अक्षर आकार:

श्रीसुब्रह्मण्यमूलमन्त्रस्तवः

shrIsubrahmaNyamUlamantrastavaH

श्रीसुब्रह्मण्यमूलमन्त्रस्तवः

ॐ श्रीगणेशाय नमः । अथातः सम्प्रवक्ष्यामि मूलमन्त्रस्तवं शिवम् । जपतां श‍ृण्वतां नॄणां भक्तिमुक्तिप्रदायकम् ॥ १॥ सर्वशत्रुक्षयकरं सर्वरोगनिवारणम् । अष्टैश्वर्यप्रदं नित्यं सर्वलोकैकपावनम् ॥ २॥ शरारण्योद्भवं स्कन्दं शरणागतपालकम् । शरणं त्वां प्रपन्नस्य देहि मे विपुलां श्रियम् ॥ ३॥ राजराजसखोद्भूत राजीवायतलोचन । रतीशकोटिसौन्दर्य देहि मे विपुलां श्रियम् ॥ ४॥ वलारिप्रमुखैर्वन्द्य वल्लीन्द्राणीसुतापते । वरदाश्रितलोकानां देहि मे विपुलां श्रियम् ॥ ५॥ नारदादिमहायोगिसिद्धगन्धर्वसेवित । नववीरैः पूजिताङ्घ्रे देहि मे विपुलां श्रियम् ॥ ६॥ भगवन् पार्वतीसूनो स्वामिन्भक्तार्तिभञ्जन । भवत्पदाब्जयोर्भक्तिं देहि मे विपुलां श्रियम् ॥ ७॥ वसु धान्यं यशः कीर्तिं अविच्छेदं च सन्ततेः । शत्रुनाशनमद्याशु देहि मे विपुलां श्रियम् ॥ ८॥ इदं षडक्षरं स्तोत्रं सुब्रह्मण्यस्य सन्ततम् । यः पठेत्तस्य सिद्ध्यन्ति सम्पदश्चिन्तिताधिकाः ॥ ९॥ हृदब्जे भक्तितो नित्यं सुब्रह्मण्यं स्मरन्बुधः । यो जपेत्प्रातरुत्थाय सर्वान्कामानवाप्नुयात् ॥ १०॥ इति कुमारतन्त्रार्गतं श्रीसुब्रह्मण्यमूलमन्त्रस्तवः सम्पूर्णः ।