अक्षर आकार:

श्रीसुब्रह्मण्याष्टोत्तरशतनामावली

shrI subrahmaNya aShTottarashata nAmAvali

श्रीसुब्रह्मण्याष्टोत्तरशतनामावली

सुब्रह्मण्यमजं शान्तं कुमारं करुणालयम् । किरीटहारकेयूरमणिकुण्डलमण्डितम् ॥ षण्मुखं युगषड्बाहुं शूलाद्यायुधधारिणम् । स्मितवक्त्रं प्रसन्नाभं स्तूयमानं सदा बुधैः ॥ वल्लीदेवीप्राणनाथं वाञ्छितार्थप्रदायकम् । सिंहासने सुखासीनं कोटिसूर्य समप्रभम् । ध्यायामि सततं भक्त्या देवसेनापतिं गुहम् ॥ ॐ स्कन्दाय नमः । ॐ गुहाय नमः । ॐ षण्मुखाय नमः । ॐ फालनेत्रसुताय नमः । ॐ प्रभवे नमः । ॐ पिङ्गलाय नमः । ॐ कृत्तिकासूनवे नमः । ॐ शिखिवाहनाय नमः । ॐ द्विषड्भुजाय नमः । ॐ द्विषण्णेत्राय नमः ॥ १०॥ ॐ शक्तिधराय नमः । ॐ पिशिताशप्रभञ्जनाय नमः । ॐ तारकासुरसंहर्त्रे नमः । ॐ रक्षोबलविमर्दनाय नमः । ॐ मत्ताय नमः । ॐ प्रमत्ताय नमः । ॐ उन्मत्ताय नमः । ॐ सुरसैन्यसुरक्षकाय नमः । ॐ देवासेनापतये नमः । ॐ प्राज्ञाय नमः ॥ २०॥ ॐ कृपालवे नमः । ॐ भक्तवत्सलाय नमः । ॐ उमासुताय नमः । ॐ शक्तिधराय नमः । ॐ कुमाराय नमः । ॐ क्रौञ्चदारणाय नमः । ॐ सेनानिये नमः । ॐ अग्निजन्मने नमः । ॐ विशाखाय नमः । ॐ शङ्करात्मजाय नमः ॥ ३०॥ ॐ शिवस्वामिने नमः । ॐ गणस्वामिने नमः । ॐ सर्वस्वामिने नमः । ॐ सनातनाय नमः । ॐ अनन्तशक्तये नमः । ॐ अक्षोभ्याय नमः । ॐ पार्वतीप्रियनन्दनाय नमः । ॐ गङ्गासुताय नमः । ॐ शरोद्भूताय नमः । ॐ आहुताय नमः ॥ ४०॥ ॐ पावकात्मजाय नमः ॥ ॐ जृम्भाय नमः । ॐ प्रजृम्भाय नमः । ॐ उज्जृम्भाय नमः । ॐ कमलासनसंस्तुताय नमः । ॐ एकवर्णाय नमः । ॐ द्विवर्णाय नमः । ॐ त्रिवर्णाय नमः । ॐ सुमनोहराय नमः । ॐ चुतुर्वर्णाय नमः ॥ ५०॥ ॐ पञ्चवर्णाय नमः । ॐ प्रजापतये नमः । ॐ अहस्पतये नमः । ॐ अग्निगर्भाय नमः । ॐ शमीगर्भाय नमः । ॐ विश्वरेतसे नमः । ॐ सुरारिघ्ने नमः । ॐ हरिद्वर्णाय नमः । ॐ शुभकराय नमः । ॐ वसुमते नमः ॥ ६०॥ ॐ वटुवेषभृते नमः । ॐ पूष्णे नमः । ॐ गभस्तये नमः । ॐ गहनाय नमः । ॐ चन्द्रवर्णाय नमः । ॐ कलाधराय नमः । ॐ मायाधराय नमः । ॐ महामायिने नमः । ॐ कैवल्याय नमः । ॐ शङ्करात्मजाय नमः ॥ ७०॥ ॐ विश्वयोनये नमः । ॐ अमेयात्मने नमः । ॐ तेजोनिधये नमः । ॐ अनामयाय नमः । ॐ परमेष्ठिने नमः । ॐ परब्रह्मणे नमः । ॐ वेदगर्भाय नमः । ॐ विराट्सुताय नमः । ॐ पुलिन्दकन्याभर्त्रे नमः । ॐ महासारस्वतव्रताय नमः ॥ ८०॥ ॐ आश्रिताखिलदात्रे नमः । ॐ चोरघ्नाय नमः । ॐ रोगनाशनाय नमः । ॐ अनन्तमूर्तये नमः । ॐ आनन्दाय नमः । ॐ शिखण्डिकृतकेतनाय नमः । ॐ डम्भाय नमः । ॐ परमडम्भाय नमः । ॐ महाडम्भाय नमः । ॐ वृषाकपये नमः ॥ ९०॥ ॐ कारणोपात्तदेहाय नमः । ॐ कारणातीतविग्रहाय नमः । ॐ अनीश्वराय नमः । ॐ अमृताय नमः । ॐ प्राणाय नमः । ॐ प्राणायामपरायणाय नमः । ॐ विरुद्धहन्त्रे नमः । ॐ वीरघ्नाय नमः । ॐ रक्तश्यामगळाय नमः । ॐ श्यामकन्धराय नमः ॥ १००॥ ॐ महते नमः । ॐ सुब्रह्मण्याय नमः । ॐ गुहप्रीताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ वेदवेद्याय नमः । ॐ अक्षयफलप्रदाय नमः । ॐ वल्ली देवसेनासमेत श्री सुब्रह्मण्यस्वामिने नमः ॥ १०८॥ इति सुब्रह्मण्य अष्टोत्तरशत नामावलिस्समाप्ता ॥