अक्षर आकार:

श्रीसुब्रह्मण्यकर्णामृतम्

Shri Subrahmanyakarnamritam

श्रीसुब्रह्मण्यकर्णामृतम्

शिवं नश्शर्वाणीस्तनजनितमन्दोष्णमधुरं पयः षड्भिर्वक्त्रैरुपचितकपोलैरपि पिबन् । हसन्हर्यश्वादींश्चिरभवसुधालुब्धधिषणान् कुमारः पूर्वेषां कलयतु गुरूणामपि गुरुः ॥ १॥ विलज्जन्तामज्ञाः पुरहरकुमारस्तुतिविधौ न जिह्रीमश्चास्मिन्नपि बहु बिभीमः कथमपि । पुराणी वाण्येतत्सविधसरणक्लान्तचरणा मुहुः सुब्रह्मण्योमिति न किमवादीत्प्लुतयुतम् ॥ २॥ कथापीयूषं तेऽसदृशरसमातृप्ति पिबतां सतां स्तोकास्वादा शरभवमुधा नूतनसुधा । जनश्रुत्यामेवं परिवृतजगत्यां च बहुधा प्रवर्तेरन् के वा न तव विततेऽपि स्तवपथे ॥ ३॥ अभीष्टं याचत्सु द्रुहिणहरिवाहादिषु पुरो यतस्त्रातुं प्राप्तो ननु भवसि मामेव झटिति । ततस्ते पादाब्जं परिवहतु तान्तं मम मतिः प्रपञ्चे विख्याता ध्रुवमुपकृतौ प्रत्युपकृतिः ॥ ४॥ सकृन्नत्वा हि त्वां भजति कुटिलो वाऽप्यभिमतं तथापि क्लिश्नाति प्रकृतिगहने कर्मविपने । जनोऽस्मिन्को हेतुर्भवति न विजाने त्रिभुवने न चोल्लङ्घ्या दैवी सरणिरिह केनापि विषमा ॥ ५॥ वचोबाला यस्यामलगुणमनीषासहचरी रहस्स्थाने ध्याने विहरति तवाङ्घ्रिप्रणयिना । स सन्तोषाम्भोधेरधिजठरमामज्जति चिरं निजापत्यामोदादपि च परितोषो जगति कः ॥ ६॥ मया ते विक्रीतश्चलहृदयदूतः पदतटी- निषेवार्थं स्वार्थं बहुकृप कृपामाप्य भवतः । समीकृत्य स्वार्थे घटनमुचितं तेऽस्य चलतो विधिर्विक्रेतुर्मे ध्रुवमवगुणाच्छादनमपि ॥ ७॥ दुराराध्याः साध्याः कथमिव भवेयुर्मखभुजः पदं ते पूर्वेषां वचसामप्यविषयः । शुचा क्रूरेऽपारे भवजलधिपूरे परिपतन् निरालम्बो लम्बोदरसहज कं यामि शरणम् ॥ ८॥ समाधानैर्ध्यानैर्बहुविधविधानैरपि शुचीन् परित्रातुं शक्ता जगति विबुधास्सन्ति बहुधा । अपि त्याज्यान्व्रात्याधमपतितपाषण्डपिशुनैः परित्रातुं शक्तस्त्वमिव जगति त्वं प्रभवसि ॥ ९॥ तवाधाराच्छूरासुरदमन सर्वामरवरान् तृणाग्रेभ्यो मत्वा सुखमवसमाजन्मदिवसम् । विलम्बश्चेदद्याप्यहह तव देवास्मदवने कुमारत्वं ख्यातं तव सदसि जायेत महताम् ॥ १०॥ सदा सेवं सेवं सुरपरिवृढत्वाध्यवसितान् परिश्रान्तेरन्यत्फलमहमवापं न किमपि । इदानीं त्वत्पादव्यतिषजित् कर्मव्रजममुं परित्रायञ्छम्भोः प्रकटय सुतत्त्वं तव विभो ॥ ११॥ पुरः प्रादुर्भूत्वा न भवसि भवांश्चेन्मम मुदे कुमार प्रक्रीडन् झटिति गळति ख्यातिरनघा । पुनः प्राप्तुं नेदृक्किल मिषति कालस्तव मनाग् इयं ते विज्ञप्तिः पुनरपि पुनस्ते पुनरपि ॥ १२॥ मयि क्रोशत्येवं सपदि न दयां यद्वितनुषे निदानं किं तत्र ज्वलनजनिमत्त्वं नु भवतः । उताद्रेः कन्यायाः कठिनजठरान्तर्विलुठनं न वै जाने म्लानेप्सितकुशलयोनेऽल्पधिषणः ॥ १३॥ अयं ते भद्राप्त्यै कतिचन समाधीन्शुभधियो जयं ते कामादेर्विदधति शमाद्यैः प्रहरणैः । स्मयन्ते यागाद्यैः कतिचन विधानैरुपचितैः वयं तेषु श्रान्तास्तव विरचयामोऽञ्जलिममुम् ॥ १४॥ नगास्ते पञ्चत्वं दधति जडतां दैवतमणिः पशुत्वं सा धेनुस्तव चरणदातृत्वयशसा । विना तं त्वां को नु स्पृहयति धनान्धान्नरपशून् समाराद्धुं धीमानिह जगति सर्वामरगुरो ॥ १५॥ श्रुतेर्वज्रायन्ते प्रथममतिथीनां किल कथाः यमायन्ते देहि त्वमिति लिपयो यस्य कुधियः । कुरुक्षेत्रायन्ते नटविटसमाजाः सगणिकाः कथं नाथन्त्येनं त्वयि सति जगन्नाथ कृपणाः ॥ १६॥ विधत्तां व्यासङ्गं सरसिजभवः श्रौतशिखरे समाधत्तां निद्रां जलधिजठरे श्रीपतिरपि । समेधन्तां लीलानटनचटुला धूर्जटिकृताः विधीयन्ते दीक्षा गुहचरणधूल्यास्मदवने ॥ १७॥ प्रतिष्ठन्तां सार्धं सपदि मधुमत्या दिविषदो न चाद्याकाङ्क्षामस्तदनुसरणं तत्कृतफलम् । अपाङ्गाः स्वर्गङ्गा चटुलतरवीचीसहचराः तिरश्चक्रुस्तृष्णाकलितपरितापं मम विभोः ॥ १८॥ नमस्ते स्वर्धेनोऽमरपुरतरुभ्योऽञ्जलिरियं नमश्चिन्तारत्नापसरत यथायातमधुना । प्रसादे सेनान्यस्सति जगति कः प्रार्थयति वः सुधासिन्धोस्तीरे कथमिव भवेत्काञ्जिककथा ॥ १९॥ स्वपादस्मर्तारं सपदि कलयन्नात्मसदृशं पुनस्तोषाभावान्मृगयति वरं दातुमपरम् । यदाख्यापीयूषं पिबति सवने दिव्यपरिषत् स सुब्रह्मण्यो नः स्फुरति पुरतः पूर्णकरुणः ॥ २०॥ प्रभावस्मिन्दीक्षां वहति मम रक्षाध्वरविधौ लभन्ते शोकाग्नौ सपदि पशुतां शात्रवजनाः । भजन्ते मोदाब्धाववभृथविधां बन्धुनिवहाः दिवान्धाश्चक्राड्गाः कथमिव समानप्रकृतयः ॥ २१॥ सुपर्याप्ता गोप्तुं जनमतिविपन्नं सुरगणाः पटीयान् रेणुर्वा गुहचरणपाथोजमथितः । न सन्दिग्धेऽद्यास्मान् जगति जनतालोक्य तव तद्- रजोलेशप्राप्ताखिलसुरवराकाङ्क्षितशिवान् ॥ २२॥ चिरं भ्रामं भ्रामं क्कचन मरुदेशे भवमिषे परिश्रान्ताः शान्ताः श‍ृणुत वचनं किञ्चन शिशोः । समाप्येतत्सर्वं सपदि विधिवाक्यादधिगतं पदे भूमानन्दे ददत हृदयं धूर्जटिभुवः ॥ २३॥ प्रियच्छायापायांस्त्यजत कुशलायातिमहते फलायामोहायार्जयत सदुपायानपि च वः । उमादायादाङ्घ्रेरतिभयदमायामयमयात् अपायादुद्धर्ता न भवति परस्त्रिर्ननु शपे ॥ २४॥ अभूम प्रागेते वयममितकाङ्क्षाजलनिधौ अहो मज्जं मज्जं भृशमलभमानास्तटभुवम् । इदानीं स्वाराज्यं तृणमपि समं यच्चरणजात् प्रसादात्पश्यामः किमिह वरयामोऽद्य वरदम् ॥ २५॥ पतन्ती रुद्रादेः श्रुतिभुवि गळन्ती श्रितरुजो दळन्ती शूरादीनपि परिकृषन्ती तटतरून् । हरन्ती सन्तापान्पुनरपि पुनन्ती स्मृतिवशात् स्रवन्ती काप्येषा विलसति वहन्ती मम पुरः ॥ २६॥ अतिक्रूरोऽरातिष्वमितशमपूरो मुनिजने कठोरो वीरत्वे कुसुमसुकुमारोऽपि हृदये । रुचोद्यत्सूरोऽसावमृतकरपूरोऽपहसिते सुमन्दारोऽस्माकं जयति स कुमारो गिरिभुवः ॥ २७॥ नमोवाकं ब्रूमो नयनरमणीयाय शिवयोः तदङ्कालङ्कारं कमपि विदधानाय च मुहुः । तयोः प्रेमाम्भोधेः शरदुदितराकाशशभृते परस्मै कस्मैचित्त्रियुगवदनायादिमहसे ॥ २८॥ तुलाकोटिक्वाणस्फुरणललिताभ्यां त्रिजगतां परं पित्रोर्नेत्रोत्सवदनटनाभ्यां च कृतिनाम् । मनोहर्म्ये राजत्कनककलशाभ्यां श्रुतिशिरो- विमृग्याभ्यां पद्भ्यां नतसुरतरुभ्यां नतिरियम् ॥ २९॥ क्कणद्भ्यां पाणिभ्यां रणितचरणाभ्यां मणितले स्खलद्भ्यां जानुभ्यां कलितगमनं सार्धवचनम् । अनाद्योर्दम्पत्योः सुकृतमिव मूर्तं नयनयोः अदृष्ट्वेदं तेजः कथमिव कृती खल्विह जनः ॥ ३०॥ पायात्कुशल करण्डः पुष्करमालापरीवृतशिखण्डः । ताडिततामसषण्डः तारकतामिस्रतरुणमार्ताण्डः ॥ ३१॥ नेत्रीभूतः शिवयोः कश्चन पत्रीकृतोरगाहारः । पात्रीभवतु पुरो मे धात्रीकृतकृत्तिकोऽक्षियुगळस्य ॥ ३२॥ अम्भोजपत्रनेत्रः कुम्भोद्भूतादितामरसमित्रः । शम्भोः प्रमोदपुत्रः स्तम्भो जगतां समेधतां चित्रः ॥ ३३॥ क्षन्ता नतमन्तूनां गन्ता गजराजमदभरं भञ्जन् । कान्त्या कनकनियन्ता क्रौञ्चनिहन्ता कदा नु हृदि रन्ता ॥ ३४॥ निगमशिखरालवालो वल्लीमल्लीलताञ्चितस्कन्धः । कश्चन सुरसालो नो वृश्चतु पाश्चात्यजन्मसन्तापम् ॥ ३५॥ शासितदैत्यकदम्बः शमधनचेतस्तटाककादम्बः । आसीन्ममावलम्बः शक्रतनूजालसाक्ष्यळिकदम्बः ॥ ३६॥ यज्ञावघुष्टनामा प्राज्ञालापाभिरामगुणसीमा । परमेश्वरयोः प्रेमालङ्कृतसामा ममास्तु शुभभूमा ॥ ३७॥ सनकादिसिद्धसेव्यो जनको जगतां शिवङ्करः शिवयोः । कनकद्रवनीकाशः शनकैः शनकैरुदेति पुरतो नः ॥ ३८॥ षण्मुख! मुखजितशशधर! धरजाङ्कवास! वासवाद्यर्च्य । अर्चिष्मदधिककान्ते कान्ते जगतां पदे विधेह्यस्मान् ॥ ३९॥ कञ्जभववचनगेहं काञ्चनसहकारिकिरणसन्दोहम् । श्रितरक्षासन्नाहं शिवयोर्मूर्तं श्रयामहे स्नेहम् ॥ ४०॥ वन्देमहि मन्देहासुर हर सन्देहदायि देहरुचिम् । कुरुविन्दकान्तिचेलं बालं शिवयोः किमन्यदवशिष्टम् ॥ ४१॥ मण्डितवेदशिखण्डैः खण्डितदनुजौघचण्डभुजदण्डैः । चण्डीश भाग्यषण्डैः दण्डितदुरितोऽस्मि मङ्गलकरण्डैः ॥ ४२॥ फुल्लारविन्ददाम्ना कल्हाराद्रीन्द्रश‍ृङ्गकृतधाम्ना । नाम्ना रञ्जितसाम्ना केनचिदाराजि मङ्गलमहिम्ना ॥ ४३॥ अलमलमशक्तिहस्तैः अमुकुटमस्तैरवेदविन्यस्तैः । भक्तानामसमस्तैः अपरैरमहेश्वराङ्कतलशस्तैः ॥ ४४॥ दूराददाहि दुरितं शूराद्यसुरौघतूलदहनेन । सारेण केनचिन्मे मारारातेर्गृहस्थभावस्य ॥ ४५॥ आशास्महे सदा वयमाशाधीशोच्चमौलिपीठाय । श्रुतिचूडोत्तंसाय प्रमथाधीशात्मजाङ्घ्रिकमलाय ॥ ४६॥ आम्नायशिखरवेद्यादानतसल्लोकभवरुजां वैद्यात् । आद्याच्चराचराणां हृद्यात्पित्रोः किमन्यदवलम्बे ॥ ४७॥ अमराभयङ्कराणां तिमिरारीणामपाङ्गसुषमासु । चमराणां श्रुतिवन्या वयमिह दासाश्चिदिन्दुकिरणानाम् ॥ ४८॥ पर्याप्तचन्द्रवदने पर्वतपुत्रीशुभाङ्कमणिसदने । परिहृतसुरारिकदने मदने वल्ल्या मनोऽवलग्नं नः ॥ ४९॥ तरुणारुणकिरणावळिपरिणामस्फुरणचरणतरुणाब्जे । चरणायुधध्वजेऽहं करुणाम्भोधौ निमग्नभावोऽस्मि ॥ ५०॥ यस्मिंस्त्रेधा विलसति मृषा जागती वृत्तिरेषा यस्य स्फूर्त्यां व्रजति सहसा चिन्मयी तन्मयीत्वम् । योऽस्तं याते स्फुरति हृदये निर्विकल्पे समाधौ प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५१॥ यस्यैकांशाज्जगति सकलाः प्राणिनः प्राणवन्तः यस्याख्याने निगमशिखरं नाप कां कामवस्थाम् । नान्तश्शोको भवति भजतां यस्य लेशोपलब्धेः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५२॥ क्लान्ताः क्लान्ता यमनु निगमाः साङ्गिरन्ते गिरं ते यन्निर्णेतुं सपदि मुनयः साध्वसं ते लभन्ते । मौनेनैवाभिनयति जगद्देशिको यस्य तत्त्वं प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५३॥ यस्यावाप्त्यै शमधनततिर्याति नानापथेन प्राप्तो यो यैर्जगति विरळाः सर्वथा सर्वदा ते । यः प्राप्येताश्रितशमदमैः संयमे स्वात्मरूपः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५४॥ नाशापाशाकुलितमनसां भासते यत्प्रभावो- ऽप्यात्माधारं निखिलकरणं नेक्षते यं परात्त्वात् । जानन्तेऽन्ये क्वचन समये यन्मयानेव सर्वान् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५५॥ प्राणापानौ गलितगमनौ यत्र यत्रान्तरङ्गं निर्व्यासङ्गं निखिलकरणं यत्र लुप्तप्रमाणम् । तत्रासीना ददृशुरपरे भासुरान्यत्प्रसादान् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५६॥ किं नीहारः किममृतकरः किं रविः किं नु धूमः किं खद्योतः किमु हुतवहः किं तटित् किं नु हीरः । इत्युल्लेख्यो भवति यमिभिर्यत्प्रसादः समाधौ प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५७॥ मूलाधारे हृदि मणिपुरे स्वास्पदे तालुमूले चेतस्स्थाने ध्रुवशशिगृहे नैकधा सिद्धिलुब्धाः । यं कुर्वन्तः सपदि कृतिनः स्वेप्सितान्याप्नुवन्ति प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५८॥ ब्राह्मीं ग्रन्थिं प्रथममथ तां वैष्णवीं तां च रौद्रीं भित्त्वा केचिन्नियतमरुदाबद्धचेतश्शलाक्या । प्रौढोन्मन्न्यास्सुरतसमये यत्स्वरूपा भवन्ति प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ५९॥ मुग्धस्मेराननकमलया नागराजन्यपुत्र्या सौधे ज्योत्स्नास्फुरणविशदे निर्भयं केऽपि रन्त्वा । पादाब्जीयां मधुरमधुरां यस्य माध्वीं पिबन्ति प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६०॥ उत्तिष्ठन्त्यामुरगयुवतौ मञ्जुमञ्जीरनादं मन्दं मन्दं मुखसरसिजं मुक्तिमादर्शयन्तीम् । आलिङ्गन्तं सुलभमितरे यत्कृपापाङ्गसङ्गात् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६१॥ प्राज्ये राज्ये कलितहृदयाः केऽपि केऽप्यध्वराज्ये योगैश्वर्ये कतिचन निजावाप्तिसौख्येऽपि केऽपि । संप्राप्तेष्टास्सपदि सकला यत्कृपापाङ्गसङ्गात् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६२॥ तारं तारं भवजलनिधेर्यन्मनोरग्रभागे निक्षिप्यान्ये शरवणभवेत्यन्तरेवालपन्तः । आलिङ्गन्ते स्वयमुपनतां मुक्तिकान्तां प्रसन्नां प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६३॥ मायानूरुर्मनुवररविर्देशिकेन्द्रो दयाद्रेः उद्यन्नेनस्तिमिरपटलीं शोचयन्शोकघूकान् । यस्यानन्दं दिशति परमं भक्तकोकावलीनां प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशन्त्यै ॥ ६४॥ यन्मन्त्रस्यामरपुरतरोः काममूलस्य मूले तिष्ठन्तो ये निखिलतरुणीनेत्रनीलोत्पलानाम् । जायन्ते तेऽप्यमृतरुचयो मूर्तिमन्तश्च कामाः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६५॥ वागास्वाद्या मनुनवसुधा लिह्यते यैर्यदीया तेषां वक्त्राद्वहति कविताकैतवात्स्वः स्रवन्ती । किञ्चाशेषं भुवनमयते दासतामीक्ष्यमाणं प्रेमसारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६६॥ यन्मन्त्रेन्दुर्जलधितनयाज्योयोत्स्नया द्योत्यमानः चित्ताकाशे स्फुरति विमले यस्य तस्योत्तमस्य । आपत्तापः प्रशममयते वृद्धिमामोदसिन्धुः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६७॥ मन्त्राकाराममरतटिनीं चन्द्रशैलाद्वहन्तीं यस्याचार्यप्रसृमरकृपासारपीयूषपूराम् । दिष्ट्या दृष्ट्या जगति विषयीकुर्वतां क्वाभितापाः प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६८॥ त्रेधा साध्यं ज्वलनललनावर्मपाशाङ्कुशादीन् शिष्टादिष्टे वपुषि विदधन् यन्मनोः कामधेनोः । दुग्धं दुग्धं पिबति कुशलं स्वेष्टमायासशूण्यं प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ६९॥ षट्त्रिंशारैस्सहितमनुभिर्नागपत्रैस्सवीरैः साङ्भिः पर्णैः सकमलवरास्त्रादिभिर्वृत्तभौमैः । युक्तं यन्त्रं दिशति भजतां यस्य सर्वान्पुमर्थान् प्रेमासारः परमशिवयोः सोऽस्तु नस्तापशान्त्यै ॥ ७०॥ नाकाधीशविरोधिवामनयना कोकवळीविस्फुर- च्छोकाम्भोनिधिशारदाभ्रविलसद्राकानिशानायकम् । केकामञ्जुलपक्षिपुङ्गवरथं पाकारिजाकामुकं प्राकारं दृढमाश्रये दिविषदामेकाक्षरार्थं परम् ॥ ७१॥ पाराशर्यवचः प्रपञ्चतटिनीपूरात्मकेळीलवो दूरान्मुक्तशरप्रवाहशमितक्रूरासुरोषर्बुधः । मारारातिवधूशुभोदरसुधावाराशिचिन्तामणिः घोरा दुःखपरम्पराः शमयतु स्मेरामृतैरद्य नः ॥ ७२॥ शेषाद्रीश्वरमौळिकेलिसदना भाषाधिदेव्युल्लसद्- भाषा भूतगणामरारिपरिषद्द्वेषा परा देवता । एषास्तां मम मानसे शिवशिवोन्मेषा तुराषाड्भवेद्- योषा लिङ्गितविग्रहा प्रतिदिनं तोषाय भूषा श्रुतेः ॥ ७३॥ कान्त्या न्यक्कृतबालभानुसुमुखः शात्न्यादिभिस्सेवितः क्षान्त्या काचन भूमिरेव भजतां भ्रान्त्यापदिध्मानलः । भान्त्या व्याजकृपारसैरभिमुखं यान्त्या दृशां मादृशां हन्त्याधीन्यदसौ किमन्यदिह नो मान्त्यालमिन्द्रश्रिया ॥ ७४॥ भीमारातिवनानलस्सुरपुरीरामाभिरामाकृतिः सामाभिष्टुतपादपद्मविभवस्सीमा दयासम्पदाम् । सोमानन्दकरः परं सुमनसां क्षेमावहप्रक्रियः कामानेष तनोतु नः प्रतिदिनं प्रेमालसैर्वीक्षणैः ॥ ७५॥ आदावाहितचेतसामनुदिनं वेदावलीनां सतां नादाविष्करणक्षणे प्रकटयन्पादारुणं पावनम् । खेदान् खण्डयति स्म योऽतिविषमान् भेदान्धकारोदितान् श्रीदाकाङ्क्षितसम्पदं दिशतु मे मोदाकरः शूलिनः ॥ ७६॥ नेता धर्मपथे सदैव चरतां जेतान्यथावर्तिनां केतावाहितकुक्कुटः प्रतिरणं वेताळसङ्घस्तुतः । आताम्रैर्नयनाञ्चलैर्यदि स मां शीतांशुबिम्बस्पृशैः प्रीतान्तः करणो निरीक्षितुमहं क्रेतास्मि शक्रश्रियाम् ॥ ७७॥ हेलाभर्जितसर्वलोकदितिभूहालाहलेनाङ्गुली- लीलाभिः शिवयोः प्रमोदजलधेर्वेलावलीं प्लावयन् । ज्वालाजालजटालशक्तिविलसत्सालाभभास्वद्भुजः खेलां नः पुरतस्तनोतु सुरराड्बालाविलोलान्तरः ॥ ७८॥ रम्भादिस्फुरदाभिरूप्यविलसद्दम्भावलोपिप्रभा- जम्भारातिसुताघनस्तनपरीरम्भावगाढोरसे । स्तम्भायाखिलविष्टपस्य कुशलारम्भाय नाकौकसां शुम्भादित्रिदशारितूलहुतभुग्डिम्भाय भूयो नमः ॥ ७९॥ क्षुद्राणां दनुजन्मनां च विनताभद्रावलीनामपि छिद्राण्यप्रतिलभ्य बालकतया विद्रावणे दीक्षितः । रुद्राणीस्तननूतनामृतघटीमुद्रायितौष्ठाधरः निद्रां द्रावयतान्ममाद्य बहुधाऽभद्रां स रुद्रात्मजः ॥ ८०॥ भासा सारसबान्धवं नयसुधाकासारमेवाशये नासाप्रीणनसायकं तनुरुचा दासायिताशाधिपम् । या सानन्दमपेक्षते न रहसे का सात्र सोऽस्मन्मनो- वासायाद्य कृतादरो वयमतः कासां श्रियां नाश्रयाः ॥ ८१॥ गङ्गाविश्रुत कर्मनर्मसचिवापाङ्गामृतोर्मिच्छटा- सङ्गामृष्टविशिष्टजनतातुङ्गाघसङ्घानलम् । श‍ृङ्गारोज्ज्वलकेलिसंहतिनटीरङ्गायितेन्द्रात्मजा- नङ्गाद्वैतमुपास्महे वयममी भङ्गाय तुङ्गापदाम् ॥ ८२॥ शान्तान्तःकरणालये वृषसुताकान्ताभिरूप्ये कृपा- क्रान्तान्दोलितशोणलोचनदळप्रान्तावधूतापदि । स्वान्तान्यादधते न ये शिवसुते भ्रान्तास्तु ते संशय- श्रान्ताः सन्तु पदे पदे भवपथे किं तावता नः क्षतिः ॥ ८३॥ स्वेक्षाधीनचराचरोदयलयो लाक्षासदृक्षच्छविः साक्षान्निर्जरकाननक्षितिरुहः प्रेक्षावतां काङ्क्षितः । दीक्षामद्य दधातु दातुमति मे द्राक्षासदृक्षां गिरं रूक्षामाधिविजृम्भितां शमयितुं दाक्षायणीनन्दनः ॥ ८४॥ वाचातीतपदाम्बुजातविभवं प्राचामृषीणां पुनः नीचारिव्रजजीर्णपर्णदहनं खेचारिकेलीरथम् । मोचामर्मकृषा मनोज्ञवचसा याचामहे कं वरं धीचाञ्चल्यमपाकरोतु जगतामाचार्यवर्यो मम ॥ ८५॥ संसारामयभेषजं शमदमाहिंसापराराधितं हंसालङ्कृतकोमलश्रुतिशिरोत्तंसाङ्घ्रिपाथोरुहम् । पुंसानादिमता प्रकाशितभुजाशंसापदानक्रमं कंसारातिसुताकपोलरुचिरोच्चांसाग्रमाराध्रुमः ॥ ८६॥ शम्पासित्रिशिखादिभूषितभुजव्यापारतुष्टामर- स्त्रीपाण्यब्जविकीर्णकल्पकुसुमश्रीपाटलाङ्गद्युतिः । पापात्मानुपलभ्य दिव्यनगरीभूपात्मजाकामुकः तापान्नस्समपाकरोतु महितैः श्रीपादपद्मामृतैः ॥ ८७॥ बाहासञ्जिततीक्ष्णहेतिरुचिभिः स्वाहासहायो मुहुः हाहाङ्गीकृतवन्दिभावसरणिर्वाहायिताखण्डलः । नीहाराद्रिसुतात्मजो दिविषदां साहाय्यकारी मृधे दाहानाशु धुनोतु नस्सुमनसामाहाररीत्या गिरा ॥ ८८॥ ईशानाङ्कमनोज्ञसौधममितक्लेशान्धकारारुणं कोशागारमपेक्षितार्थविततेः पाशायुधाराधितम् । काशाच्छस्मितचूर्णमोहितहृषीकेशात्मजालोलुपं धीशान्त्यादि शुभाय सर्वविपदां नाशाय चाशास्महे ॥ ८९॥ अङ्के कल्पितदेवराजतनयं लङ्केशदर्पच्छिदं सङ्केतालयमादिवाङ्मृगदृशां पङ्केरुहं पादयोः । कङ्केलिद्रुमकुञ्जकेलिसदनं तं केशवानन्दनं किं केल्या नमतां च मुक्तिरिति चेच्छङ्केऽनलश्शीतलः ॥ ९०॥ सम्पातेन निजायुधस्य विलसच्छम्पासनाभेर्जग- त्किम्पाकं कलयन्तमन्तकसभासम्पातुकं तारकम् । कम्पाक्रान्तधिया न धर्तुमनिशं यं पारयन्ते जनाः तं पारे तमसां स्थितं कलयतां किं पामरैः पार्थिवैः ॥ ९१॥ गत्या शिक्षितदृप्तसिंहगमनैः शक्त्या स्फुरद्बाहुभिः प्रीत्या पोषितभक्तलोकनिवहैः श्रुत्यात्तबन्दिक्रमैः । रत्याप्तैर्निजकान्तिभिः कतिपयैरेत्यात्र यद्भूयते तत्या किं मम साम्प्रतं दिविषदां भूत्याणिमाद्यापि च ॥ ९२॥ कालं दैवतविद्विषां गलवलन्मालं सुरेन्द्रात्मजा- लोलं शक्तिशिखाविदारितमहाशैलं दिवश्चारिणाम् । सालं पादरुचाहताश्रुततमोजालं भवेद्रक्षितुं कोऽलं नो जगतां त्रयेऽपि च परो बालं विना शूलिनः ॥ ९३॥ धर्मान्तध्वनदभ्रविभ्रमधनुश्चर्मासिभास्वद्भुजो वर्मालङ्कृतविग्रहः प्रतिदिनं शर्मापहो विद्विषाम् । धर्माद्यर्थशुभालयो मुनिमनोभर्मासनाधिष्ठितो नर्माणि प्रतिपद्यतां मनसि मे मर्मादिवाक्सन्ततेः ॥ ९४॥ स्वर्वासिश्रमश‍ृङ्खलाः शिथिलयन्सर्वाश्च शर्वाज्ञया कुर्वाणो विपदः प्रकाममवनीगीर्वाणविद्वेषिणाम् । अर्वाचीनवचस्सुदूरमहिमा दुर्वाससाभ्यर्चितो गुर्वाज्ञावशवर्तिनो हरतु मे दुर्वारदुर्वासनाः ॥ ९५॥ शिष्टानां विशिनष्टि तुष्टिममितां कष्टानि नष्टं नय- त्यष्टाङ्गस्य पुरस्तनोति नयनाभीष्टान् शिशुत्वक्रमान् । क्लिष्टाक्लिष्टगतीः पिनष्टि मनसस्तुष्टात्मनां संयमे स्पष्टास्पष्टगिराद्य तेन शिशुना नष्टाखिलापन्मम ॥ ९६॥ आधाराम्बुजमध्यकेलिसदनो बाधावहोऽहङ्कृतेः बोधानन्दविवर्तभासुरतनुर्मेऽधिमूर्धं ज्वलन् । राधावल्लभमानितात्मविभवोऽगाधां विधत्तां श्रियं क्रोधाधेर्विजयं शचीप्रियतमासाधारणीं च प्रथाम् ॥ ९७॥ गाढाभ्यासविनिद्रितोरगसुतालीढानिलानां सतां गूढावासमुपेत्य चेतसि परं सोढा समस्तैनसाम् । बाढाज्ञानपिशाचिकावृतमहामूढात्मनां दुर्लभः षोढास्याम्बुरुहश्शुभानि जगतां वोढा विधत्तां मम ॥ ९८॥ आगोपालविधातृतुल्यविभवे यागोपगेयप्रथे वेगोद्भिन्नपुनर्भवाङ्कुरमहायोगोपसर्गापदि । रोगोत्सिक्तजनानवाप्य चरणेनागोपगीतात्मजे भूगोळेऽभिरतिं न को नु कलयेद्रोगो न चेद्राजसः ॥ ९९॥ ओष्ठासञ्जितलोचनाय दिविजश्रेष्ठात्मजाया जग- ज्ज्येष्ठानङ्गविवर्तविग्रहवते प्रेष्ठाय शिष्टावने । गोष्ठायादिगवां ततेर्भुवनवर्षिष्ठाय सभ्यान्तरे निष्ठायाश्रितलोचनाब्जयुगनेदिष्ठाय कुर्मोऽञ्जलिम् ॥ १००॥ सीम्ने सद्गुणसम्पदां नवमणीधाम्ने श्रितापद्द्विष- न्नाम्ने शासितदैवतारिपरिषत्स्थेम्ने च हेम्ने श्रिया । व्योम्ने चिद्विमलाय सर्वजगतां धाम्ने निकेतीभव- त्साम्नेऽनादिकुटुम्बिभाग्यलहरीभूम्ने परस्मै नमः ॥ १०१॥ परयुवतिरतं मां शङ्कयित्वाऽप्युदासे तदपि मदवनं ते साम्प्रतं साम्प्रतं हि । त्यजति गुरुकलत्रव्यापृतं त्वत्पिता किं विमलकमलसम्पद्द्रोहिणं रोहिणीशम् ॥ १०२॥ परधनापहृतौ यतमाने नोचिता मयि तवेयमुपेक्षा । विस्मृतं किमु हिरण्यहरत्वं तत्त्वया तव विभोः श्वशुरस्य ॥ १०३॥ अहिंसकानामिह हिंसकोऽपि न तेऽच्छिदं ब्रह्मशिरः पितेव । अतीव लुब्धं किमुपेक्षते मां लुब्धात्मजा सापि तवाङ्कसंस्था ॥ १०४॥ मलिनसङ्गतिदूषितमेव मां किमु विलोकयितुं परिशङ्कसे । न हि भवानिव भूतपिशाचिकासदसि सन्ततमासितुमुत्सहे ॥ १०५॥ निष्किञ्चनोऽयमिति किं ननु मय्युदासे भिक्षाशनस्तव पिता भगवंस्तदास्ताम् । त्वं चापि भैक्षमटसि प्रकटं फलिन्यां तन्मां भजस्व सदृशी खलु बन्धुता नौ ॥ १०६॥ परिपालयितुं तवाभिकाङ्क्षा यदि दृप्तान्कृपणोत्तमाग्रवृत्त्या । किमु कीर्तिरितस्तवाप्यपूर्वा विमला दीनदयालुतोपक्लृप्ता ॥ १०७॥ अङ्गीकृतं मृगशिशुं न शशी जहाति फालं तपन्तमपि नो दहनं त्रिणेत्रः । आशीविषं च विषमं न हि शेषशायी तीक्ष्णस्वभावमपि मां न जहीहि पाल्यम् ॥ १०८॥ कण्ठे गडुर्भवति यच्छरदिन्दुकान्तेः अर्धासनं भजति यत्सुरभोज्यलक्ष्म्याः । आचार्यतां भजति यन्नवमल्लिकानां आनन्दमावहति ते स्मितमेव तन्नः ॥ १०९॥ अथवा क्षणिकाचलालवालो गुणपुष्पः परिसेवितो द्विजेन्द्रैः । श्रुतिमुग्धलताञ्चितोऽङ्घ्रिशाखी तव दिव्यः फलतीप्सितं ममैषः ॥ ११०॥ किं वा विपदि विधेयं ध्येयं ते ध्यातृमङ्गलं चरणम् । सम्पदि किं करणीयं भूयो भूयोऽपरोक्षणीयं तत् ॥ १११॥ बद्धादराः श्रितविपत्परितापशान्त्यै दुग्धाब्धिगर्भभरितामृतवीचिवन्द्याः । मुग्धाब्जजन्मविफलीकरणस्वभावाः श्रद्धालवोऽवितुममी तव मां कटाक्षाः ॥ ११२॥ अमृतमिव सुराणां ब्राह्मणानां त्रयीव प्रणव इव यतीनां योगिनामुन्मनीव । श्रुतिपथपथिकस्य श्रीमदेकं निदानं मम तु किमपि लब्धं लुब्धकन्याभिलुब्धम् ॥ ११३॥ पातय वा घातय वा पालय वा समवलोक्य लालय वा । लब्धं तव पदयुग्मं नाहं मुञ्चामि नापि दुर्वृत्तीः ॥ ११४॥ नमो नमस्ते नगदम्भभेदिन् नमो नमस्ते निगमान्तचारिन् । नमो नमस्ते खगराजयायिन् नमो नमस्ते भगवन् परात्मन् ॥ ११५॥ श्रीशङ्करात्मजगुणगणग्रथिता तदीय- पादारविन्दमकरन्दकणावसिक्ता । मोदावहा भवतु सज्जनषट्पदानां गोपालकृष्णकविवाक् सुरपुष्पमाला ॥ ११६॥ इति श्रीगोपालकृष्णकविविरचितं श्रीसुब्रह्मण्यकर्णामृतं सम्पूर्णम् ।