अक्षर आकार:

श्रीसुब्रह्मण्यषोडशनामं

shrI subrahmaNyaShoDashanAmaM

श्रीसुब्रह्मण्यषोडशनामं

सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगंसदा । अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशं ॥ १॥ प्रथमोज्ञानशक्त्यात्मा द्वितीयो स्कन्द एवच । अग्निभूश्चतृतीयस्यात् बाहुळेयश्चतुर्थकः ॥ २॥ गांगेयः पञ्चमोविद्यात् षष्ठः शरवणोत्भवः । सप्तमः कार्तिकेयःस्यात् कुमारस्यादथाष्टकः ॥ ३॥ नवमःषण्मुखश्चैव दशमःकुक्कुटद्वजः । एकादशःशक्तिधरो गुहो द्वादश एवच ॥ ४॥ त्रयोदशो ब्रह्मचारी षाण्मातुर चतुर्दशः । क्रौञ्चभित् पञ्चदशकः षोडशः शिखिवाहनः ॥ ५॥ एतत् षोडशनामानि जपेत् सम्यक्सदादरं । विवाहेदुर्गमे मार्गे दुर्जये च तथैवच ॥ ६॥ कवित्वेच महाशस्त्रे विज्ञानार्थीफलंलभेत् । कन्यार्थी लभतेकन्या जयार्थी लभते जयं ॥ ७॥ पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनं । आयुरारोग्य वश्यश्च धनधान्य सुखावहं ॥ ॥ इति श्री शङ्करसंहितायां शिवरहस्यखण्डे श्री सुब्रह्मण्यषोडशनामस्तोत्रं ॥