अक्षर आकार:

श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तुतिः

Shri Subrahmanyabhujangaprayatastutih

श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तुतिः

श्रीकार्तिकेयक्षेत्रे - (तिरुच्चेन्दूरपरनामके) महेशाननाब्जार्कमर्धेन्दुफालं महाविघ्नवाराशिकुम्भप्रभूतम् । महेन्द्रादिसेव्यं प्रणम्रान्तरङ्गं महापापदाहं महेभास्यमीडे ॥ १॥ अपस्मारमुख्यान्क्षणाद्रोगवर्यान् हरन्तं नतानां निजाङ्घ्रिप्रणामात् । भजे सूनुमाद्यस्य वैद्यस्य शम्भोरबोधामयस्य प्रशान्त्यर्थमारात् ॥ २॥ अवज्ञाय खेलां चरन्तं कुमारं महेशं प्रणन्तुं विधिः सम्भ्रमेण । गतोऽन्तः पुनर्निष्क्रमन्येन कारागृहं प्रापितस्तं भजे तारकारिम् ॥ ३॥ कथं चन्द्रतुल्यं मुखं ते वदामः कलङ्केन हीनं तथा कृष्णपक्षे । क्षयेनापि नम्रान्तरध्वान्तभेदात्ततस्तद्विशिष्टं गुहेशानसूनो ॥ ४॥ कदाहं निरीहो हृदम्भोजमध्ये पयोजाभये कुक्कुटं शक्तिवर्यम् । करैः सन्दधानं सदा वीक्षमाणो मुदं पारशून्यां भजे कार्तिकेय ॥ ५॥ विवेकं विरक्तिं शमादेश्च षट्कं मुमुक्षां च सम्प्राप्य कृत्वा विचारम् । दृढं बोधमाप्स्ये कदा वेदशीर्षैः कृपां कुर्वनाथे मयीशानसूनो ॥ ६॥ जनन्याः प्रसूतेः स्थलं वासभूमिः पितुश्चेति शैलं न जह्यां कदापि । इतीवानतालेः प्रबोधाय शैले वसन्तं सदा पार्वतीपुत्रमीडे ॥ ७॥ जनानां शयानं सदा हृद्बिले तं भुजङ्गं मनःसंज्ञमारान्निहन्तुम् । मयूरं भुजगस्य भोक्तारमास्ते समारुह्य नित्यं भवाञ्छम्भुसूनो ॥ ८॥ नतानामभीष्टानि दातुं विचित्राण्यलं शक्तिरस्तीति सम्बोधनाय । अजस्रं वहन्तं करे शक्तिमीडे पराशक्तिपुत्रं कृपावारिराशिम् ॥ ९॥ निवार्याशु रोगान्समस्तान्त्यभक्तान् कृपापाङ्गलेशैः सदा पालयन्तम् । सदारं सवाहं सभृत्यं सशिष्यं सदा भावये षण्मुखं हृत्सरोजे ॥ १०॥ पुरा तारकं सिंहवक्त्रं च शूरं जघानाजिमध्ये सुराणां कृते यः । महेशात्मजं ह्यौरसं भक्तवश्यं पुलिन्दात्मजास्वान्तचोरं भजेऽहम् ॥ ११॥ महेशस्य पञ्चाननस्याम्बिकाया मुखानां प्रमोदं निजास्ये क्षणाद्यः । प्रदातुं षडास्यो बभूवैकदा तं गुहं गन्धशैलाधिवासं भजेऽहम् ॥ १२॥ मुखेनाब्जमिन्दुं स्मितेन म्रदिम्ना करस्य प्रवालं गतेनेभराजम् । हसन्तं हरिन्नाथसंसेविताङ्घ्रिं सदा मानसे कुर्महे कार्तिकेयम् ॥ १३॥ यमाहुर्जनाः प्राकृता देहमात्रं हृषीकाणि केचिज्जगुश्चित्तमन्ये । तमात्मानमानन्दसच्चित्त्बरूपं सदा भावये पार्वतीप्रेमपात्रम् ॥ १४॥ यमिच्छन्ति वेत्तुं मखैर्वेदपाठैस्तथा दानतश्चोपवासैश्च विप्राः । तमत्यन्तगूढं मयूराधिरूढं भजे नीलकण्ठस्य पुत्रं पवित्रम् ॥ १५॥ विबोधाख्यमुद्रायुतस्यात्मयोनेर्वियोगो न मे जातु भूयादितीव । समुद्रस्य तीरे निवासं सदा यः करोत्यादरात्तं गुहं संश्रयेऽहम् ॥ १६॥ सुरारिष्वजस्रं शराणां प्रमोक्षं विधातुं शराणां वने यो बभूव । सुरारात्यमित्रं पुरारातिपुत्रं सुरेन्द्रात्मजाप्राणकान्तं भजे तम् ॥ १७॥ विधातुं स्तुतिं ते विधीन्द्रेशमुख्या न शक्ताः किमत्रास्ति सामर्थ्यमस्य । तथाप्यादराच्चित्तचाञ्चल्यतो वा कृतं मत्प्रयत्नं सहस्वेशसूनो ॥ १८॥ भुजङ्गाख्यवृत्तेन क्लृप्तां स्तुतिं ये पठन्त्यादराच्छ्रद्धया शुद्धचित्ताः । सुपुत्रायुरारोग्यविद्यावतस्तान् कुरुष्वेशसूनो मया प्रार्थितस्त्वम् ॥ १९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीसुग्रह्मण्यभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।