अक्षर आकार:

श्रीसुब्रह्मण्याष्टकम् अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रम्

Shri SubrahmaNyAShTakam or shrIsubrahmaNya karAvalambastotram

श्रीसुब्रह्मण्याष्टकम् अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रम्

हे स्वामिनाथ! करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥ देवाधिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥ नित्यान्नदाननिरताखिलरोगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम । श‍ृत्यागमप्रणववाच्यनिजस्वरूप वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥ क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल- चापादिशस्त्रपरिमण्डितदिव्यपाणे । var पाशादिशस्त्र श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह var धृततुण्ड वल्लीशनाथ मम देहि करावलम्बम् ॥ ४॥ देवाधिदेवरथमण्डलमध्यवेऽद्य देवेन्द्रपीठनकरं दृढचापहस्तम् । शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीशनाथ मम देहि करावलम्बम् ॥ ५॥ हारादिरत्नमणियुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिरामम् । हे वीर तारकजयामरवृन्दवन्द्य वल्लीशनाथ मम देहि करावलम्बम् ॥ ६॥ पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः । पट्टाभिषिक्तहरियुक्त परासनाथ वल्लीशनाथ मम देहि करावलम्बम् ॥ ७॥ श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तम् । सिक्त्वा तु मामव कलाधरकान्तिकान्त्या वल्लीशनाथ मम देहि करावलम्बम् ॥ ८॥ सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः । ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥ सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ ॥ इति श्रीसुब्रह्मण्याष्टकं अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥ vallIsha is same as vallIsa as found in some prints. granthanidhi