अक्षर आकार:

श्रीशरवनभवमन्त्राक्षरषट्कम्

shrIsharavanabhavamantrAkSharaShaTkam

श्रीशरवनभवमन्त्राक्षरषट्कम्

ॐ श्रीगणेशाय नमः । शक्तिस्वरूपाय शरोद्भवाय शक्रार्चितायाथ शचीस्तुताय । शमाय शम्भुप्रणवार्थदाय शकाररूपाय नमो गुहाय ॥ १॥ रणन्मणिप्रोज्ज्वलमेखलाय रमासनाथप्रणवार्थदाय । रतीशपूज्याय रविप्रभाय रकाररूपाय नमो गुहाय ॥ २॥ वराय वर्णाश्रमरक्षकाय वरत्रिशूलाभयमण्डिताय । वलारिकन्यासुकृतालयाय वकाररूपाय नमो गुहाय ॥ ३॥ नगेन्द्रकन्येश्वरतत्त्वदाय नगाधिरूढाय नगार्चिताय । नगासुरघ्नाय नगालयाय नकाररूपाय नमो गुहाय ॥ ४॥ भवाय भर्गाय भवात्मजाय भस्मायमानाद्भुतविग्रहाय । भक्तेष्टकामप्रदकल्पकाय भकाररूपाय नमो गुहाय ॥ ५॥ वल्लीवलारातिसुतार्चिताय वराङ्गरागाञ्चितविग्रहाय । वल्लीकराम्भोरुहमर्दिताय वकाररूपाय नमो गुहाय ॥ ६॥ इति श्रीशरवनभवमन्त्राक्षरषट्कं सम्पूर्णम् ॥ इति शिवं ॥