिताय नमः । ॐ गीताचार्याय नमः । ॐ गीतनृत्तविनोदाय नमः । ॐ गीतामृतवर्षिणे नमः । ॐ गीतार्थभूम्ने नमः । ॐ गीतविद्याद्यधिष्ठात्रे नमः । ॐ गीर्वाण्याश्रिताय नमः । ॐ गीर्वाणपूजिताय नमः । ॐ गुह्यरूपाय नमः । ॐ गुह्याय नमः । ३४० ॐ गुह्यरूपिणे नमः । ॐ गृहेश्वराय नमः । ॐ गृहरूपिणे नमः । ॐ ग्रहास्तनिवारकाय नमः । ॐ गुणातीताय नमः । ॐ गुणात्मने नमः । ॐ गुणदोषविवर्जिताय नमः । ॐ गुप्ताय नमः । ॐ गुहाहिताय नमः । ॐ गूढाय नमः । ३५० ॐ गुप्तसर्वनिबोधकाय नमः । ॐ गुरवे नमः । ॐ गुरुतमाय नमः । ॐ गुरुरूपिणे नमः । ॐ गुरुस्वामिने नमः । ॐ गुरुतुल्याय नमः । ॐ गुरुसन्तोषवर्धिने नमः । ॐ गुरोःपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः । ॐ गृहमेधिपराश्रयाय नमः । ॐ गोपींसत्रात्रे नमः । ३६० ??? ॐ गोपालपूजिताय नमः । ॐ गोष्पदीकृतकष्टाब्धये नमः । ॐ गौतमपूजिताय नमः । ॐ गौरीपतिपूजिताय नमः । ॐ चतुराय नमः । ॐ चारुदर्शनाय नमः । ॐ चारुविक्रमाय नमः । ॐ चण्डाय नमः । ॐ चण्डेश्वराय नमः । ॐ चण्डीशाय नमः । ३७० ॐ चण्डेशाय नमः । ॐ चण्डविक्रमाय नमः । ॐ चराचरपित्रे नमः । ॐ चिन्तामणये नमः । ॐ शरवणलालसाय नमः । ॐ चर्चिताय नमः । ॐ चतुर्भुजाय नमः । ॐ चमत्कारैरसङ्क्लिष्टभक्तिज्ञानविवर्धनाय नमः । ॐ चराचरपरिव्याप्त्रे नमः । ॐ चिन्तामणिद्वीपपतये नमः । ३८० ॐ चित्रातिचित्रचारित्राय नमः । ॐ चिन्मयानन्दाय नमः । ॐ चित्स्वरूपिणे नमः । ॐ छन्दसे नमः । ॐ छन्दोत्पलाय नमः । ॐ छन्दोमयमूर्तये नमः । ॐ छिन्नसंशयाय नमः । ॐ छिन्नसंसारबन्धनाय नमः । ॐ जगत्पित्रे नमः । ॐ जगन्मात्रे नमः । ३९० ॐ जगत्त्रात्रे नमः । ॐ जगद्धात्रे नमः । ॐ जगद्धिताय नमः । ॐ जगत्स्रष्ट्रे नमः । ॐ जगत्साक्षिणे नमः । ॐ जगद्व्यापिने नमः । ॐ जगद्गुरवे नमः । ॐ जगत्प्रभवे नमः । ॐ जगन्नाथाय नमः । ॐ जगदेकदिवाकराय नमः । ४०० ॐ जगन्मोहचमत्काराय नमः । ॐ जगन्नाटकसूत्रधृते नमः । ॐ जगन्मङ्गलकर्त्रे नमः । ॐ जगन्मायेतिबोधकाय नमः । ॐ जन्मबन्धविमोचनाय नमः । ॐ जन्मसाफल्यमन्त्रिताय नमः । ॐ जन्मकर्मविमुक्तिदाय नमः । ॐ जन्मनाशरहस्यविदे नमः । ॐ जप्तेन नाम्ना सन्तुष्टाय नमः । ॐ जपप्रीताय नमः । ४१० ॐ जप्येश्वराय नमः । ॐ जनेश्वराय नमः । ॐ जलेश्वराय नमः । ॐ जातदर्शिने नमः । ॐ जाम्बूनदसमप्रभाय नमः । ॐ जगत्कोविदप्रजाय नमः । ॐ जितद्वैतमहामोषाय नमः । ॐ जितक्रोधाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितकन्दर्पदर्पाय नमः । ४२० ॐ जितात्मने नमः । ॐ जितषड्रिपवे नमः । ॐ जपपराय नमः । ॐ जपाधाराय नमः । ॐ जगदेकस्वरूपिणे नमः । ॐ जगदेकरसाय नमः । ॐ जरामरणवर्जिताय नमः । ॐ जगद्योनये नमः । ॐ जगदीशाय नमः । ॐ जगन्मयाय नमः । ४३० ॐ जीवानां देहसंस्थिताय नमः । ॐ जिवानां मुक्तिदायकाय नमः । ॐ ज्योतिःशास्त्रतत्त्वाय नमः । ॐ ज्योतिर्ज्ञानप्रदाय नमः । ॐ ज्ञानभास्करमूर्तये नमः । ॐ ज्ञातसर्वरहस्याय नमः । ॐ ज्ञातृज्ञेयात्मकाय नमः । ॐ ज्ञानभक्तिप्रदाय नमः । ॐ ज्ञानविज्ञानरूपिणे नमः । ॐ ज्ञानशक्तिमते नमः । ४४० ॐ ज्ञानयोगिने नमः । ॐ ज्ञानाग्निरूपिणे नमः । ॐ ज्ञानैश्वर्यप्रदाय नमः । ॐ ज्ञानात्मकाय नमः । ॐ ज्ञानाय नमः । ॐ ज्ञेयाय नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्योतिषाम्परमज्योतिषे नमः । ॐ ज्योतिर्हीनद्युतिप्रदाय नमः । ॐ तपःसन्दीप्ततेजस्विने नमः । ४५० ॐ तप्तकाञ्चनसंनिभाय नमः । ॐ तत्त्वज्ञानानन्ददर्शिने नमः । ॐ तत्त्वमस्यादिलक्षिताय नमः । ॐ तत्त्वरूपाय नमः । ॐ तत्त्वमूर्तये नमः । ॐ तत्त्वमयाय नमः । ॐ तत्त्वमालाधराय नमः । ॐ तत्त्वसारविशारदाय नमः । ॐ तर्जितान्तकधुराय नमः । ॐ तपसःपराय नमः । ४६० ॐ तारकब्रह्मणे नमः । ॐ तमोरजोविवर्जिताय नमः । ॐ तामरसदलाक्षाय नमः । ॐ तारकारये नमः । ॐ तारकमर्दनाय नमः । ॐ तिलान्नप्रीताय नमः । ॐ तिलकाञ्चिताय नमः । ॐ तिर्यग्जन्तुगतिप्रदाय नमः । ॐ तीर्थाय नमः । ॐ तीव्रतेजसे नमः । ४७० ॐ त्रिकालस्वरूपिणे नमः । ॐ त्रिमूर्त्त्यात्मकाय नमः । ॐ त्रयीवेद्याय नमः । ॐ त्र्यम्बकाय नमः । ॐ त्रिपादाय नमः । ॐ त्रिवर्गनिलयाय नमः । ॐ त्रिष्वुद्भवाय नमः । ॐ त्रयीमयाय नमः । ॐ त्रिलोकेशाय नमः । ॐ त्रिलोकविस्ताराय नमः । ४८० ॐ धृतधनुषे नमः । ॐ त्रिगुणातीताय नमः । ॐ त्रिवर्गमोक्षसन्दात्रे नमः । ॐ त्रिपुण्ड्रविहितस्थितये नमः । ॐ त्रिभुवनानाम्पतये नमः । ॐ त्रिलोकतिमिरापहाय नमः । ॐ त्रैलोक्यमोहनाय नमः । ॐ त्रैलोक्यसुन्दराय नमः । ॐ दण्डधृते नमः । ॐ दण्डनाथाय नमः । ४९० ॐ दण्डिनीमुख्यसेविताय नमः । ॐ दाडिमीकुसुमप्रियाय नमः । ॐ दाडिमीफलासक्ताय नमः । ॐ दम्भदर्पादिदूराय नमः । ॐ दक्षिणामूर्तये नमः । ॐ दक्षिणाप्रपूजिताय नमः । ॐ दयापराय नमः । ॐ दयासिन्धवे नमः । ॐ दत्तात्रेयाय नमः । ॐ दारिद्र्यध्वंसिने नमः । ५०० ॐ दहराकाशभानवे नमः । ॐ दारिद्र्यदुःखमोचकाय नमः । ॐ दामोदरप्रियाय नमः । ॐ दानशौण्डाय नमः । ॐ दान्ताय नमः । ॐ दानमार्गसुलभाय नमः । ॐ दिव्यज्ञानप्रदाय नमः । ॐ दिव्यमङ्गलविग्रहाय नमः । ॐ दीनदयापराय नमः । ॐ दीर्घरक्षिणे नमः । ५१० ॐ दीनवत्सलाय नमः । ॐ दुष्टनिग्रहाय नमः । ॐ दुराधर्षाय नमः । ॐ दुर्भिक्षशमनाय नमः । ॐ दुरदृष्टविनाशिने नमः । ॐ दुःखशोकभवद्वेषमोहाद्यशुभनाशकाय नमः । ॐ दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रताय नमः । ॐ दुष्टजन्तुपरित्रात्रे नमः । ॐ दृश्यादृश्यज्ञानात्मकाय नमः । ॐ देहातीताय नमः । ५२० ॐ देवपूजिताय नमः । ॐ देवसेनापतये नमः । ॐ देवराजादिपालिताय नमः । ॐ देहमोहप्रभञ्जनाय नमः । ॐ दैवसम्पत्प्रपूर्णाय नमः । ॐ देशोद्धारसहायकृते नमः । ॐ द्वन्द्वमोहविनिर्मुक्ताय नमः । ॐ द्वन्द्वातीताय नमः । ॐ द्वापरान्त्यपालिताय नमः । ॐ द्वेषद्रोहविवर्जिताय नमः । ५३० ॐ द्वैताद्वैतस्वरूपिणे नमः । ॐ धन्याय नमः । ॐ धरणीधराय नमः । ॐ धात्रच्युतपूजिताय नमः । ॐ धनदेन पूजिताय नमः । ॐ धान्यवर्धनाय नमः । ॐ धरणीधरसंनिभाय नमः । ॐ धर्मज्ञाय नमः । ॐ धर्मसेतवे नमः । ॐ धर्मरूपिणे नमः । ५४० ॐ धर्मसाक्षिणे नमः । ॐ धर्माश्रिताय नमः । ॐ धर्मवृत्तये नमः । ॐ धर्माचाराय नमः । ॐ धर्मस्थापनसम्पालाय नमः । ॐ धूम्रलोचननिर्हन्त्रे नमः । ॐ धूमवतीसेविताय नमः । ॐ दुर्वासःपूजिताय नमः । ॐ दूर्वाङ्कुरघनश्यामाय नमः । ॐ धूर्त्ताय नमः । ५५० ॐ ध्यानवस्तुस्वरूपाय नमः । ॐ धृतिमते नमः । ॐ धनञ्जयाय नमः । ॐ धार्मिकसिन्धवे नमः । ॐ नतजनावनाय नमः । ॐ नरलोकपूजिताय नमः । ॐ नरलोकपालिताय नमः । ॐ नरहरिप्रियाय नमः । ॐ नरनारायणात्मकाय नमः । ॐ नष्टदृष्टिप्रदात्रे नमः । ५६० ॐ नरलोकविडम्बनाय नमः । ॐ नागसर्पमयूरेशसमारूढषडाननाय नमः । ॐ नागयज्ञोपवीताय नमः । ॐ नागलोकाधिपतये नमः । ॐ नागराजाय नमः । ॐ नानागमस्थितये नमः । ॐ नानालङ्कारपूजिताय नमः । ॐ नानावैभवशालिने नमः । ॐ नानारूपधारिणे नमः । ॐ नानाविधिसमर्चिताय नमः । ५७० ॐ नारायणाभिषिक्ताय नमः । ॐ नारायणाश्रिताय नमः । ॐ नामरूपवर्जिताय नमः । ॐ निगमागमगोचराय नमः । ॐ नित्यसर्वगतस्थाणवे नमः । ॐ नित्यतृप्ताय नमः । ॐ निराश्रयाय नमः । ॐ निराधाराय नमः । ॐ निखिलेश्वराय नमः । ॐ नित्यानित्यविवेकबोधकाय नमः । ५८० ॐ नित्यान्नदानधर्मिष्ठाय नमः । ॐ नित्यानन्दप्रवाहनाय नमः । ॐ नित्यमङ्गलधाम्ने नमः । ॐ नित्याग्निहोत्रवर्धनाय नमः । ॐ नित्यकर्मनियोक्त्रे नमः । ॐ नित्यसत्त्वस्थिताय नमः । ॐ नित्यगुणप्रतिपाद्याय नमः । ॐ निरन्तराग्निरूपाय नमः । ॐ निःस्पृहाय नमः । ॐ निर्विकल्पाय नमः । ५९० ॐ निरङ्कुशगतागतये नमः । ॐ निर्जिताखिलदैत्यारये नमः । ॐ निर्जितकामनादोषाय नमः । ॐ निराशाय नमः । ॐ निरञ्जनाय नमः । ॐ निर्विकल्पसमाधिदात्रे नमः । ॐ निरपेक्षाय नमः । ॐ निरुपाधये नमः । ॐ निर्गुणाय नमः । ॐ निर्द्वन्द्वाय नमः । ६०० ॐ नित्यसत्त्वस्थाय नमः । ॐ निर्विकाराय नमः । ॐ निश्चलाय नमः । ॐ निरालम्बाय नमः । ॐ निराकाराय नमः । ॐ निवृत्तगुणदोषकाय नमः । ॐ नरसिंहरूपिणे नमः । ॐ नरात्मकाय नमः । ॐ नम्रभक्तपालिने नमः । ॐ नम्रदिक्पतिवन्दिताय नमः । ६१० ॐ नैष्ठिकब्रह्मचारिणे नमः । ॐ नैष्कर्म्यपरिबोधकाय नमः । ॐ नादब्रह्मपरात्पराय नमः । ॐ नादोपासप्रतिष्ठिताय नमः । ॐ नागस्वरसुसन्तुष्टाय नमः । ॐ नयनरञ्जनाय नमः । ॐ न्यायशास्त्राद्यधिष्ठात्रे नमः । ॐ नैयायिकरूपाय नमः । ॐ नामैकसन्तुष्टाय नमः । ॐ नाममात्रजपप्रीताय नमः । ६२० ॐ नामावलीनां कोटीषु वीर्यवैभवशालिने नमः । ॐ नित्यागताय नमः । ॐ नन्दादिपूजिताय नमः । ॐ नित्यप्रकाशाय नमः । ॐ नित्यानन्दधाम्ने नमः । ॐ नित्यबोधाय नमः । ॐ पराय नमः । ॐ परमाणवे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मपूजिताय नमः । ६३० ॐ ब्रह्मगर्वनिवारकाय नमः । ॐ ब्रह्मण्याय नमः । ॐ पतितपावनाय नमः । ॐ पवित्रपादाय नमः । ॐ पदाम्बुजनतावनाय नमः । ॐ परब्रह्मस्वरूपिणे नमः । ॐ परमकरुणालयाय नमः । ॐ परतत्त्वप्रदीपाय नमः । ॐ परतत्त्वात्मरूपिणे नमः । ॐ परमार्थनिवेदकाय नमः । ६४० ॐ परमानन्दनिष्यन्दाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ परात्पराय नमः । ॐ परमेष्ठिने नमः । ॐ परन्धाम्ने नमः । ॐ परमगुह्याय नमः । ॐ परमेश्वराय नमः । ॐ पशुपतये नमः । ॐ परमसद्गुरवे नमः । ॐ परमाचार्याय नमः । ६५० ॐ परमपावनाय नमः । ॐ परमन्त्रविमर्दनाय नमः । ॐ परकर्मनिहन्त्रे नमः । ॐ परयन्त्रनाशकाय नमः । ॐ परमात्मने नमः । ॐ परागतये नमः । ॐ पराशक्त्याश्रिताय नमः । ॐ परप्रतापसंहारिणे नमः । ॐ परम्परानुसम्प्राप्तगुरवे नमः । ॐ पिपीलिकादिब्रह्मान्तपरिरक्षितवैभवाय नमः । ६६० ॐ पैशाचादिनिवर्तकाय नमः । ॐ पुत्रकामेष्टिफलप्रदाय नमः । ॐ पुत्रदाय नमः । ॐ पुनरावृत्तिनाशकाय नमः । ॐ पुनःपुनर्वन्द्याय नमः । ॐ पुण्डरीकायतलोचनाय नमः । ॐ पुण्यश्रवणकीर्तनाय नमः । ॐ पुराणमध्यजीवाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ पुरुषोत्तमप्रियाय नमः । ६७० ॐ पुण्डरीकहस्ताय नमः । ॐ पुण्डरीकपुरवासिने नमः । ॐ पुराणपुरुषाय नमः । ॐ पुरीशाय नमः । ॐ पुरुगर्भाय नमः । ॐ पूर्णरूपाय नमः । ॐ पूजासन्तुष्टमानसाय नमः । ॐ पूर्णाय नमः । ॐ पूर्णप्रज्ञाय नमः । ॐ पूर्णवैराग्यदायिने नमः । ६८० ॐ पूर्णानन्दस्वरूपिणे नमः । ॐ पूर्णकृपानिधये नमः । ॐ पूर्णाचलपूजिताय नमः । ॐ पूर्णचन्द्रनिभाननाय नमः । ॐ पूर्णचन्द्रमध्यवासिने नमः । ॐ पुरुहूताय नमः । ॐ पुरुषसूक्तप्रतिष्ठात्रे नमः । ॐ पूर्णकामाय नमः । ॐ पूर्वजाय नमः । ॐ प्रणमत्पालनोद्युक्ताय नमः । ६९० ॐ प्रणतार्तिहराय नमः । ॐ प्रत्यक्षदेवतामूर्तये नमः । ॐ प्रत्यगात्मनिदर्शनाय नमः । ॐ प्रपन्नपारिजाताय नमः । ॐ प्रसन्नानां परागतये नमः । ॐ प्रमाणातीतचिन्मूर्तये नमः । ॐ प्रमादभीतमृत्युजिते नमः । ॐ प्रसन्नवदनाय नमः । ॐ प्रसादाभिमुखद्युतये नमः । ॐ प्रपञ्चलीलाय नमः । ७०० ॐ प्रपञ्चसूत्रधारिणे नमः । ॐ प्रशस्तवाचकाय नमः । ॐ प्रशान्तात्मने नमः । ॐ प्रवृत्तिरूपिणे नमः । ॐ प्रभापात्राय नमः । ॐ प्रभाविग्रहाय नमः । ॐ प्रियसत्यगुणोदाराय नमः । ॐ प्रेमवेद्याय नमः । ॐ प्रेमवश्याय नमः । ॐ प्रेममार्गैकसाधनाय नमः । ७१० ॐ प्रेमभक्तिसुलभाय नमः । ॐ बहुरूपनिगूढात्मने नमः । ॐ बलभद्राय नमः । ॐ बलदृप्तप्रशमनाय नमः । ॐ बलभीमाय नमः । ॐ बुधसन्तोषदाय नमः । ॐ बुद्धाय नमः । ॐ बुधजनावनाय नमः । ॐ बृहद्बन्धविमोचकाय नमः । ॐ बृहद्भारवहक्षमाय नमः । ७२० ॐ ब्रह्मकुलरक्षिणे नमः । ॐ ब्रह्मकुलप्रियाय नमः । ॐ ब्रह्मचारिव्रतिने नमः । ॐ ब्रह्मानन्दाय नमः । ॐ ब्रह्मण्यशरण्याय नमः । ॐ बृहस्पतिपूजिताय नमः । ॐ ब्रह्मानन्दस्वरूपिणे नमः । ॐ ब्रह्मानन्दलसद्दृष्टये नमः । ॐ ब्रह्मवादिने नमः । ॐ ब्रह्मसङ्कल्पाय नमः । ७३० ॐ ब्रह्मैकपरायणाय नमः । ॐ बृहच्छ्रवसे नमः । ॐ ब्राह्मणपूजिताय नमः । ॐ ब्राह्मणाय नमः । ॐ ब्रह्मभूताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मण्यशरण्याय नमः । ॐ ब्रह्मवित्तमाय नमः । ॐ ब्रह्मवरिष्ठाय नमः । ॐ ब्रह्मपददात्रे नमः । ७४० ॐ बृहच्छरीराय नमः । ॐ बृहन्नयनाय नमः । ॐ बृहदीश्वराय नमः । ॐ बृह्ममुरारिसेविताय नमः । ॐ ब्रह्मभद्रपादुकाय नमः । ॐ भक्तदासाय नमः । ॐ भक्तप्राणरक्षकाय नमः । ॐ भक्तवत्सलाय नमः । ॐ परदैवताय नमः । ॐ भगवत्पुत्राय नमः । ७५० ॐ भयापहाय नमः । ॐ भक्तरक्षणदाक्षिण्याय नमः । ॐ भक्तप्रेमवश्याय नमः । ॐ भक्तात्यन्तहितैषिणे नमः । ॐ भक्ताश्रितदयापराय नमः । ॐ भक्तार्थधृतरूपाय नमः । ॐ भक्तानुकम्पनाय नमः । ॐ भगळासेविताय नमः । ॐ भक्तपरागतये नमः । ॐ भक्तमानसवासिने नमः । ७६० ॐ भक्तादिकल्पाय नमः । ॐ भक्तभवाब्धिपोताय नमः । ॐ भक्तनिधये नमः । ॐ भक्तस्वामिने नमः । ॐ भगवते वासुदेवाय नमः । ॐ भगवते नमः । ॐ भजतां सुहृदे नमः । ॐ भवानीपुत्राय नमः । ॐ भक्तपराधीनाय नमः । ॐ भक्तानुग्रहकारकाय नमः । ७७० ॐ भक्तपापनिहन्त्रे नमः । ॐ भक्ताभयवरप्रदाय नमः । ॐ भक्तावनसमर्थाय नमः । ॐ भक्तावनधुरन्धराय नमः । ॐ भक्तात्यन्तहितौषधाय नमः । ॐ भक्तावनप्रतिज्ञाय नमः । ॐ भजतां इष्टकामदुहे नमः । ॐ भरद्वाजानुग्रहदाय नमः । ॐ भरद्वाजपोषिणे नमः । ॐ भारतीपूजिताय नमः । ७८० ॐ भारतीनाथाचार्याय नमः । ॐ भक्तहृत्पद्मवासिने नमः । ॐ भक्तिमार्गप्रदर्शकाय नमः । ॐ भक्ताशयविहारिणे नमः । ॐ भक्तसर्वमलापहाय नमः । ॐ भक्तबोधैकनिष्ठाय नमः । ॐ भक्तानां सद्गतिप्रदाय नमः । ॐ भक्तानां सर्वनिधये नमः । ॐ भागीरथाय नमः । ॐ भार्गवपूजिताय नमः । ७९० ॐ भार्गवाय नमः । ॐ भृग्वाश्रिताय नमः । ॐ बृहत्साक्षिणे नमः । ॐ भक्तप्रारब्धच्छेदनाय नमः । ॐ भद्रमार्गप्रदर्शिने नमः । ॐ भद्रोपदेशकारिणे नमः । ॐ भद्रमूर्तये नमः । ॐ भद्रश्रवसे नमः । ॐ भद्रकालीसेविताय नमः । ॐ भैरवाश्रितपादाब्जाय नमः । ८०० ॐ भैरवकिङ्कराय नमः । ॐ भैरवशासिताय नमः । ॐ भैरवपूजिताय नमः । ॐ भेरुण्डाश्रिताय नमः । ॐ भग्नशत्रवे नमः । ॐ भजतां मानसनित्याय नमः । ॐ भजनसन्तुष्टाय नमः । ॐ भयहीनाय नमः । ॐ भयत्रात्रे नमः । ॐ भयकृते नमः । ८१० ॐ भयनाशनाय नमः । ॐ भववारिधिपोताय नमः । ॐ भवसन्तुष्टमानसाय नमः । ॐ भवभीतोद्धारणाय नमः । ॐ भवपुत्राय नमः । ॐ भवेश्वराय नमः । ॐ भ्रमराम्बालालिताय नमः । ॐ भ्रमाभीशस्तुत्याय नमः । ॐ भ्रमरकीटन्यायवोधकाय नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ८२० ॐ भववैषम्यनाशिने नमः । ॐ भवलुण्ठनकोविदाय नमः । ॐ भस्मदाननिरताय नमः । ॐ भस्मलेपनसन्तुष्टाय नमः । ॐ भस्मसात्कृतभक्तारये नमः । ॐ भण्डासुरवधसन्तुष्टाय नमः । ॐ भारत्यादिसेविताय नमः । ॐ भस्मसात्कृतमन्मथाय नमः । ॐ भस्मकूटसमुत्पन्नभण्डसृष्टिनिपुणाय नमः । ॐ भस्मजाबालप्रतिष्ठात्रे नमः । ८३० ॐ भस्मदग्धाखिलमयाय नमः । ॐ भृङ्गीपूजिताय नमः । ॐ भकारात्सर्वसंहारिणे नमः । ॐ भयानकाय नमः । ॐ भवबोधकाय नमः । ॐ भवदैवताय नमः । ॐ भवचिकित्सनपराय नमः । ॐ भाषाखिलज्ञानप्रदाय नमः । ॐ भाष्यकृते नमः । ॐ भावगम्याय नमः । ८४० ॐ भारसर्वपरिग्रहाय नमः । ॐ भागवतसहायाय नमः । ॐ भावनामात्रसन्तुष्टाय नमः । ॐ भागवतप्रधानाय नमः । ॐ भागवतस्तोमपूजिताय नमः । ॐ भङ्गीकृतमहाशूराय नमः । ॐ भङ्गीकृततारकाय नमः । ॐ भिक्षादानसन्तुष्टाय नमः । ॐ भिक्षवे नमः । ॐ भीमाय नमः । ८५० ॐ भीमपूजिताय नमः । ॐ भीतानां भीतिनाशिने नमः । ॐ भीषणाय नमः । ॐ भीषणभीषणाय नमः । ॐ भीताचारितसूर्याग्निमघवन्मृत्युमारुताय नमः । ॐ भुक्तिमुक्तिप्रदात्रे नमः । ॐ भुजगवेष्टिताय नमः । ॐ भुजगारूढाय नमः । ॐ भुजङ्गरूपाय नमः । ॐ भुजङ्गवक्राय नमः । ८६० ॐ भूभृत्समोपकारिणे नमः । ॐ भूम्ने नमः । ॐ भूतेशाय नमः । ॐ भूतेशाङ्गस्थिताय नमः । ॐ भूतेशपुलकाञ्चिताय नमः । ॐ भूतेशनेत्रसमुत्सुकाय नमः । ॐ भूतेशानुचराय नमः । ॐ भूतेशगुरवे नमः । ॐ भूतेशप्रेरिताय नमः । ॐ भूतानाम्पतये नमः । ८७० ॐ भूतलिङ्गाय नमः । ॐ भूतशरण्यभूताय नमः । ॐ भूतात्मने नमः । ॐ भूतभावनाय नमः । ॐ भूतप्रेतपिशाचादिविमर्दनसुपण्डिताय नमः । ॐ भूतसहस्रपरिवृताय नमः । ॐ भूतडाकिनियाकिन्याद्यासमावृतवैभवाय नमः । ॐ भूतनाटकसूत्रभृते नमः । ॐ भूतकलेबराय नमः । ॐ भृत्यस्य तृप्तिमते नमः । ८८० ॐ भृत्यभारवहाय नमः । ॐ प्रधानार्चिताय नमः । ॐ भोगेश्वराय नमः । ॐ भैषज्यरूपिणे नमः । ॐ भिषजां वराय नमः । ॐ मर्कटसेविताय नमः । ॐ भक्तरामेण पूजिताय नमः । ॐ भक्तार्चितवैभवाय नमः । ॐ भस्मासुरविमोहनाय नमः । ॐ भस्मासुरवैरिसूनवे नमः । ८९० ॐ भगळासन्तुष्टवैभवाय नमः । ॐ मन्त्रौषधस्वरूपाय नमः । ॐ मन्त्राचार्याय नमः । ॐ मन्त्रपूजिताय नमः । ॐ मन्त्रदर्शिने नमः । ॐ मन्त्रदृष्टेन पूजिताय नमः । ॐ मधुमते नमः । ॐ मधुपानसेविताय नमः । ॐ महाभाग्यलक्षिताय नमः । ॐ महातापौघपापानां क्षणमात्रविनाशनाय नमः । ९०० ॐ महाभीतिभञ्जनाय नमः । ॐ महाभैरवपूजिताय नमः । ॐ महाताण्डवपुत्रकाय नमः । ॐ महाताण्डवसमुत्सुकाय नमः । ॐ महावास्यसन्तुष्टाय नमः । ॐ महासेनावतरिणे नमः । ॐ महावीरप्रपूजिताय नमः । ॐ महाशास्त्राश्रिताय नमः । ॐ महदाश्चर्यवैभवाय नमः । ॐ महत्सेनाजनकाय नमः । ९१० ॐ महाधीराय नमः । ॐ महासाम्रज्याभिषिक्ताय नमः । ॐ महाभाग्यप्रदाय नमः । ॐ महापद्ममध्यवर्तिने नमः । ॐ महायन्त्ररूपिणे नमः । ॐ महामन्त्रकुलदैवताय नमः । ॐ महातन्त्रस्वरूपाय नमः । ॐ महाविद्यागुरवे नमः । ॐ महाहङ्कारनाशकाय नमः । ॐ महाचतुष्षष्टिकोटियोगिनीगणसंवृताय नमः । ९२० ॐ महापूजाधुरन्धराय नमः । ॐ महाक्रूरसिंहास्यगर्वसम्भञ्जनप्रभवे नमः । ॐ महाशूरपद्मवधपण्डिताय नमः । ॐ महापण्डिताय नमः । ॐ महानुभावाय नमः । ॐ महातेजस्विने नमः । ॐ महाहाटकनायकाय नमः । ॐ महायोगप्रतिष्ठात्रे नमः । ॐ महायोगेश्वराय नमः । ॐ महाभयनिवर्तकाय नमः । ९३० ॐ महादेवपुत्रकाय नमः । ॐ महालिङ्गाय नमः । ॐ महामेरुनिलयाय नमः । ॐ महर्षिवाक्यबोधकाय नमः । ॐ महात्मने नमः । ॐ महाबलाय नमः । ॐ मातलीश्वराय नमः । ॐ मधुवैरिमुख्यप्रियाय नमः । ॐ मार्गबन्धवे नमः । ॐ मार्गेश्वराय नमः । ९४० ॐ मारुतिपूजिताय नमः । ॐ मारीकालीसमूहानां समावृत्य सुसेविताय नमः । ॐ महाशरभकिङ्कराय नमः । ॐ महादुर्गासेविताय नमः । ॐ मितार्चिष्मते नमः । ॐ मार्जालेश्वरपूजिताय नमः । ॐ मुक्तानं परमायै गतये नमः । ॐ मुक्तसङ्गाय नमः । ॐ मुक्तिदाय नमः । ॐ मुक्तिगोविन्दाय नमः । ९५० ॐ मूर्धाभिषिक्ताय नमः । ॐ मूलेशाय नमः । ॐ मूलमन्त्रविग्रहाय नमः । ॐ मुनये नमः । ॐ मृतसञ्जीविने नमः । ॐ मृत्युभीतिविनाशकाय नमः । ॐ मृत्युञ्जयाय नमः । ॐ मेघश्यामाय नमः । ॐ मेघनाथपूजिताय नमः । ॐ मोहान्धकारनिवर्तकाय नमः । ९६० ॐ मोहिनीरूपसन्तुष्टाय नमः । ॐ मोहजाण्डजकोटये नमः । ॐ मोक्षमार्गप्रदर्शिने नमः । ॐ मौनव्याख्यानमूर्तये नमः । ॐ यज्ञदानतपःफलाय नमः । ॐ यज्ञस्वरूपिणे नमः । ॐ यजमानाय नमः । ॐ यज्ञेश्वराय नमः । ॐ यतये नमः । ॐ यतीनां पूजितश्रेष्ठाय नमः । ९७० ॐ यतीनां परिपालकाय नमः । ॐ यतो वाचो निवर्तन्ते ततोऽनन्तसुनिष्ठिताय नमः । ॐ यत्नरूपाय नमः । ॐ यदुगिरिवासाय नमः । ॐ यदुनाथसेविताय नमः । ॐ यदुराजभक्तिमते नमः । ॐ यथेच्छासूक्ष्मधर्मदर्शिने नमः । ॐ यथेष्ठं दानधर्मकृते नमः । ॐ यन्त्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभवे नमः । ॐ यमकिङ्कराणां भयदाय नमः । ९८० ॐ याकिनीसेविताय नमः । ॐ यक्षरक्षःपिशाचानां सांनिध्यादेव नाशकाय नमः । ॐ युगान्तरकल्पिताय नमः । ॐ योगशक्तिरूपिणे नमः । ॐ योगमायासमावृताय नमः । ॐ योगिहृद्ध्यानगम्याय नमः । ॐ योगक्षेमवहाय नमः । ॐ रसाय नमः । ॐ रससारस्वरूपिणे नमः । ॐ रागद्वेषविवर्जिताय नमः । ९९० ॐ राकाचन्द्राननाय नमः । ॐ रामप्रियाय नमः । ॐ रुद्रतुल्यप्रकोपाय नमः । ॐ रोगदारिद्र्यनाशकाय नमः । ॐ ललिताश्रिताय नमः । ॐ लक्ष्मीनारायणाय नमः । ॐ वासुकिपूजिताय नमः । ॐ वासुदेवानुग्रहदाय नमः । ॐ वेदान्तार्थसुनिश्चिताय नमः । ॐ शरणागतवत्सलाय नमः । १००० ॐ शश्वद्दारिद्र्यनिवारकाय नमः । ॐ शान्तात्मने नमः । ॐ शिवरूपाय नमः । ॐ श्रीकण्ठाय नमः । ॐ सत्याय नमः । ॐ सदाशिवाय नमः । ॐ षण्मुखाय नमः । ॐ गुहानन्दगुरवे नमः । १००८ शुभमस्तु । इति सहस्रनामवलिः सम्पूर्णा । योऽर्चयेन्नामभिःस्कन्दं सहस्रैरेभिरन्वहम् । मृत्युञ्जयश्चिरञ्जीवी महेन्द्रसदृशश्च सः ॥ ॐ नमो भगवते षडाननाय ।