अक्षर आकार:

स्कन्दलहरी

skandalaharI

स्कन्दलहरी

ॐ श्रीगणेशाय नमः । श्रीः । श्रियै भूयाः श्रीमच्छरवणभव त्वं शिवसुतः प्रियप्राप्त्यै भूयाः प्रतनगजवक्त्रस्य सहज । त्वयि प्रेमोद्रेकात्प्रकटवचसा स्तोतुमनसा मयाऽऽरब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १॥ निराबाधं राजच्छरदुदितराकाहिमकर- प्ररूढज्योत्स्नाभास्मितवदनषट्कस्त्रिणयनः । पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः करोतु स्वास्थ्यं वै कमलदलबिन्दूपमहृदि ॥ २॥ न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं var नतजनपरित्राण निपुणं विलोके भीतानां निखिलभयभीतैकशरणम् । var विध्वंसनचणम् । कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥ ३॥ शिव स्वामिन् देव श्रितकलुषनिःशेषण गुरो var शेषण विभो भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट । शिवप्राप्त्यै सम्यक्फलितसदुपायप्रकटन ध्रुवं त्वत्कारुण्ये कलिरपि कृती भूपविभवः ॥ ४॥ अशक्तानां कर्मस्वपि निखिलनिःश्रेयसकृतौ पशुत्वग्रस्तानां पतिरसि विपाशत्वकलने । प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचां अशक्तानां कर्ता जगति धृतशक्तिः किल भवान् ॥ ५॥ var जगत्कर्ता भर्ता भवसि विनिहर्ताऽन्तसमये रुषाऽऽर्तानां हर्ता विषयिविषयाणां घटयिता तृषाऽऽर्तानां काले परममृतवर्षी घन इव । मृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो विषग्रस्तानां त्वं सकलभयहर्ता विलससि ॥ ६॥ रसाधिक्यं भक्तैरधिकमधिकं वर्षय विभो प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम् । असारे संसारे सदसति न लिप्तं मम मनः var सदसति न सङ्गो भवतु मे कुसीदं भूयान्मे कुशलवति निःश्रेयसपथे ॥ ७॥ महामोहारण्ये विचरति मनस्तन्नियमयन् अहन्तां निश्शेषीकुरु करुणया त्वं स्नपय माम् । महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्व नु तमः ॥ ८॥ वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं मिलत्कारुण्यार्द्रं मृदितभुवनार्ति स्मितपदम् । पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं दलद्दैन्यं खेदं हरतु सततं नः सुरगुरो ॥ ९॥ var नः शरजने अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन् क्षितिस्तोयं वह्निर्मरुदसि वियत्तत्त्वमखिलम् । पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां धृतिस्त्वं ध्यातः सन् दिशसि निजसायुज्यपदवीम् ॥ १०॥ त्वदात्मा त्वच्चित्तस्त्वदनुभवबुद्धिस्मृतिपथः त्वया व्याप्तं सर्वं जगदिदमशेषं स्थिरचरम् । var त्वया व्याप्त्वदलोकः सदा योगी साक्षाद्भजति तव सारूप्यममलं त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः२॥ ११॥ var भवति दुरवापं त्रिजगति ॥ कति ब्रह्मणो वा कति कमलनेत्राः कति हराः कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः । कृताज्ञाः सन्तस्ते विविधकृतिरक्षाभृतिकराः अतः सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम् ॥ १२॥ नमस्ते स्कन्दाय त्रिदशपरिपालाय महते नमः क्रौञाभिख्यासुरदलनदक्षाय भवते । नमः शूरक्रूरत्रिदशरिपुदण्डाध्वरकृते var नमः प्रष्ठ क्रूर नमो भूयो भूयो नतिकृदवने जागरवते ॥ १३॥ शिवस्त्वं शक्तिस्त्वं तदुभयतमैक्यं पृथगसि var शिवस्त्वं शक्तिस्त्वं प्रथयसि तदैक्यं गुह विभो स्तवे ध्याने पूजाजपनियममुख्येष्वभिरताः । भुवि स्थित्वा भोगान् सुचिरमुपभुज्य प्रमुदिताः भवन्ति स्थाने तत् तदनु पुनरावृत्तिविमुखाः ॥ १४॥ var भवन्ति त्वत्स्थाने गुरोर्विद्यां लब्ध्वा सकलभयहन्त्रीं जपपराः पुरश्चर्यामुख्यक्रमविधिजुषो ध्याननिपुणाः । व्रतस्थैः कामौघैरभिलषितवाञ्छां प्रियभुजः चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः ॥ १५॥ शरज्ज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बाभरुचिरं var स्फटिकनिकुरुम्बान्तिविमलं स्फुरन्मुक्ताहारं धवलवसनं भावयति यः । प्ररोहत्कारुण्यामृतबहुलधाराभिरभितः चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः ॥ १६॥ वृधा कर्तुं दुष्टान् विविधविषवेगान् शमयितुं सुधारोचिष्कोटि प्रतिभटरुचिं भावयति यः । अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरात् var कर्तुं भक्तो भवति विधत्ते सर्पाणां विविधविषदर्पापहरणम् ॥ १७॥ प्रवालाभापूरे प्रसरति महस्ते जगदिदं दिवं भूमिं काष्ठाः सकलमपि सञ्चिन्तयति यः । द्रवीकुर्याच्चेतस्त्रिदशनिवहानामपि सुखाद्- भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः ॥ १८॥ नवाम्भोदश्यामं मरकतमणिप्रख्यमथ वा भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ । दिविष्ठानां भूमावपि विविधदेशेषु वसतां नृणां देवानां वा वियति चरतां पत्रिफणिनाम् ॥ १९॥ var ध्रुवं पक्षीणां वा भुजगवनितानां सपदि सः ॥ १९ कुमार श्रीमंस्त्वां कनकसदृशाभं स्मरति यः समारब्धस्तम्भे सकलजगतां वा प्रभवति । समस्तद्युःस्थानां प्रबलपृतनानां सवयसां प्रमत्तव्याघ्राणां किटिहयगजानां च सपदि ॥ २०॥ घटात्कारैः साकं सहकृतमहाधूमपटल- var छटात्कारैः साकं स्फुटाकारं साक्षात्स्मरति यदि मन्त्री सकृदपि । हठादुच्चाटाय प्रभवति मृगाणां स पततां पटुर्विद्वेषे स्याद्विधिरचितपाशं विघटयन् ॥ २१॥ स्मरन्घोराकारं तिमिरनिकुरुम्बस्य सदृशं जपन्मन्त्रान् मर्त्यः सकलरिपुदर्पक्षपयिता । स रुद्रेणौपम्यं भजति परमात्मन् गुह विभो वरिष्ठः साधूनामपि च नितरां त्वद्भजनवान् ॥ २२॥ महाभूतव्याप्तं कलयति च यो ध्याननिपुणः स भूतैः सन्त्यक्तस्त्रिजगति च योगेन सरसः । गुह स्वामिन्नन्तर्दहरयति यस्त्वां तु कलयन् जहन्मायो जीवन्भवति स विमुक्तः पटुमतिः ॥ २३॥ शिवस्वामिन् गौरीप्रियसुत मयूरासन गुहे- त्यमून्युक्त्वा नामान्यखिलदुरितौघान् क्षपयति । इहासौ लोके तु प्रबलविभवस्सन् सुविचरन् विमानारूढोऽन्ते तव भजति लोकं निरुपमम् ॥ २४॥ तव श्रीमन्मूर्तिं कलयितुमनीशोऽहमधुना भवत्पादाम्भोजं भवभयहरं नौमि शरणम् । अतः सत्याद्रीश प्रमथगणनाथात्मज विभो गुह स्वामिन् दीने वितनु मयि कारुण्यमनिशम् ॥ २५॥ भवायानन्दाब्धे श्रुतिनिकरमूलार्थमखिलं निगृह्य व्याहर्तुं कमलजमसक्तं तु सहसा । ब्रुवाणस्त्वं स्वामिक्षितिधरपते देशिकगुरो var स्वामिक्षितिधरपते स्वामिमलै गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ २६॥ अगस्त्यप्रष्ठानाममलहृदयाब्जैकनिलयं सकृद्वा न ध्यातं पदकमलयुग्मं तव मया । तथापि श्रीजन्ति स्थलनिलय देवेश वरद var श्रीजन्ति तिरुछेन्दूर् ?? गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ २७॥ रणे हत्वा शक्त्या सकलदनुजांस्तारकमुखान् हरिब्रह्मेन्द्राणामपि सुरमुनीनां भुवि नृणाम् । मुदं कुर्वाणः श्रीशिवशिखरिनाथ त्वमखिलांआ var शिवशिखरिनाथ शिवगिरि गुह स्वामिन् दीने मयि वितनु कारुण्यमनिशम् ॥ २८॥ शरद्राकाजैवातृक विमलषड्वक्त्रविलसद्- द्विषड्बाहो शक्त्या विदलितमहाक्रौञ्चशिखरिन् । हृदावास श्रीहल्लकगिरिपते सर्वविदुषां गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ २९॥ महान्तं केकीन्द्रं वरद सहसाऽऽरुह्य दिविषद्- गणानां सर्वेषामभयद मुनीनां च भजताम् । बलारातेः कन्यारमण बहुपुण्याचलपते गुह स्वामिन्दीने मयि वितनु कारुण्यमनिशम् ॥ ३०॥ महद्ब्रह्मानन्दं परशिवगुरुं सन्ततलसत्- तटित्कोटिप्रख्यं सकलदुरितार्तिघ्नममलम् । हरिब्रह्मेन्द्रामरगणनमस्कार्यचरणं गुहं श्रीसङ्गीतप्रियमहमन्तर्हृदि भजे ॥ ३१॥ नमःस्कन्ददेवाय । इति श्रीस्कन्दलहरी समाप्ता ।