अक्षर आकार:

श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः

Shri Subrahmanya Shodashakshara Mantra

श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यषोडशाक्षरमहामन्त्रस्य, अमृताकर्षणदक्षिणामूर्तिः ऋषिः । गायत्री छन्दः । प्रसन्नस्कन्दो देवता । सौं बीजं, ह्रीं शक्तिः, श्रीकीलकम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः - शरवणभव परावराय ब्रह्ममयाय विद्यादेहाय - अङ्गुष्ठाभ्यां नमः । रवणभवश ब्रह्मचर्याय - तर्जनीभ्यां नमः । वणभवशर स्कन्दस्वामिने कुमाराय - मध्यमाभ्यां नमः । णभवशरव ब्रह्मतेजोमयाय - अनामिकाभ्यां नमः । भवशरवण द्वादशनेत्राय कनिष्ठिकाभ्यां नमः । वशरवणभ ब्रह्मरुद्रतेजोमयाय करतलकरपृष्ठाभ्यां नमः । ऋष्यादिन्यासः - ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि । जगतीच्छान्दसे नमो मुखे । श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये । ह्रीं बीजाय नमो गुह्ये । ह्सौं शक्तये नमः स्तनयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ (मूलेन करौ संशोध्य) अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम्- सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं सर्वाङ्गतेजोमयं सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम् ॥ शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् । दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥ (लमित्यादि पञ्चपूजा -) मूलमन्त्रः - ॐ सौं श्रीं ह्रीं क्लीं एं नं ळं शरवणभवाय नमः । (जपान्ते हृदयादिन्यास दिग्विमोक -ध्यान -लमित्यादि पूजा - At the end of japa repeat hRidayAdi nyAsaH) जपसमर्पणानि । इति श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः सम्पूर्णः ।