अक्षर आकार:

श्रीस्कन्दषट्कम्

shrIskandaShaTkam

श्रीस्कन्दषट्कम्

ॐ श्रीगणेशाय नमः । षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् । देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम् ॥ १॥ तारकासुरहन्तारं मयूरासनसंस्थितम् । शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम् ॥ २॥ विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम् । कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम् ॥ ३॥ कुमारं मुनिशार्दूलमानसानन्दगोचरम् । वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम् ॥ ४॥ प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् । भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम् ॥ ५॥ विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम् । सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम् ॥ ६॥ स्कन्दषट्कं स्तोत्रमिदं यः पठेत् श‍ृणुयान्नरः । वाञ्छितान् लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत् ॥ ७॥ इति श्रीस्कन्दषट्कं सम्पूर्णम् ॥