अक्षर आकार:

श्रीस्कन्दस्तोत्रम् अथवा सुब्रह्मण्यस्तोत्रम्

Skanda Stotram or Subrahmanya Stotram

श्रीस्कन्दस्तोत्रम् अथवा सुब्रह्मण्यस्तोत्रम्

ॐ श्रीगणेशाय नमः । युधिष्ठिरौवाच- भगवन्श्रोतुमिच्छामि नामानि च महात्मनः । त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ १॥ वैशम्पायन उवाच- इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ । उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ २॥ आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः । मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ ३॥ कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः । शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ ४॥ अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा । दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः ॥ ५॥ षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः । कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ६॥ प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः । var विरागश्च सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ ७॥ खचारी ब्रह्मचारी च शूरः शरवणोद्भवः । var सुरः विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा । वासुदेवप्रियश्चैव प्रियः प्रियकृदेवतु ॥ ८॥ नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् । स्वर्गं कीर्तिं धनं चैव स लभेन्नात्रसंशयः ॥ ९॥ मार्कण्डेय उवाच - स्तोष्यामि देवैरृषिभिश्च जुष्टं शक्त्या गुहं नामभिरप्रमेयम् । षडाननं शक्तिधरं सुवीर निबोध चैतानि कुरुप्रवीर ॥ १०॥ ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतां वरिष्ठः । ब्रह्मप्रियः ब्राह्मणसर्वमन्त्री त्वं ब्रह्मणां ब्राह्मणानां च नेता ॥ ११॥ स्वाहा स्वधा त्वं परमं पवित्रं मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः । संवत्सरस्त्वमृतवश्च षड्वै मासार्धमासाश्च दिनं दिशश्च ॥ १२॥ त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः सहस्रचक्षुरसि सहस्रबाहुः । त्वं लोकपालः परमं हविश्च त्वं भावनः सर्वसुरासुराणाम् ॥ १३॥ त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शक्रजेता । सहस्रपात्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक्च ॥ १४॥ सहस्रशीर्ष्णस्त्वमनन्तरूपः सहस्रपात्त्वं दशशक्तिधारी । गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव ॥ १५॥ त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी । दीक्षाऽसि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥ १६॥ सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोग्रधन्वा । ऋतस्य कर्ता दितिजान्तकस्त्वं जेता रिपूणां प्रवरः सुराणाम् ॥ १७॥ सूक्ष्मं तपस्तत्परमं त्वमेव परावरज्ञोऽसि परावरस्त्वम् । धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कृत्स्नमिदं महात्मन् ॥ १८॥ व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुतलोकनाथ । नमोऽस्तु ते द्वादशनेत्रबाहो अतःपरं वेद्मि गतिं न तेऽहम् ॥ १९॥ स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः । श्रावयेद्ब्राह्मणेभ्यो यः श‍ृणुयाद्वा द्विजेरितम् ॥ २०॥ धनमायुर्यशोदीप्तं पुत्रान् शत्रुजयं तथा । स पुष्टितुष्टी संप्राप्य स्कन्दसालोक्यमाप्नुयात् ॥ २१॥ ॥ इति श्रीमन्महाभारतवनपर्वान्तर्गतं स्कन्द (सुब्रह्मण्य) स्तोत्रं सम्पूर्णम् ॥ स्कन्दाष्टोत्तरशतनामस्तोत्रम् The first half is also given as Skanda Panchashata Nama Stotram श्रीस्कन्दपञ्चाशतनामस्तोत्रम् and corresonding nAmAvalI