अक्षर आकार:

श्रीस्कन्दलक्ष्मीदुर्गा सुप्रभातस्तुतिः

Shri Skanda Lakshmi Durga Suprabhata Stuti

श्रीस्कन्दलक्ष्मीदुर्गा सुप्रभातस्तुतिः

श्रीस्कन्दगुरु भुजङ्गस्तोत्रं च shrIskandaguru bhuja~NgastotraM श्रीमत्स्कन्दनगावास श्रीविधायक षण्मुख । उत्तिष्ठ करुणामूर्ते शान्तानन्दविधायक ॥ १॥ श्रीमत्स्कन्दनगावासे सर्वसत्त्वमयीश्वरि । उत्तिष्ठाष्टादशभुजे लक्ष्मीदुर्गे नमोऽस्तु ते ॥ २॥ ज्योतिषा महता सर्वलोकाज्ञानविनाशक । उत्तिष्ठ स्कन्द लोकेश प्रणवार्थोपदेशक ॥ ३॥ सर्वलोकैकमातस्त्वं शुम्भासुरनिबर्हिणि । उत्तिष्ठ लोकक्षेमाय लक्ष्मीदुर्गे महाद्युते ॥ ४॥ तारं ध्वजाग्रलसितो वरताम्रचूडः ऊर्ध्वं विधाय निजमस्तकमात्तमोदः । त्वन्नाम कीर्तनमयं कुरुते पवित्रं स्कन्दाचलेश गिरिजासुत सुप्रभातम् ॥ ५॥ कल्याणकारिणि कराम्बुजशोभि पाशे कारुण्यपूर्णहृदये कमनीयकान्ते । कामादि वैरिहरणे कुशलेऽस्तु लक्ष्मी- दुर्गेऽतिदीनजनपालिनि सुप्रभातम् ॥ ६॥ श्रीकन्निमारभिध सुन्दर पूतकुल्या- तीरस्थ शाखिनिलया विविधा विहङ्गाः । कूजन्ति कर्णमधुरं विविधैः स्वरैस्तत् स्कन्दाचलेश गिरिजासुत सुप्रभातम् ॥ ७॥ वामाग्रभागविलसन्महिषोत्तमाङ्गे देव्यग्रभागपरिशोभित धर्मसिंहे । कारुण्यवर्षिकमनीयमुखेऽद्य लक्ष्मी- दुर्गे नमोऽस्तु नतपालिनि सुप्रभातम् ॥ ८॥ एते त्रिशुद्धिक्ष् सहिता महिता द्विजेन्द्राः वेदागमादिक्ष् निपुणा विदिताखिलार्थाः । भक्त्योच्चरन्ति मधुरं निगमस्य मन्त्रं श्रीदण्डशोभिकर सुन्दर सुप्रभातम् ॥ ९॥ मांसं सुरामपि बलिं परिवर्जयेति या व्याहरत् सकलजीवदयापरीता । सा त्वं समस्तजगतां कुरुषेऽति भद्रं दुर्गेऽम्बिकेऽस्तु भुवनेश्वरि सुप्रभातम् ॥ १०॥ अग्रे तवाद्य मधुरस्वरकृष्टचित्ताः तालाभिरञ्जितकरा वरगायकाश्च । गायन्ति ते गुणगणानितरानवाप्यान् मध्यार्पितैककर सुन्दर सुप्रभातम् ॥ ११॥ मातस्त्वदीय पदपङ्कजभक्तिभाजां कुर्वन्ति वज्रधरवायुमुखास्सुसेवाम् । वक्तुं प्रभावमखिलं तव कोनु शक्तः दुर्गे नमोऽस्तु तव संप्रति सुप्रभातम् ॥ १२॥ तिष्ठत्यसौ च जनताश्रुपरीतनेत्राः धृत्वा सुगन्धयुतबन्धुरपुष्पमालाः । ज्योतिर्निरीक्षितुमुदारपदारविन्द स्कन्दाचलेश करुणाकर सुप्रभातम् ॥ १३॥ पुत्रं पुरा किल वियुक्तमतिप्रकोपात् स्कन्दं निरीक्षितुमतीव समुत्सुका त्वम् । स्कन्दाद्रिमागतवती सहसैव लक्ष्मी- दुर्गे नमोऽस्तु नतपालिनि सुप्रभातम् ॥ १४॥ श्रीस्कन्दाचलशोभिनं सुरनतां रम्याननं सुन्दरीं भक्तानामभयप्रदं कलिमलध्वंसैकबद्धादराम् । कारुण्याम्बुनिधिं सुशक्तिसहितां सर्वार्थदानक्षमं दुर्गालक्ष्म्यभिधां नमेम जननीं श्रीदण्डपाणिञ्च तम् ॥ १५॥ आरक्तसुन्दरनखेन्दुरुचानुलिप्तौ मञ्जीरमञ्जुलनिनादमनोभिरामौ । योगीन्द्रमूर्धविनतौ सकलेष्टदौ ते स्कन्दाचलेशचरणौ शरणं प्रपद्ये ॥ १६॥ सूर्यस्त्वदाप्तवरदीधितिरम्ब सर्वान् लोकान् प्रबोधयितुमेष उदेति रम्यः । त्वञ्चापि पश्य करुणान्वितलोचनाभ्यां दुर्गे तवाद्य चरणौ शरणं प्रपद्ये ॥ १७॥ यस्सङ्कटं गुरुमवाप्य सकृद्गुहेति भक्त्या वदत्यनुपमं तव नाम तं हि । यौ रक्षतस्सपदितावरविन्दतुल्यौ स्कन्दाचलेशचरणौ शरणं प्रपद्ये ॥ १८॥ शुम्भं निशुम्भमपि लोकहितैषिणि त्वं हत्वा शुभं व्यरचयः करुणाम्बुराशे । मातस्वदीयकरुणा वचसामतीता स्कन्दाद्रिगेऽद्य चरणौ शरणं प्रपद्ये ॥ १९॥ सृष्टिस्थितिप्रलयकारक दीनबन्धो क्रौञ्चाद्रिभेदक विरिञ्चिमुखामरेड्य । भक्तेष्टदायक दशद्विभुजाक्षिशोभिन् स्कन्दाचलेश चरणौ शरणं प्रपद्ये ॥ २०॥ मोहं व्यपोहय मतिं कुरु पावनां मे सन्मार्गसञ्चरणलोलुपतां प्रयच्छ । चित्तं कुरुष्व पदपङ्कजयुग्मलग्नं मातस्त्वाद्यचरणौ शरणं प्रपद्ये ॥ २१॥ भक्तैकवश्य परिचिन्त्य बिभेमि नाहं भोग्या भवेद्यमपुरेऽधिकयातनेति । भक्त्या मुहुर्मुहुरिमौ भयहारिणौ ते स्कन्दाचलेश चरणौ शरणं प्रपद्ये ॥ २२॥ वाचालमम्ब कुरुषे सदयेऽतिमूकं दीनं करोषि सहसैव धनाधिनाथम् । अज्ञानिनं प्रतिभया सहितं करोषि मातुस्तवाद्य चरणौ शरणं प्रपद्ये ॥ २३॥ स्कन्देति कुक्कुटयुतेति गुहेति यस्त्वां वाचाह्वयत्यधिकभक्तियुता सकृद्वा । तस्मै प्रयच्छसि समीहितमर्थमाशु स्कन्दाचलेश चरणौ शरणं प्रपद्ये ॥ २४॥ शान्तान्तरङ्गयतिवन्दितपादपद्मे त्वामर्चयन्ति वनिता यदि भक्तिपूर्णाः । सौभाग्यमाप्य सकलञ्च मुदं लभन्ते दुर्गेऽम्बिकेऽद्य चरणौ शरणं प्रपद्ये ॥ २५॥ सुरसैन्यपतेऽसुरसैन्यरिपो करशोभितदण्डमहाण्डकर । खरतारकमारक तारक मे मरणादि भयं हर वीरवर ॥ २६॥ जगतां जननीं रजनीशमुखीं नमनीयपदां कमनीयरुचिम् । महिषासुरमर्दनलोलपदां भजतां भजतां भवभीतिहराम् ॥ २७॥ अनघं जगतां जनकं धनदं वरदं शरदिन्दुसमानमुखम् । वरनीरजलोचनमार्तिहरं करदण्डधरं प्रणमामि गुहम् ॥ २८॥ अरुणां करुणालसदक्षियुगां गुरुनाथसुतां तरुणार्कविभाम् । सुरराजनुतां दरहासयुतां नमतां नमतां सकलार्थकरीम् ॥ २९॥ गिरिवासरतं गिरिजात्मभवं हरिजारमणं हरिणाङ्कमुखम् । करिवक्त्रसहोदरमादरतो दुरितक्षतये धुरि भातु महः ॥ ३०॥ पुरतः स्फुरदात्मज रम्यमुखा- म्बुजलोचन लोलनिजाक्षियुगाम् । सुलभां सुखदां वरदां करदां भज लक्ष्म्यभिधां जननीं जगताम् ॥ ३१॥ शरच्चन्द्रतुल्यं मुखं शारदाम्भो- रुहस्पर्धिपादद्वयञ्चाक्षियुग्मम् । द्षित्कालदण्डोज्जवलं पाणिपद्मं सदा मानसे भातु मे तारकारे ॥ ३२॥ कृपास्राव्यपाङ्गादृतानन्तभक्ता दशाष्टाभिराशोभिता बाहुभिर्या । वरस्कन्दगिर्याश्रया सा महाभा सदा भातु देवी मदीयान्तरङ्गे ॥ ३३॥ न रूपं मनो मोहकं नापि वाणी मनो हारिणी स्कन्दशैलाधिवास । न विद्वत्वमप्यस्ति गाङ्गेय भक्तिं मदीयामवेक्ष्य प्रसीद प्रसीद ॥ ३४॥ सदाचारलोलं मनस्सत्यवाचं सदान्योपकारे रतत्वं महत्वम् । पुनर्जन्महीनत्वमाप्तुं प्रमोदं महालक्ष्म्यभीष्टप्रदाङ्घ्री भजेऽहम् ॥ ३५॥ त्वया तुल्य एको न चास्ते न चास्ते क्षमौदार्यशीलो महेशस्य सूनो । नरो मत्समो नास्ति पापैकलोभी क्षमस्व क्षमस्व प्रभो मेऽपराधान् ॥ ३६॥ त्वमेवाम्ब माता मदीया भवान्यां पुनर्मातरं मा कुरु स्कन्दमातः । क्षमस्वापराधान् महेन्द्रादिवन्द्ये प्रसीद प्रसीदानुकम्पा गुणाढ्ये ॥ ३७॥ शान्तानन्द महायोगिन् हृदयानन्ददायक । स्कन्दाचलशिरश्शोभिन् कुरु सर्वस्य मङ्गलम् ॥ ३८॥ स्कन्दाद्रिशिखरावासा कामितार्थप्रदायिनी । लक्ष्मीदुर्गास्वरूपा सा करोतु मम मङ्गलम् ॥ ३९॥ मयूरप्रियवाहाय कुक्कुटध्वजशोभिने । पाणिना धृतदण्डाय बालस्कन्दाय मङ्गलम् ॥ ४०॥ अष्टादशभुजैर्युक्ता शिष्टावनधुरन्धरा । इष्टानिष्टविहीना सा करोतु भुवि मङ्गलम् ॥ ४१॥ अरुणाम्बुजपादाय करुणारसवार्धये । तरुणाय सदा तुभ्यं गुरुनाथाय मङ्गलम् ॥ ४२॥ वन्द्यमानजनाज्ञानध्वंसकारिपदाम्बुजे । लक्ष्मीदुर्गे कृपापाङ्गैः कुरु सर्वत्र मङ्गलम् ॥ ४३॥ इति श्रीस्कन्दलक्ष्मीदुर्गा सुप्रभातस्तुतिः श्रीस्कन्दगुरु भुजङ्गस्तोत्रं सम्पूर्णम् ।