अक्षर आकार:

श्रीस्कन्दस्तवम्

Shri Skandastava

श्रीस्कन्दस्तवम्

(शिवमहापुराणे) वामदेव उवाच । ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने । प्रणवाक्षरबीजाय प्रणवाय नमोनमः ॥ २२॥ १ वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने । वेदान्तार्थविदे नित्यं विदिताय नमोनमः ॥ २३॥ २ नमो गुहाय भूतानां गुहासु निहिताय च । गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ २४॥ ३ अणोरणीयसे तुभ्यं महतोपि महीयसे । नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ २५॥ ४ स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे । नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ २६॥ ५ शिवशिष्याय पुत्राय शिवस्य शिवदायिने । शिवप्रियाय शिवयोरानन्दनिधये नम ॥ २७॥ ६ गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते । उमापुत्राय महते शरकाननशायिने ॥ २८॥ ७ षडक्षरशरीराय षड्विधार्थविधायिने । षडध्वातीतरूपाय षण्मुखाय नमोनमः ॥ २९॥ ८ द्वादशायतनेत्राय द्वादशोद्यतबाहवे । द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ३०॥ ९ चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे । वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ ३१॥ १० गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे । नमो गजाननानन्दमहिमानन्दितात्मने ॥ ३२॥ ११ ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिन्तितकीर्तिधाम्ने । वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ ३३॥ १२ इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् । यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ ३४॥ १३ महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्धनम् । आयुरारोग्यधनकृत्सर्वकामप्रदं सदा ॥ ३५॥ १४ इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् । प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ ३६॥ साष्टाङ्गं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् । अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ॥ ३७॥ वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् । श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ॥ ३८॥ तमुवाच महासेनः प्रीतोऽस्मि तव पूजया । भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम् ॥ ३९॥ मुने त्वं योगिनांमुख्यः परिपूर्णश्च निस्पृहः । भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥ ४०॥ तथापि धर्मरक्षायै लोकानुग्रहकाङ्क्षया । त्वादृशा साधवस्सन्तो विचरन्ति महीतले ॥ ४१॥ श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् । तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे ॥ ४२॥ इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः । प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ॥ ४३॥ वामदेव उवाच । भगवन्परमेशस्त्वं परापरविभूतिदः । सर्वज्ञसर्वकर्ता च सर्वशक्तिधरः प्रभुः ॥ ४४॥ जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः । तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ॥ ४५॥ कृतार्थोऽहं महाप्राज्ञ विज्ञानकणमात्रतः । प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ॥ ४६॥ प्रणवो हि परः साक्षात्परमेश्वरवाचकः । वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥ ४७॥ वाचकेन समाहूतः पशून्मोचयते क्षणात् । तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥ ४८॥ ॐ मितीदं सर्वमिति श्रुतिराह सनातनी । ओमिति ब्रह्म सर्वं हि ब्रह्मेति च समब्रवीत् ॥ ४९॥ देवसेनापते तुभ्यन्देवानाम्पतये नमः । नमो यतीनाम्पतये परिपूर्णाय ते नमः ॥ ५०॥ एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते । सर्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ॥ ५१॥ समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया । न जातुचिन्महासेन सम्प्राप्तस्त्वादृशो गुरुः ॥ ५२॥ अतः कृत्वानुकम्पां वै तमर्थं वक्तुमर्हसि । उपदेशविधानेन सदाचारक्रमेण च ॥ ५३॥ स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः । अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ॥ ५४॥ इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम् । सहितमुनया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥ ५५॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनंनामैकादशोऽध्यायान्तर्गतम् स्कन्दस्तवं सम्पूर्णम् ॥ shivapurANam, saMhitA 6 (kailAsasaMhitA), adhyAyaH 11 Although the initial stotra ends at verse 35, verse 44 onwards also constitute relevant praise of Skanda, so is included for reference.