अक्षर आकार:

स्कन्ददण्डकम्

Skanda Dandakam

स्कन्ददण्डकम्

ॐश्रीगणेशाय नमः । (हरिगीतपुरेशश्रीसुब्रह्मण्यस्तुतिः - हरिप्पाड् क्षेत्रं - केरळेषु) अयि! जय जयाम्भोजिनीजानिडिम्भोदयोद्यत्- कुसुम्भोल्लसत्फुल्लदम्भोपमर्दप्रवीणप्रभाधोरणीपूरिता- शावकाश! वरानन्दसान्द्रप्रकाश! ॥ सहैवोत्तरङ्गीभवत्सौहृदावेशमीशानपञ्चाननीपार्वतीवक्त्र- सञ्चुम्ब्यमानाननाम्भोजषट्क! द्विषत्कायरक्तौघरज्यत्पृषत्क ! ॥ स्वकीयप्रभुद्वादशात्मद्रढीयस्तमप्रेमधामायितद्वादशा- म्भोजवृन्दिष्ठबंहिष्ठसौन्दर्यधुर्येक्षण ! साधुसंरक्षण ! ॥ निजचरणवन्दनासक्तसद्वृन्दभूयस्तरानन्ददायिस्फुर- न्मन्दहासद्युतिस्यन्ददूरीकृतामन्दकुन्दप्रसूनप्रभा- कन्दळीसुन्दरत्वाभिमान ! समस्तामरस्तोमसंस्तूयमान ! ॥ जगत्याहितात्याहितादित्यपत्याहितप्रौढवक्षःस्थलोद्गच्छ- दास्रच्छटाधूमळच्छायशक्तिस्फुरत्पाणिपाथोरुह ! भक्तमन्दारपृथ्वीरुह ॥ विहितपरिरम्भवल्लीवपुर्वल्लरीमेळनोल्लासितोरस्तटश्री- निरस्ताचिरज्योतिराश्लिष्टसन्ध्याम्बुदानोपमाडम्बर ! तप्तजाम्बूनदभ्राजमानाम्बर ! ॥ पिञ्छभारप्रभामण्डलीपिण्डिताखण्डलेष्वासनाखण्ड- रोचिश्शिखण्डिप्रकाण्डोपरेद्योतमान ! पदश्रीहृतश्रीगृहव्रातमान ! ॥ प्रथितहरिगीतालयालङ्कृते ! कार्तिकेय ! आर्तबन्धो ! दयापूरसिन्धो ! नमस्ते समस्तेश ! मां पाहि पाहि प्रसीद प्रसीद ॥ कारुण्याम्बुनिधे! समस्तसुमनस्सन्तापदानोद्यत- स्फायद्दर्पभरासुरप्रभुसमूलोन्मूलनैकायन ! बिभ्राणः क्षितिभृद्विभेदनचणां शक्तिं त्वमाग्नेय ! मां पाहि श्रीहरिगीतपत्तनपते ! देहि श्रियं मे जवात् ॥ इति स्कन्ददण्डकं सम्पूर्णम् ।