अक्षर आकार:

श्रीसुब्रह्मण्यसहस्रनामावली

Shri Subrahmanya Sahasranamavalih

श्रीसुब्रह्मण्यसहस्रनामावली

ध्यानम् - ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् । बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥ १॥ कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् । काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ २॥ ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् । खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ॥ ३॥ वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखम् । देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ ४॥ ॥ अथ सुब्रह्मण्यसहस्रनामावलिः ॥ ॐ अचिन्त्यशक्तये नमः । ॐ अनघाय नमः । ॐ अक्षोभ्याय नमः । ॐ अपराजिताय नमः । ॐ अनाथवत्सलाय नमः । ॐ अमोघाय नमः । ॐ अशोकाय नमः । ॐ अजराय नमः । ॐ अभयाय नमः । ॐ अत्युदाराय नमः । १० ॐ अघहराय नमः । ॐ अग्रगण्याय नमः । ॐ अद्रिजासुताय नमः । ॐ अनन्तमहिम्ने नमः । ॐ अपाराय नमः । ॐ अनन्तसौख्यप्रदाय नमः । ॐ अव्ययाय नमः । ॐ अनन्तमोक्षदाय नमः । ॐ अनादये नमः । ॐ अप्रमेयाय नमः । २० ॐ अक्षराय नमः । ॐ अच्युताय नमः । ॐ अकल्मषाय नमः । ॐ अभिरामाय नमः । ॐ अग्रधुर्याय नमः । ॐ अमितविक्रमाय नमः । ॐ अनाथनाथाय नमः । ॐ अमलाय नमः । ॐ अप्रमत्ताय नमः । ॐ अमरप्रभवे नमः । ३० ॐ अरिन्दमाय नमः । ॐ अखिलाधाराय नमः । ॐ अणिमादिगुणाय नमः । ॐ अग्रण्ये नमः । ॐ अचञ्चलाय नमः । ॐ अमरस्तुत्याय नमः । ॐ अकलङ्काय नमः । ॐ अमिताशनाय नमः । ॐ अग्निभुवे नमः । ॐ अनवद्याङ्गाय नमः । ४० ॐ अद्भुताय नमः । ॐ अभीष्टदायकाय नमः । ॐ अतीन्द्रियाय नमः । ॐ अप्रमेयात्मने नमः । ॐ अदृश्याय नमः । ॐ अव्यक्तलक्षणाय नमः । ॐ आपद्विनाशकाय नमः । ॐ आर्याय नमः । ॐ आढ्याय नमः । ॐ आगमसंस्तुताय नमः । ५० ॐ आर्तसंरक्षणाय नमः । ॐ आद्याय नमः । ॐ आनन्दाय नमः । ॐ आर्यसेविताय नमः । ॐ आश्रितेष्टार्थवरदाय नमः । ॐ आनन्दिने नमः । ॐ आर्तफलप्रदाय नमः । ॐ आश्चर्यरूपाय नमः । ॐ आनन्दाय नमः । ॐ आपन्नार्तिविनाशनाय नमः । ६० ॐ इभवक्त्रानुजाय नमः । ॐ इष्टाय नमः । ॐ इभासुरहरात्मजाय नमः । ॐ इतिहासश्रुतिस्तुत्याय नमः । ॐ इन्द्रभोगफलप्रदाय नमः । ॐ इष्टापूर्तफलप्राप्तये नमः । ॐ इष्टेष्टवरदायकाय नमः । ॐ इहामुत्रेष्टफलदाय नमः । ॐ इष्टदाय नमः । ॐ इन्द्रवन्दिताय नमः । ७० ॐ ईडनीयाय नमः । ॐ ईशपुत्राय नमः । ॐ ईप्सितार्थप्रदायकाय नमः । ॐ ईतिभीतिहराय नमः । ॐ ईड्याय नमः । ॐ ईषणात्र्यवर्जिताय नमः । ॐ उदारकीर्तये नमः । ॐ उद्योगिने नमः । ॐ उत्कृष्टोरुपराक्रमाय नमः । ॐ उत्कृष्टशक्तये नमः । ८० ॐ उत्साहाय नमः । ॐ उदाराय नमः । ॐ उत्सवप्रियाय नमः । ॐ उज्जृम्भाय नमः । ॐ उद्भवाय नमः । ॐ उग्राय नमः । ॐ उदग्राय नमः । ॐ उग्रलोचनाय नमः । ॐ उन्मत्ताय नमः । ॐ उग्रशमनाय नमः । ९० ॐ उद्वेगघ्नोरगेश्वराय नमः । ॐ उरुप्रभावाय नमः । ॐ उदीर्णाय नमः । ॐ उमापुत्राय नमः । ॐ उदारधिये नमः । ॐ ऊर्ध्वरेतःसुताय नमः । ॐ ऊर्ध्वगतिदाय नमः । ॐ ऊर्जपालकाय नमः । ॐ ऊर्जिताय नमः । ॐ ऊर्ध्वगाय नमः । १०० ॐ ऊर्ध्वाय नमः । ॐ ऊर्ध्वलोकैकनायकाय नमः । ॐ ऊर्जावते नमः । ॐ ऊर्जितोदाराय नमः । ॐ ऊर्जितोर्जितशासनाय नमः । ॐ ऋषिदेवगणस्तुत्याय नमः । ॐ ऋणत्र्यविमोचनाय नमः । ॐ ऋजुरूपाय नमः । ॐ ऋजुकराय नमः । ॐ ऋजुमार्गप्रदर्शनाय नमः । ११० ॐ ऋतम्बराय नमः । ॐ ऋजुप्रीताय नमः । ॐ ऋषभाय नमः । ॐ ऋद्धिदाय नमः । ॐ ऋताय नमः । ॐ लुलितोद्धारकाय नमः । ॐ लूतभवपाशप्रभञ्जनाय नमः । ॐ एणाङ्कधरसत्पुत्राय नमः । ॐ एकस्मै नमः । ॐ एनोविनाशनाय नमः । १२० ॐ ऐश्वर्यदाय नमः । ॐ ऐन्द्रभोगिने नमः । ॐ ऐतिह्याय नमः । ॐ ऐन्द्रवन्दिताय नमः । ॐ ओजस्विने नमः । ॐ ओषधिस्थानाय नमः । ॐ ओजोदाय नमः । ॐ ओदनप्रदाय नमः । ॐ औदार्यशीलाय नमः । ॐ औमेयाय नमः । १३० ॐ औग्राय नमः । ॐ औन्नत्यदायकाय नमः । ॐ औदार्याय नमः । ॐ औषधकराय नमः । ॐ औषधाय नमः । ॐ औषधाकराय नमः । ॐ अंशुमालिने नमः । ॐ अंशुमालीड्याय नमः । ॐ अम्बिकातनयाय नमः । ॐ अन्नदाय नमः । १४० ॐ अन्धकारिसुताय नमः । ॐ अन्धत्वहारिणे नमः । ॐ अम्बुजलोचनाय नमः । ॐ अस्तमायाय नमः । ॐ अमराधीशाय नमः । ॐ अस्पष्टाय नमः । ॐ अस्तोकपुण्यदाय नमः । ॐ अस्तामित्राय नमः । ॐ अस्तरूपाय नमः । ॐ अस्खलत्सुगतिदायकाय नमः । १५० ॐ कार्तिकेयाय नमः । ॐ कामरूपाय नमः । ॐ कुमाराय नमः । ॐ क्रौञ्चदारणाय नमः । ॐ कामदाय नमः । ॐ कारणाय नमः । ॐ काम्याय नमः । ॐ कमनीयाय नमः । ॐ कृपाकराय नमः । ॐ काञ्चनाभाय नमः । १६० ॐ कान्तियुक्ताय नमः । ॐ कामिने नमः । ॐ कामप्रदाय नमः । ॐ कवये नमः । ॐ कीर्तिकृते नमः । ॐ कुक्कुटधराय नमः । ॐ कूटस्थाय नमः । ॐ कुवलेक्षणाय नमः । ॐ कुङ्कुमाङ्गाय नमः । ॐ क्लमहराय नमः । १७० ॐ कुशलाय नमः । ॐ कुक्कुटध्वजाय नमः । ॐ कुशानुसम्भवाय नमः । ॐ क्रूराय नमः । ॐ क्रूरघ्नाय नमः । ॐ कलितापहृते नमः । ॐ कामरूपाय नमः । ॐ कल्पतरवे नमः । ॐ कान्ताय नमः । ॐ कामितदायकाय नमः । १८० ॐ कल्याणकृते नमः । ॐ क्लेशनाशाय नमः । ॐ कृपालवे नमः । ॐ करुणाकराय नमः । ॐ कलुषघ्नाय नमः । ॐ क्रियाशक्तये नमः । ॐ कठोराय नमः । ॐ कवचिने नमः । ॐ कृतिने नमः । ॐ कोमलाङ्गाय नमः । १९० ॐ कुशप्रीताय नमः । ॐ कुत्सितघ्नाय नमः । ॐ कलाधराय नमः । ॐ ख्याताय नमः । ॐ खेटधराय नमः । ॐ खड्गिने नमः । ॐ खट्वाङ्गिने नमः । ॐ खलनिग्रहाय नमः । ॐ ख्यातिप्रदाय नमः । ॐ खेचरेशाय नमः । २०० ॐ ख्यातेहाय नमः । ॐ खेचरस्तुताय नमः । ॐ खरतापहराय नमः । ॐ खस्थाय नमः । ॐ खेचराय नमः । ॐ खेचराश्रयाय नमः । ॐ खण्डेन्दुमौलितनयाय नमः । ॐ खेलाय नमः । ॐ खेचरपालकाय नमः । ॐ खस्थलाय नमः । २१० ॐ खण्डितार्काय नमः । ॐ खेचरीजनपूजिताय नमः । ॐ गाङ्गेयाय नमः । ॐ गिरिजापुत्राय नमः । ॐ गणनाथानुजाय नमः । ॐ गुहाय नमः । ॐ गोप्त्रे नमः । ॐ गीर्वाणसंसेव्याय नमः । ॐ गुणातीताय नमः । ॐ गुहाश्रयाय नमः । २२० ॐ गतिप्रदाय नमः । ॐ गुणनिधये नमः । ॐ गम्भीराय नमः । ॐ गिरिजात्मजाय नमः । ॐ गूढरूपाय नमः । ॐ गदहराय नमः । ॐ गुणाधीशाय नमः । ॐ गुणाग्रण्ये नमः । ॐ गोधराय नमः । ॐ गहनाय नमः । २३० ॐ गुप्ताय नमः । ॐ गर्वघ्नाय नमः । ॐ गुणवर्धनाय नमः । ॐ गुह्याय नमः । ॐ गुणज्ञाय नमः । ॐ गीतिज्ञाय नमः । ॐ गतातङ्काय नमः । ॐ गुणाश्रयाय नमः । ॐ गद्यपद्यप्रियाय नमः । ॐ गुण्याय नमः । २४० ॐ गोस्तुताय नमः । ॐ गगनेचराय नमः । ॐ गणनीयचरित्राय नमः । ॐ गतक्लेशाय नमः । ॐ गुणार्णवाय नमः । ॐ घूर्णिताक्षाय नमः । ॐ घृणिनिधये नमः । ॐ घनगम्भीरघोषणाय नमः । ॐ घण्टानादप्रियाय नमः । ॐ घोषाय नमः । २५० ॐ घोराघौघविनाशनाय नमः । ॐ घनानन्दाय नमः । ॐ घर्महन्त्रे नमः । ॐ घृणावते नमः । ॐ घृष्टिपातकाय नमः । ॐ घृणिने नमः । ॐ घृणाकराय नमः । ॐ घोराय नमः । ॐ घोरदैत्यप्रहारकाय नमः । ॐ घटितैश्वर्यसन्दोहाय नमः । २६० ॐ घनार्थाय नमः । ॐ घनसङ्क्रमाय नमः । ॐ चित्रकृते नमः । ॐ चित्रवर्णाय नमः । ॐ चञ्चलाय नमः । ॐ चपलद्युतये नमः । ॐ चिन्मयाय नमः । ॐ चित्स्वरूपाय नमः । ॐ चिरानन्दाय नमः । ॐ चिरन्तनाय नमः । २७० ॐ चित्रकेलये नमः । ॐ चित्रतराय नमः । ॐ चिन्तनीयाय नमः । ॐ चमत्कॄतये नमः । ॐ चोरघ्नाय नमः । ॐ चतुराय नमः । ॐ चारवे नमः । ॐ चामीकरविभूषणाय नमः । ॐ चन्द्रार्ककोटिसदृशाय नमः । ॐ चन्द्रमौलितनूभवाय नमः । २८० ॐ चादिताङ्गाय नमः । ॐ छद्महन्त्रे नमः । ॐ छेदिताखिलपातकाय नमः । ॐ छेदीकृततमःक्लेशाय नमः । ॐ छत्रीकृतमहायशसे नमः । ॐ छादिताशेषसन्तापाय नमः । ॐ छरितामृतसागराय नमः । ॐ छन्नत्रैगुण्यरूपाय नमः । ॐ छातेहाय नमः । ॐ छिन्नसंशयाय नमः । २९० ॐ छन्दोमयाय नमः । ॐ छन्दगामिने नमः । ॐ छिन्नपाशाय नमः । ॐ छविश्छदाय नमः । ॐ जगद्धिताय नमः । ॐ जगत्पूज्याय नमः । ॐ जगज्ज्येष्ठाय नमः । ॐ जगन्मयाय नमः । ॐ जनकाय नमः । ॐ जाह्नवीसूनवे नमः । ३०० ॐ जितामित्राय नमः । ॐ जगद्गुरवे नमः । ॐ जयिने नमः । ॐ जितेन्द्रियाय नमः । ॐ जैत्राय नमः । ॐ जरामरणवर्जिताय नमः । ॐ ज्योतिर्मयाय नमः । ॐ जगन्नाथाय नमः । ॐ जगज्जीवाय नमः । ॐ जनाश्रयाय नमः । ३१० ॐ जगत्सेव्याय नमः । ॐ जगत्कर्त्रे नमः । ॐ जगत्साक्षिणे नमः । ॐ जगत्प्रियाय नमः । ॐ जम्भारिवन्द्याय नमः । ॐ जयदाय नमः । ॐ जगज्जनमनोहराय नमः । ॐ जगदानन्दजनकाय नमः । ॐ जनजाड्यापहारकाय नमः । ॐ जपाकुसुमसङ्काशाय नमः । ३२० ॐ जनलोचनशोभनाय नमः । ॐ जनेश्वराय नमः । ॐ जितक्रोधाय नमः । ॐ जनजन्मनिबर्हणाय नमः । ॐ जयदाय नमः । ॐ जन्तुतापघ्नाय नमः । ॐ जितदैत्यमहाव्रजाय नमः । ॐ जितमायाय नमः । ॐ जितक्रोधाय नमः । ॐ जितसङ्गाय नमः । ३३० ॐ जनप्रियाय नमः । ॐ झञ्जानिलमहावेगाय नमः । ॐ झरिताशेषपातकाय नमः । ॐ झर्झरीकृतदैत्यौघाय नमः । ॐ झल्लरीवाद्यसम्प्रियाय नमः । ॐ ज्ञानमूर्तये नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्ञानिने नमः । ॐ ज्ञानमहानिधये नमः । ॐ टङ्ख़ारनृत्तविभवाय नमः । ३४० ॐ टङ्कवज्रध्वजाङ्किताय नमः । ॐ टङ्किताखिललोकाय नमः । ॐ टङ्कितैनस्तमोरवये नमः । ॐ डम्बरप्रभवाय नमः । ॐ डम्भाय नमः । ॐ डम्बाय नमः । ॐ डमरुकप्रियाय नमः । ॐ डमरोत्कटसन्नादाय नमः । ॐ डिम्बरूपस्वरूपकाय नमः । ॐ ढक्कानादप्रीतिकराय नमः । ३५० ॐ ढालितासुरसङ्कुलाय नमः । ॐ ढौकितामरसन्दोहाय नमः । ॐ ढुण्ढिविघ्नेश्वरानुजाय नमः । ॐ तत्त्वज्ञाय नमः । ॐ तत्त्वगाय नमः । ॐ तीव्राय नमः । ॐ तपोरूपाय नमः । ॐ तपोमयाय नमः । ॐ त्रयीमयाय नमः । ॐ त्रिकालज्ञाय नमः । ३६० ॐ त्रिमूर्तये नमः । ॐ त्रिगुणात्मकाय नमः । ॐ त्रिदशेशाय नमः । ॐ तारकारये नमः । ॐ तापघ्नाय नमः । ॐ तापसप्रियाय नमः । ॐ तुष्टिदाय नमः । ॐ तुष्टिकृते नमः । ॐ तीक्ष्णाय नमः । ॐ तपोरूपाय नमः । ॐ त्रिकालविदे नमः । ३७० ॐ स्तोत्रे नमः । ॐ स्तव्याय नमः । ॐ स्तवप्रीताय नमः । ॐ स्तुतये नमः । ॐ स्तोत्राय नमः । ॐ स्तुतिप्रियाय नमः । ॐ स्थिताय नमः । ॐ स्थायिने नमः । ॐ स्थापकाय नमः । ३८० ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः । ॐ स्थविष्ठाय नमः । ॐ स्थविराय नमः । ॐ स्थूलाय नमः । ॐ स्थानदाय नमः । ॐ स्थैर्यदाय नमः । ॐ स्थिराय नमः । ॐ दान्ताय नमः । ॐ दयापराय नमः । ॐ दात्रे नमः । ३९० ॐ दुरितघ्नाय नमः । ॐ दुरासदाय नमः । ॐ दर्शनीयाय नमः । ॐ दयासाराय नमः । ॐ देवदेवाय नमः । ॐ दयानिधये नमः । ॐ दुराधर्षाय नमः । ॐ दुर्विगाह्याय नमः । ॐ दक्षाय नमः । ॐ दर्पणशोभिताय नमः । ४०० ॐ दुर्धराय नमः । ॐ दानशीलाय नमः । ॐ द्वादशाक्षाय नमः । ॐ द्विषड्भुजाय नमः । ॐ द्विषट्कर्णाय नमः । ॐ द्विषड्बाहवे नमः । ॐ दीनसन्तापनाशनाय नमः । ॐ दन्दशूकेश्वराय नमः । ॐ देवाय नमः । ॐ दिव्याय नमः । ४१० ॐ दिव्याकृतये नमः । ॐ दमाय नमः । ॐ दीर्घवृत्ताय नमः । ॐ दीर्घबाहवे नमः । ॐ दीर्घदृष्टये नमः । ॐ दिवस्पतये नमः । ॐ दण्डाय नमः । ॐ दमयित्रे नमः । ॐ दर्पाय नमः । ॐ देवसिंहाय नमः । ४२० ॐ दृढव्रताय नमः । ॐ दुर्लभाय नमः । ॐ दुर्गमाय नमः । ॐ दीप्ताय नमः । ॐ दुष्प्रेक्ष्याय नमः । ॐ दिव्यमण्डनाय नमः । ॐ दुरोदरघ्नाय नमः । ॐ दुःखघ्नाय नमः । ॐ दुरारिघ्नाय नमः । ॐ दिशाम्पतये नमः । ४३० ॐ दुर्जयाय नमः । ॐ देवसेनेशाय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ दुरतिक्रमाय नमः । ॐ दम्भाय नमः । ॐ दृप्ताय नमः । ॐ देवर्षये नमः । ॐ दैवज्ञाय नमः । ॐ दैवचिन्तकाय नमः । ॐ धुरन्धराय नमः । ४४० ॐ धर्मपराय नमः । ॐ धनदाय नमः । ॐ धृतवर्धनाय नमः । ॐ धर्मेशाय नमः । ॐ धर्मशास्त्रज्ञाय नमः । ॐ धन्विने नमः । ॐ धर्मपरायणाय नमः । ॐ धनाध्यक्षाय नमः । ॐ धनपतये नमः । ॐ धृतिमते नमः । ४५० ॐ धूतकिल्बिषाय नमः । ॐ धर्महेतवे नमः । ॐ धर्मशूराय नमः । ॐ धर्मकृते नमः । ॐ धर्मविदे नमः । ॐ ध्रुवाय नमः । ॐ धात्रे नमः । ॐ धीमते नमः । ॐ धर्मचारिणे नमः । ॐ धन्याय नमः । ४६० ॐ धुर्याय नमः । ॐ धृतव्रताय नमः । ॐ नित्यसत्त्वाय नमः । ॐ नित्यतृप्ताय नमः । ॐ निर्लेपाय नमः । ॐ निस्चलात्मकाय नमः । ॐ निरवद्याय नमः । ॐ निराधाराय नमः । ॐ निष्कलङ्काय नमः । ॐ निरञ्जनाय नमः । ४७० ॐ निर्ममाय नमः । ॐ निरहङ्काराय नमः । ॐ निर्मोहाय नमः । ॐ निरुपद्रवाय नमः । ॐ नित्यानन्दाय नमः । ॐ निरातङ्काय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निरामयाय नमः । ॐ निरवद्याय नमः । ॐ निरीहाय नमः । ४८० ॐ निर्दर्शाय नमः । ॐ निर्मलात्मकाय नमः । ॐ नित्यानन्दाय नमः । ॐ निर्जरेशाय नमः । ॐ निःसङ्गाय नमः । ॐ निगमस्तुताय नमः । ॐ निष्कण्टकाय नमः । ॐ निरालम्बाय नमः । ॐ निष्प्रत्यूहाय नमः । ॐ निरुद्भवाय नमः । ४९० ॐ नित्याय नमः । ॐ नियतकल्याणाय नमः । ॐ निर्विकल्पाय नमः । ॐ निराश्रयाय नमः । ॐ नेत्रे नमः । ॐ निधये नमः । ॐ नैकरूपाय नमः । ॐ निराकाराय नमः । ॐ नदीसुताय नमः । ॐ पुलिन्दकन्यारमणाय नमः । ५०० ॐ पुरुजिते नमः । ॐ परमप्रियाय नमः । ॐ प्रत्यक्षमूर्तये नमः । ॐ प्रत्यक्षाय नमः । ॐ परेशाय नमः । ॐ पूर्णपुण्यदाय नमः । ॐ पुण्याकराय नमः । ॐ पुण्यरूपाय नमः । ॐ पुण्याय नमः । ॐ पुण्यपरायणाय नमः । ५१० ॐ पुण्योदयाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ पुण्यकृते नमः । ॐ पुण्यवर्धनाय नमः । ॐ परानन्दाय नमः । ॐ परतराय नमः । ॐ पुण्यकीर्तये नमः । ॐ पुरातनाय नमः । ॐ प्रसन्नरूपाय नमः । ॐ प्राणेशाय नमः । ५२० ॐ पन्नगाय नमः । ॐ पापनाशनाय नमः । ॐ प्रणतार्तिहराय नमः । ॐ पूर्णाय नमः । ॐ पार्वतीनन्दनाय नमः । ॐ प्रभवे नमः । ॐ पूतात्मने नमः । ॐ पुरुषाय नमः । ॐ प्राणाय नमः । ॐ प्रभवाय नमः । ५३० ॐ पुरुषोत्तमाय नमः । ॐ प्रसन्नाय नमः । ॐ परमस्पष्टाय नमः । ॐ पराय नमः । ॐ परिवृढाय नमः । ॐ पराय नमः । ॐ परमात्मने नमः । ॐ प्रब्रह्मणे नमः । ॐ परार्थाय नमः । ॐ प्रियदर्शनाय नमः । ५४० ॐ पवित्राय नमः । ॐ पुष्टिदाय नमः । ॐ पूर्तये नमः । ॐ पिङ्गलाय नमः । ॐ पुष्टिवर्धनाय नमः । ॐ पापहर्त्रे नमः । ॐ पाशधराय नमः । ॐ प्रमत्तासुरशिक्षकाय नमः । ॐ पावनाय नमः । ॐ पावकाय नमः । ५५० ॐ पूज्याय नमः । ॐ पूर्णानन्दाय नमः । ॐ परात्पराय नमः । ॐ पुष्कलाय नमः । ॐ प्रवराय नमः । ॐ पूर्वाय नमः । ॐ पितृभक्ताय नमः । ॐ पुरोगमाय नमः । ॐ प्राणदाय नमः । ॐ प्राणिजनकाय नमः । ५६० ॐ प्रदिष्टाय नमः । ॐ पावकोद्भवाय नमः । ॐ परब्रह्मस्वरूपाय नमः । ॐ परमैश्वर्यकारणाय नमः । ॐ परर्धिदाय नमः । ॐ पुष्टिकराय नमः । ॐ प्रकाशात्मने नमः । ॐ प्रतापवते नमः । ॐ प्रज्ञापराय नमः । ॐ प्रकृष्टार्थाय नमः । ५७० ॐ पृथुवे नमः । ॐ पृथुपराक्रमाय नमः । ॐ फणीश्वराय नमः । ॐ फणिवाराय नमः । ॐ फणामणिविभुषणाय नमः । ॐ फलदाय नमः । ॐ फलहस्ताय नमः । ॐ फुल्लाम्बुजविलोचनाय नमः । ॐ फडुच्चाटितपापौघाय नमः । ॐ फणिलोकविभूषणाय नमः । ५८० ॐ बाहुलेयाय नमः । ॐ बृहद्रूपाय नमः । ॐ बलिष्ठाय नमः । ॐ बलवते नमः । ॐ बलिने नमः । ॐ ब्रह्मेशविष्णुरूपाय नमः । ॐ बुद्धाय नमः । ॐ भुद्धिमतां वराय नमः । ॐ बालरूपाय नमः । var बलरूपाय ॐ ब्रह्मगर्भाय नमः । ५९० ॐ ब्रह्मचारिणे नमः । ॐ बुधप्रियाय नमः । ॐ बहुश‍ृताय नमः । ॐ बहुमताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ बलप्रमथनाय नमः । ॐ ब्रह्मणे नमः । ॐ बहुरूपाय नमः । ॐ बहुप्रदाय नमः । ६०० ॐ बृहद्भानुतनूद्भूताय नमः । ॐ बृहत्सेनाय नमः । ॐ बिलेशयाय नमः । ॐ बहुबाहवे नमः । ॐ बलश्रीमते नमः । ॐ बहुदैत्यविनाशकाय नमः । ॐ बिलद्वारान्तरालस्थाय नमः । ॐ बृहच्छक्तिधनुर्धराय नमः । ॐ बालार्कद्युतिमते नमः । ॐ बालाय नमः । ६१० ॐ बृहद्वक्षसे नमः । ॐ बृहद्धनुषे नमः । ॐ भव्याय नमः । ॐ भोगीश्वराय नमः । ॐ भाव्याय नमः । ॐ भवनाशाय नमः । ॐ भवप्रियाय नमः । ॐ भक्तिगम्याय नमः । ॐ भयहराय नमः । ॐ भावज्ञाय नमः । ६२० ॐ भक्तसुप्रियाय नमः । ॐ भुक्तिमुक्तिप्रदाय नमः । ॐ भोगिने नमः । ॐ भगवते नमः । ॐ भाग्यवर्धनाय नमः । ॐ भ्राजिष्णवे नमः । ॐ भावनाय नमः । ॐ भर्त्रे नमः । ॐ भीमाय नमः । ॐ भीमपराक्रमाय नमः । ६३० ॐ भूतिदाय नमः । ॐ भूतिकृते नमः । ॐ भोक्त्रे नमः । ॐ भूतात्मने नमः । ॐ भुवनेश्वराय नमः । ॐ भावकाय नमः । ॐ भीकराय नमः । ॐ भीष्माय नमः । ॐ भावकेष्टाय नमः । ॐ भवोद्भवाय नमः । ६४० ॐ भवतापप्रशमनाय नमः । ॐ भोगवते नमः । ॐ भूतभावनाय नमः । ॐ भोज्यप्रदाय नमः । ॐ भ्रान्तिनाशाय नमः । ॐ भानुमते नमः । ॐ भुवनाश्रयाय नमः । ॐ भूरिभोगप्रदाय नमः । ॐ भद्राय नमः । ॐ भजनीयाय नमः । ६५० ॐ भिषग्वराय नमः । ॐ महासेनाय नमः । ॐ महोदराय नमः । ॐ महाशक्तये नमः । ॐ महाद्युतये नमः । ॐ महाबुद्धये नमः । ॐ महावीर्याय नमः । ॐ महोत्साहाय नमः । ॐ महाबलाय नमः । ॐ महाभोगिने नमः । ६६० ॐ महामायिने नमः । ॐ मेधाविने नमः । ॐ मेखलिने नमः । ॐ महते नमः । ॐ मुनिस्तुताय नमः । ॐ महामान्याय नमः । ॐ महानन्दाय नमः । ॐ महायशसे नमः । ॐ महोर्जिताय नमः । ॐ माननिधये नमः । ६७० ॐ मनोरथफलप्रदाय नमः । ॐ महोदयाय नमः । ॐ महापुण्याय नमः । ॐ महाबलपराक्रमाय नमः । ॐ मानदाय नमः । ॐ मतिदाय नमः । ॐ मालिने नमः । ॐ मुक्तामालाविभूषणाय नमः । ॐ मनोहराय नमः । ॐ महामुख्याय नमः । ६८० ॐ महर्द्धये नमः । ॐ मूर्तिमते नमः । ॐ मुनये नमः । ॐ महोत्तमाय नमः । ॐ महोपाय नमः । ॐ मोक्षदाय नमः । ॐ मङ्गलप्रदाय नमः । ॐ मुदाकराय नमः । ॐ मुक्तिदात्रे नमः । ॐ महाभोगाय नमः । ६९० ॐ महोरगाय नमः । ॐ यशस्कराय नमः । ॐ योगयोनये नमः । ॐ योगिष्ठाय नमः । ॐ यमिनां वराय नमः । ॐ यशस्विने नमः । ॐ योगपुरुषाय नमः । ॐ योग्याय नमः । ॐ योगनिधये नमः । ॐ यमिने नमः । ७०० ॐ यतिसेव्याय नमः । ॐ योगयुक्ताय नमः । ॐ योगविदे नमः । ॐ योगसिद्धिदाय नमः । ॐ यन्त्राय नमः । ॐ यन्त्रिणे नमः । ॐ यन्त्रज्ञाय नमः । ॐ यन्त्रवते नमः । ॐ यन्त्रवाहकाय नमः । ॐ यातनारहिताय नमः । ॐ योगिने नमः । ७१० ॐ योगीशाय नमः । ॐ योगिनां वराय नमः । ॐ रमणीयाय नमः । ॐ रम्यरूपाय नमः । ॐ रसज्ञाय नमः । ॐ रसभावनाय नमः । ॐ रञ्जनाय नमः । ॐ रञ्जिताय नमः । ॐ रागिणे नमः । ७२० ॐ रुचिराय नमः । ॐ रुद्रसम्भवाय नमः । ॐ रणप्रियाय नमः । ॐ रणोदाराय नमः । ॐ रागद्वेषविनाशनाय नमः । ॐ रत्नार्चिषे नमः । ॐ रुचिराय नमः । ॐ रम्याय नमः । ॐ रूपलावण्यविग्रहाय नमः । ॐ रत्नाङ्गदधराय नमः । ७३० ॐ रत्नभूषणाय नमः । ॐ रमणीयकाय नमः । ॐ रुचिकृते नमः । ॐ रोचमानाय नमः । ॐ रञ्जिताय नमः । ॐ रोगनाशनाय नमः । ॐ राजीवाक्षाय नमः । ॐ राजराजाय नमः । ॐ रक्तमाल्यानुलेपनाय नमः । ॐ राजद्वेदागमस्तुत्याय नमः । ७४० ॐ रजःसत्त्वगुणान्विताय नमः । ॐ रजनीशकलारम्याय नमः । ॐ रत्नकुण्डलमण्डिताय नमः । ॐ रत्नसन्मौलिशोभाढ्याय नमः । ॐ रणन्मञ्जीरभूषणाय नमः । ॐ लोकैकनाथाय नमः । ॐ लोकेशाय नमः । ॐ ललिताय नमः । ॐ लोकनायकाय नमः । ॐ लोकरक्षाय नमः । ७५० ॐ लोकशिक्षाय नमः । ॐ लोकलोचनरञ्जिताय नमः । ॐ लोकबन्धवे नमः । ॐ लोकधात्रे नमः । ॐ लोकत्रयमहाहिताय नमः । ॐ लोकचूडामणये नमः । ॐ लोकवन्द्याय नमः । ॐ लावण्यविग्रहाय नमः । ॐ लोकाध्यक्षाय नमः । ॐ लीलावते नमः । ७६० ॐ लोकोत्तरगुणान्विताय नमः । ॐ वरिष्ठाय नमः । ॐ वरदाय नमः । ॐ वैद्याय नमः । ॐ विशिष्टाय नमः । ॐ विक्रमाय नमः । ॐ विभवे नमः । ॐ विबुधाग्रचराय नमः । ॐ वश्याय नमः । ॐ विकल्पपरिवर्जिताय नमः । ७७० ॐ विपाशाय नमः । ॐ विगतातङ्काय नमः । ॐ विचित्राङ्गाय नमः । ॐ विरोचनाय नमः । ॐ विद्याधराय नमः । ॐ विशुद्धात्मने नमः । ॐ वेदाङ्गाय नमः । ॐ विबुधप्रियाय नमः । ॐ वचस्कराय नमः । ॐ व्यापकाय नमः । ७८० ॐ विज्ञानिने नमः । ॐ विनयान्विताय नमः । ॐ विद्वत्तमाय नमः । ॐ विरोधिघ्नाय नमः । ॐ वीराय नमः । ॐ विगतरागवते नमः । ॐ वीतभावाय नमः । ॐ विनीतात्मने नमः । ॐ वेदगर्भाय नमः । ॐ वसुप्रदाय नमः । ७९० ॐ विश्वदीप्तये नमः । ॐ विशालाक्षाय नमः । ॐ विजितात्मने नमः । ॐ विभावनाय नमः । ॐ वेदवेद्याय नमः । ॐ विधेयात्मने नमः । ॐ वीतदोषाय नमः । ॐ वेदविदे नमः । ॐ विश्वकर्मणे नमः । ॐ वीतभयाय नमः । ८०० ॐ वागीशाय नमः । ॐ वासवार्चिताय नमः । ॐ वीरध्वंसाय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वरूपाय नमः । ॐ वरासनाय नमः । ॐ विशाखाय नमः । ॐ विमलाय नमः । ॐ वाग्मिने नमः । ॐ विदुषे नमः । ८१० ॐ वेदधराय नमः । ॐ वटवे नमः । ॐ वीरचूडामणये नमः । ॐ वीराय नमः । ॐ विद्येशाय नमः । ॐ विबुधाश्रयाय नमः । ॐ विजयिने नमः । ॐ विनयिने नमः । ॐ वेत्रे नमः । ॐ वरीयसे नमः । ८२० ॐ विरजासे नमः । ॐ वसवे नमः । ॐ वीरघ्नाय नमः । ॐ विज्वराय नमः । ॐ वेद्याय नमः । ॐ वेगवते नमः । ॐ वीर्यवते नमः । ॐ वशिने नमः । ॐ वरशीलाय नमः । ॐ वरगुणाय नमः । ८३० ॐ विशोकाय नमः । ॐ वज्रधारकाय नमः । ॐ शरजन्मने नमः । ॐ शक्तिधराय नमः । ॐ शत्रुघ्नाय नमः । ॐ शिखिवाहनाय नमः । ॐ श्रीमते नमः । ॐ शिष्टाय नमः । ॐ शुचये नमः । ॐ शुद्धाय नमः । ८४० ॐ शाश्वताय नमः । ॐ श्रुतिसागराय नमः । ॐ शरण्याय नमः । ॐ शुभदाय नमः । ॐ शर्मणे नमः । ॐ शिष्टेष्टाय नमः । ॐ शुभलक्षणाय नमः । ॐ शान्ताय नमः । ॐ शूलधराय नमः । ॐ श्रेष्ठाय नमः । ८५० ॐ शुद्धात्मने नमः । ॐ शङ्कराय नमः । ॐ शिवाय नमः । ॐ शितिकण्ठात्मजाय नमः । ॐ शूराय नमः । ॐ शान्तिदाय नमः । ॐ शोकनाशनाय नमः । ॐ षाण्मातुराय नमः । ॐ षण्मुखाय नमः । ॐ षड्गुणैश्वर्यसंयुताय नमः । ८६० ॐ षट्चक्रस्थाय नमः । ॐ षडूर्मिघ्नाय नमः । ॐ षडङ्गश्रुतिपारगाय नमः । ॐ षड्भावरहिताय नमः । ॐ षट्काय नमः । ॐ षट्शास्त्रस्मृतिपारगाय नमः । ॐ षड्वर्गदात्रे नमः । ॐ षड्ग्रीवाय नमः । ॐ षडरिघ्ने नमः । ॐ षडाश्रयाय नमः । ८७० ॐ षट्किरीटधराय श्रीमते नमः । ॐ षडाधाराय नमः । ॐ षट्क्रमाय नमः । ॐ षट्कोणमध्यनिलयाय नमः । ॐ षण्डत्वपरिहारकाय नमः । ॐ सेनान्ये नमः । ॐ सुभगाय नमः । ॐ स्कन्दाय नमः । ॐ सुरानन्दाय नमः । ॐ सतां गतये नमः । ८८० ॐ सुब्रह्मण्याय नमः । ॐ सुराध्यक्षाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वदाय नमः । ॐ सुखिने नमः । ॐ सुलभाय नमः । ॐ सिद्धिदाय नमः । ॐ सौम्याय नमः । ॐ सिद्धेशाय नमः । ॐ सिद्धिसाधनाय नमः । ८९० ॐ सिद्धार्थाय नमः । ॐ सिद्धसङ्कल्पाय नमः । ॐ सिद्धसाधवे नमः । ॐ सुरेश्वराय नमः । ॐ सुभुजाय नमः । ॐ सर्वदृशे नमः । ॐ साक्षिणे नमः । ॐ सुप्रसादाय नमः । ॐ सनातनाय नमः । ॐ सुधापतये नमः । ९०० ॐ स्वयम्ज्योतिषे नमः । ॐ स्वयम्भुवे नमः । ॐ सर्वतोमुखाय नमः । ॐ समर्थाय नमः । ॐ सत्कृतये नमः । ॐ सूक्ष्माय नमः । ॐ सुघोषाय नमः । ॐ सुखदाय नमः । ॐ सुहृदे नमः । ॐ सुप्रसन्नाय नमः । ९१० ॐ सुरश्रेष्ठाय नमः । ॐ सुशीलाय नमः । ॐ सत्यसाधकाय नमः । ॐ सम्भाव्याय नमः । ॐ सुमनसे नमः । ॐ सेव्याय नमः । ॐ सकलागमपारगाय नमः । ॐ सुव्यक्ताय नमः । ॐ सच्चिदानन्दाय नमः । ॐ सुवीराय नमः । ९२० ॐ सुजनाश्रयाय नमः । ॐ सर्वलक्षण्सम्पन्नाय नमः । ॐ सत्यधर्मपरायणाय नमः । ॐ सर्वदेवमयाय नमः । ॐ सत्याय नमः । ॐ सदा मृष्टान्नदायकाय नमः । ॐ सुधापिने नमः । ॐ सुमतये नमः । ॐ सत्याय नमः । ॐ सर्वविघ्नविनाशनाय नमः । ९३० ॐ सर्वदुःखप्रशमनाय नमः । ॐ सुकुमाराय नमः । ॐ सुलोचनाय नमः । ॐ सुग्रीवाय नमः । ॐ सुधृतये नमः । ॐ साराय नमः । ॐ सुराराध्याय नमः । ॐ सुविक्रमाय नमः । ॐ सुरारिघ्ने नमः । ॐ स्वर्णवर्णाय नमः । ९४० ॐ सर्पराजाय नमः । ॐ सदाशुचये नमः । ॐ सप्तार्चिर्भुवे नमः । ॐ सुरवराय नमः । ॐ सर्वायुधविशारदाय नमः । ॐ हस्तिचर्माम्बरसुताय नमः । ॐ हस्तिवाहनसेविताय नमः । ॐ हस्तचित्रायुधधराय नमः । ॐ हृताघाय नमः । ॐ हसिताननाय नमः । ९५० ॐ हेमभूषाय नमः । ॐ हरिद्वर्णाय नमः । ॐ हृष्टिदाय नमः । ॐ हृष्टिवर्धनाय नमः । ॐ हेमाद्रिभिदे नमः । ॐ हंसरूपाय नमः । ॐ हुङ्कारहतकिल्बिषाय नमः । ॐ हिमाद्रिजातातनुजाय नमः । ॐ हरिकेशाय नमः । ॐ हिरण्मयाय नमः । ९६० ॐ हृद्याय नमः । ॐ हृष्टाय नमः । ॐ हरिसखाय नमः । ॐ हंसाय नमः । ॐ हंसगतये नमः । ॐ हविषे नमः । ॐ हिरण्यवर्णाय नमः । ॐ हितकृते नमः । ॐ हर्षदाय नमः । ॐ हेमभूषणाय नमः । ९७० ॐ हरप्रियाय नमः । ॐ हितकराय नमः । ॐ हतपापाय नमः । ॐ हरोद्भवाय नमः । ॐ क्षेमदाय नमः । ॐ क्षेमकृते नमः । ॐ क्षेम्याय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षामवर्जिताय नमः । ॐ क्षेत्रपालाय नमः । ९८० ॐ क्षमाधाराय नमः । ॐ क्षेमक्षेत्राय नमः । ॐ क्षमाकराय नमः । ॐ क्षुद्रघ्नाय नमः । ॐ क्षान्तिदाय नमः । ॐ क्षेमाय नमः । ॐ क्षितिभूषाय नमः । ॐ क्षमाश्रयाय नमः । ॐ क्षालिताघाय नमः । ॐ क्षितिधराय नमः । ९९० ॐ क्षीणसंरक्षणक्षमाय नमः । ॐ क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकाय नमः । ॐ क्षितिभृन्नाथतनयामुखपङ्कजभास्कराय नमः । ॐ क्षताहिताय नमः । ॐ क्षराय नमः । ॐ क्षन्त्रे नमः । ॐ क्षतदोषाय नमः । ॐ क्षमानिधये नमः । ॐ क्षपिताखिलसन्तापाय नमः । ॐ क्षपानाथसमाननाय नमः । १००० ॐ फालनेत्रसुताय नमः । ॐ सकलजीवाधारप्राणवर्धनाय नमः । ॐ यज्ञेशवैश्वानरतनूद्भवाय नमः । ॐ महेश्वरमस्तकविलसद्गङ्गासुताय नमः । ॐ नक्षत्रात्मककृत्तिकाप्रियसूनवे नमः । ॐ गौरीहस्ताभ्यां सम्भाविततिलकधारिणे नमः । ॐ देवराजराज्यप्रदाय नमः । ॐ श्रीवल्लिदेवसेनासमेत श्रीसुब्रह्मण्यस्वामिने नमः । १००८ ॥ इति श्रीस्कान्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे षण्मुखसहस्रनामावलिः सम्पूर्णम् ॥ फलश्रुति - इति नाम्नां सहस्राणि षण्मुखस्य च नारद । यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १॥ स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः । आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ २॥ वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति । तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ ३॥ श्रीसुब्रह्मण्य अर्चना । ॐ भवस्य देवस्य सुताय नमः । ॐ सर्वस्य देवस्य सुताय नमः । ॐ ईशानस्य देवस्य सुताय नमः । ॐ पशुपतेर् देवस्य सुताय नमः । ॐ रुद्रस्य देवस्य सुताय नमः । ॐ उग्रस्य देवस्य सुताय नमः । ॐ भीमस्य देवस्य सुताय नमः । ॐ महतो देवस्य सुताय नमः । ॐ श्रीवल्लिदेवसेनासमेत श्रीशिवसुब्रह्मण्यस्वामिने नमः । नानाविधपरिमलपत्रपुष्पाणि समर्पयामि । समस्तोपचारान् समर्पयामि । See also the SubrahmanyasahasranAmastotra.