अक्षर आकार:

श्रीसुब्रह्मण्यभुजङ्गस्तोत्रम् ३

shrI subrahmaNyabhuja~NgastotraM 3

श्रीसुब्रह्मण्यभुजङ्गस्तोत्रम् ३

गणेशं नमस्कृत्य गौरीकुमारं गजास्यं गुहस्याग्रजातं गभीरम् । प्रलम्बोदरं शूर्पकर्णं त्रिणेत्रं प्रवक्ष्ये भुजङ्गप्रयातं गुहस्य ॥ १॥ पृथक्षट्किरीटस्फुरद्दिव्यरत्न- प्रभाक्षिप्तमार्ताण्डकोटिप्रकाशम् । चलत्कुण्डलोद्यत्सुगण्डस्थलान्तं महानर्घहारोज्ज्वलत्कम्बुकण्ठम् ॥ २॥ शरत्पूर्णचन्द्रप्रभाचारुवक्त्रं विराजल्ललाटं कृपापूर्णनेत्रम् । लसद्भ्रूसुनासापुटं विद्रुमोष्ठं सुदन्तावलिं सुस्मितं प्रेमपूर्णम् ॥ ३॥ द्विषड्बाहुदण्डाग्रदेदीप्यमानं क्वणत्कङ्कणालङ्कृतोदारहस्तम् । लसन्मुद्रिकारत्नराजत्कराग्रं क्वणत्किङ्किणीरम्यकाञ्चीकलापम् ॥ ४॥ विशालोदरं विस्फुरत्पूर्णकुक्षिं कटौ स्वर्णसूत्रं तटिद्वर्णगात्रम् । सुलावण्यनाभीसरस्तीरराजत्- सुशौवालरोमावलीरोचमानम् ॥ ५॥ सुकल्लोलवीचीवलीरोचमानं लसन्मध्यसुस्निग्धवासो वसानम् । स्फुरच्चारुदिव्योरुजङ्घासुगुल्फं विकस्वत्पदाब्जं नखेन्दुप्रभाढ्यम् ॥ ६॥ द्विषट्पङ्कजाक्षं महाशक्तियुक्तं त्रिलोकप्रशस्तं सुशिक्के पुरस्थम् । प्रपन्नार्तिनाशं प्रसन्नं फणीशं परब्रह्मरूपं प्रकाशं परेशम् ॥ ७॥ कुमारं वरेण्यं शरण्यं सुपुण्यं सुलावण्यपण्यं सुरेशानुवर्ण्यम् । लसत्पूर्णकारुण्यलक्ष्मीशगण्यं सुकारुण्यमार्याग्रगण्यं नमामि ॥ ८॥ स्फुरद्रत्नपीठोपरि भ्राजमानं हृदम्भोजमध्ये महासन्निधानम् । समावृत्तजानुप्रभाशोभमानं सुरैः सेव्यमानं भजे बर्हियानम् ॥ ९॥ ज्वलच्चारुचामीकरादर्शपूर्णं चलच्चामरच्छत्रचित्रध्वजाढ्यम् । सुवर्णामलान्दोलिकामध्यसंस्थं महाहीन्द्ररूपं भजे सुप्रतापम् ॥ १०॥ धनुर्बाणचक्राभयं वज्रखेटं त्रिशूलासिपाशाङ्कुशाभीतिशङ्खम् । ज्वलत्कुक्कुटं प्रोल्लसद्द्वादशाक्षं प्रशस्तायुधं षण्मुखं तं भजेऽहम् ॥ ११॥ स्फुरच्चारुगण्डं द्विषड्बाहुदण्डं श्रितामर्त्यषण्डं सुसम्पत्करण्डम् । द्विषद्वंशखण्डं सदा दानशौण्डं भवप्रेमपिण्डं भजे सुप्रचण्डम् ॥ १२॥ सदा दीनपक्षं सुरद्विड्विपक्षं सुमृष्टान्नभक्ष्यप्रदानैकदक्षम् । श्रितामर्त्यवृक्षं महादैत्यशिक्षं बहुक्षीणपक्षं भजे द्वादशाक्षम् ॥ १३॥ त्रिमूर्तिस्वरूपं त्रयीसत्कलापं त्रिलोकाधिनाथं त्रिणेत्रात्मजातम् । त्रिशक्त्या प्रयुक्तं सुपुण्यप्रशस्तं त्रिकालज्ञमिष्टार्थदं तं भजेऽहम् ॥ १४॥ विराजद्भुजङ्गं विशालोत्तमाङ्गं विशुद्धात्मसङ्गं विवृद्धप्रसङ्गम् । विचिन्त्यं शुभाङ्गं विकृत्तासुराङ्गं भवव्याधिभङ्गं भजे कुक्कलिङ्गम् ॥ १५॥ गुह स्कन्द गाङ्गेय गौरीसुतेश- प्रिय क्रौञ्चभित्तारकारे सुरेश । मयूरासनाशेषदोषप्रणाश प्रसीद प्रसीद प्रभो चित्प्रकाश ॥ १६॥ लपन् देवसेनेश भूतेश शेष- स्वरूपाग्निभूः कार्तिकेयान्नदातः । यदेत्थं स्मरिष्यामि भक्त्या भवन्तं तदा मे षडास्य प्रसीद प्रसीद ॥ १७॥ भुजे शौर्यधैर्यं करे दानधर्मः कटाक्षेऽतिशान्तिः षडास्येषु हास्यम् । हृदब्जे दया यस्य तं देवमन्यं कुमारान्न जाने न जाने न जाने ॥ १८॥ महीनिर्जरेशान्महानृत्यतोषात् । विहङ्गाधिरूढाद्बिलान्तर्विगूढात् । महेशात्मजातान्महाभोगिनाथात् गुहाद्दैवमन्यन्न मन्ये न मन्ये ॥ १९॥ सुरोत्तुङ्गश‍ृङ्गारसङ्गीतपूर्ण- प्रसङ्गप्रियासङ्गसम्मोहनाङ्ग । भुजङ्गेश भूतेश भृङ्गेश तुभ्यं नमः कुक्कलिङ्गाय तस्मै नमस्ते ॥ २०॥ नमः कालकण्ठप्ररूढाय तस्मै नमो नीकलण्ठाधिरूढाय तस्मै । नमः प्रोल्लसच्चारुचूडाय तस्मै नमो दिव्यरूपाय शान्ताय तस्मै ॥ २१॥ नमस्ते नमः पार्वतीनन्दनाय स्फुरच्चित्रबर्हीकृतस्यन्दनाय । नमश्चर्चिताङ्गोज्ज्वलच्चन्दनाय प्रविच्छेदितप्राणभृद्बन्धनाय ॥ २२॥ नमस्ते नमस्ते जगत्पावनात्त- स्वरूपाय तस्मै जगज्जीवनाय । नमस्ते नमस्ते जगद्वन्दिताय ह्यरूपाय तस्मै जगन्मोहनाय ॥ २३॥ नमस्ते नमस्ते नमः क्रौञ्चभेत्त्रे नमस्ते नमस्ते नमो विश्वकर्त्रे । नमस्ते नमस्ते नमो विश्वगोप्त्रे नमस्ते नमस्ते नमो विश्वहन्त्रे ॥ २४॥ नमस्ते नमस्ते नमो विश्वभर्त्रे नमस्ते नमस्ते नमो विश्वधात्रे । नमस्ते नमस्ते नमो विश्वनेत्रे नमस्ते नमस्ते नमो विश्वशास्त्रे ॥ २५॥ नमस्ते नमश्शेषरूपाय तुभ्यं नमस्ते नमो दिव्यचापाय तुभ्यम् । नमस्ते नमः सत्प्रतापाय तुभ्यं नमस्ते नमः सत्कलापाय तुभ्यम् ॥ २६॥ नमस्ते नमः सत्किरीटाय तुभ्यं नमस्ते नमः स्वर्णपीठाय तुभ्यम् । नमस्ते नमः सल्ललाटाय तुभ्यं नमस्ते नमो दिव्यरूपाय तुभ्यम् ॥ २७॥ नमस्ते नमो लोकरक्षाय तुभ्यं नमस्ते नमो दीनरक्षाय तुभ्यम् । नमस्ते नमो दैत्यशिक्षाय तुभ्यं नमस्ते नमो द्वादशाक्षाय तुभ्यम् ॥ २८॥ भुजङ्गाकृते त्वत्प्रियार्थं मयेदं बुजङ्गप्रयातेन वृत्तेन क्लृप्तम् । तव स्तोत्रमेतत्पवित्रं सुपुण्यं परानन्दसन्दोहसंवर्धनाय ॥ २९॥ त्वदन्यत्परं दैवतं नाभिजाने प्रभो पाहि (प्रपोष्या हि) सम्पूर्णदृष्ट्यानुगृह्य । यथाशक्ति भक्त्या कृतं स्तोत्रमेकं विभो मेऽपराधं क्षमस्वाखिलेश ॥ ३०॥ इदं तारकारेर्गुणस्तोत्रराजं पठन्तस्त्रिकालं प्रपन्ना जना ये । सुपुत्राष्टभोगानिह त्वेव भुक्त्वा लभन्ते तदन्ते परं स्वर्गभोगम् ॥ ३१॥ ॥ इति श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तोत्रं सम्पूर्णं ॥