अक्षर आकार:

श्रीसुब्रह्मण्यपञ्चरत्नम् ३

shrIsubrahmaNyapa~ncharatnam 3

श्रीसुब्रह्मण्यपञ्चरत्नम् ३

ॐ श्रीगणेशाय नमः । श्रुतिशतनुतरत्नं शुद्धसत्त्वैकरत्नं यतिहितकररत्नं यज्ञसम्भाव्यरत्नम् । दितिसुतरिपुरत्नं देवसेनेशरत्नं जितरतिपतिरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ १॥ सुरमुखपतिरत्नं सूक्ष्मबोधैकरत्नं परमसुखदरत्नं पार्वतीसूनुरत्नम् । शरवणभवरत्नं शत्रुसंहाररत्नं स्मरहरसुतरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ २॥ निधिपतिहितरत्नं निश्चिताद्वैतरत्नं मधुरचरितरत्नं मानिताङ्घ्र्यब्जरत्नम् । विधुशतनिभरत्नं विश्वसन्त्राणरत्नं बुधमुनिगुरुरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ ३॥ अभयवरदरत्नं चाप्तसन्तानरत्नं इभमुखयुतरत्नं ईशशक्त्येकरत्नम् । शुभकरमुखरत्नं शूरसंहाररत्नं उभयगतिदरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ ४॥ सुजनसुलभरत्नं स्वर्णवल्लीशरत्नं भजनसुखदरत्नं भानुकोट्याभरत्नम् । अजशिवगुरुरत्नं चाद्भुताकाररत्नं द्विजगणनुतरत्नं चिन्तयेत्स्कन्दरत्नम् ॥ ५॥ षण्मुखस्य सकलार्थसिद्धिदं पञ्चरत्नमघवृन्दकृन्तनम् । ये पठन्ति विभवैः स्फुटान्विताः श्रीधराख्यगुरुमूर्त्यनुग्रहात् ॥ ६॥ इति श्री श्रीधरार्यविरचितं श्रीसुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् ।