अक्षर आकार:

श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

shrI subrahmaNyAShTottarashatanAmastotram

श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

स्कंदोगुह षण्मुखश्च फालनेत्रसुतः प्रभुः । पिंगलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ १॥ द्विषण्णेत्रश्शक्तिधरः पिशिताशा प्रभंजनः । तारकासुरसंहारि रक्षोबलविमर्दनः ॥ २॥ मत्तः प्रमत्तोन्मत्तश्च सुरसैन्य सुरक्षकः । देवसेनापतिः प्राज्ञः कृपालो भक्तवत्सलः ॥ ३॥ उमासुतश्शक्तिधरः कुमारः क्रौंचधारिणः । सेनानीरग्निजन्मा च विशाखश्शंकरात्मजः ॥ ४॥ शिवस्वामि गणस्वामि सर्वस्वामि सनातनः । अनंतमूर्तिरक्षोभ्यः पार्वती प्रियनंदनः ॥ ५॥ गंगासुतश्शरोद्भूत आहूतः पावकात्मजः । जॄंभः प्रजॄंभः उज्जॄंभः कमलासन संस्तुतः ॥ ६॥ एकवर्णो द्विवर्णश्च त्रिवर्णस्सुमनोहरः । चतुर्वर्णः पंचवर्णः प्रजापतिरहह्पतिः ॥ ७॥ अग्निगर्भश्शमीगर्भो विश्वरेतास्सुरारिहा । हरिद्वर्णश्शुभकरो वटुश्च पटुवेषभृत् ॥ ८॥ पूषागभस्तिर्गहनो चंद्रवर्ण कलाधरः । मायाधरो महामायी कैवल्य श्शंकरात्मजः ॥ ९॥ विश्वयोनिरमेयात्मा तेजोयोनिरनामयः । परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥ १०॥ पुलिंद कन्याभर्ताच महासारस्वतवृतः । अश्रिताखिलदाताच चोरघ्नो रोगनाशनः ॥ ११॥ अनंतमूर्तिरानंदश्शिखंडीकृतकेतनः । डंभः परमडंभश्च महाडंभोवृषाकपिः ॥ १२॥ कारणोत्पत्तिदेहश्च कारणातीत विग्रहः । अनीश्वरोऽमृतःप्राणः प्राणायाम परायणः ॥ १३॥ विरुद्धहंत वीरघ्नो रक्तश्यामगलोऽपिच । सुब्रह्मण्यो गुहप्रीतः ब्रह्मण्यो ब्राह्मणप्रियः ॥ १४॥ । इति श्री सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।