अक्षर आकार:

श्रीस्कन्दपञ्चाशतनामस्तोत्रम्

Shri Skanda Panchashata Nama Stotram

श्रीस्कन्दपञ्चाशतनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । मार्कण्डेय उवाच आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः । मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ १॥ कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः । शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ २॥ अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा । दीप्तशक्तिः प्रशान्तात्मा भद्रकुकुटमोहनः ॥ ३॥ षष्टीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः । कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ४॥ प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः । सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ ५॥ खचारी ब्रह्मचारी च सुरः शरवणोद्भवः । विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ॥ ६॥ वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु । नामान्येतानि दिव्यानि कार्तिकेयस्य यःपठेत् । स्वर्गं कीर्तिं धनं चैव स लभेन्नात्रसंशयः ॥ ७॥ व्याप्तं जगत्सर्वसुरप्रवीर शक्त्या मया संस्तुतलोकनाथ । नमोऽस्तु ते द्वादशनेत्रबाहो अतःपरं वेद्मि गतिं न देहम् ॥ इति महाभारतान्तर्गतं श्रीस्कन्दपञ्चाशतनामस्तोत्रं सम्पूर्णम् ।