अक्षर आकार:

श्रीसुब्रह्मण्यमङ्गलस्तोत्रम्

Shri Subrahmanyamangalastotram

श्रीसुब्रह्मण्यमङ्गलस्तोत्रम्

ॐ श्रीगणेशाय नमः श्रीः । मङ्गलं देवदेवाय राजराजाय मङ्गलम् । मङ्गलं नाथनाथाय कालकालाय मङ्गलम् ॥ १॥ मङ्गलं कार्तिकेयाय गङ्गापुत्राय मङ्गलम् । मङ्गलं जिष्णुजेशाय वल्लीनाथाय मङ्गलम् ॥ २॥ मङ्गलं शम्भुपुत्राय जयन्तीशाय मङ्गलम् । मङ्गलं सुकुमाराय सुब्रह्मण्याय मङ्गलम् ॥ ३॥ मङ्गलं तारकजिते गणनाथाय मङ्गलम् । मङ्गलं शक्तिहस्ताय वह्निजाताय मङ्गलम् ॥ ४॥ मङ्गलं बाहुलेयाय महासेनाय मङ्गलम् । मङ्गलं स्वामिनाथाय मङ्गलं शरजन्मने ॥ ५॥ अष्टनेत्रपुरीशाय षण्मुखायास्तु मङ्गलम् । कमलासनवागीशवरदायास्तु मङ्गलम् ॥ ६॥ श्रीगौरीगर्भजाताय श्रीकण्ठतनयाय च । श्रीकान्तभागिनेयाय श्रीमत्स्कन्दाय मङ्गलम् ॥ ७॥ श्रीवल्लीरमणायाथ श्रीकुमाराय मङ्गलम् । श्रीदेवसेनाकान्ताय श्रीविशाखाय मङ्गलम् ॥ ८॥ मङ्गलं पुण्यरूपाय पुण्यश्लोकाय मङ्गलम् । मङ्गलं पुण्ययशसे मङ्गलं पुण्यतेजसे ॥ ९॥ ॐ नमो भगवते सुब्रह्मण्याय नमः । इति श्रीसुब्रह्मण्यमङ्गलस्तोत्रं सम्पूर्णम् ।