अक्षर आकार:

श्रीशरवणभवमानसपूजास्तोत्रम्

shrIsharavaNabhavamAnasapUjAstotram

श्रीशरवणभवमानसपूजास्तोत्रम्

ॐ श्रीगणेशाय नमः । गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो हकारो हानिं च प्रथयतितरामेव जगति । अतो मोहान्धत्वं शिथिलयति यन्नाम गुह इ- त्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम् ॥ १॥ समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः स्वमूलायातानां समुचितफलप्रापणचणम् । स्वसेवानिष्ठानां सततमपि सौख्योपगमकं सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम् ॥ २॥ सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः समाराध्य स्वामिन् भज विहितमावाहनमिदम् । समन्तात्सद्रत्नैः समुपहितसोपानसरणि- स्फुरन्नानाशोभं रचितमपि सिंहासनमिदम् ॥ ३॥ हृतं गङ्गातुङ्गाद्यखिलतटिनीभ्योऽतिविमलं सुतीर्थं पाद्यार्थं तव निहितमङ्गीकुरु विभो । तथा पुण्यैस्तीर्थैर्विहितमिदमर्घ्याचमनकं दयार्द्रां दृष्टिं मे दिश दिश दयाब्धे हरसुत ॥ ४॥ समन्तात्स्नानीयैः परिमलगुणोत्कर्षभरितैः स्फुरन्माणिक्यादिप्रतिखचितसद्रत्नफलके । समासीनं हि त्वां सुचिरमभिषञ्चन्नसुलभं परानन्दं यास्याम्यनुपधिकृपाब्धे हरसुत ॥ ५॥ सुवासोभिश्चाङ्गं तव किल समाच्छाद्य सपदि प्रसाध्यांसे शुभ्रं विमलमुपवीतं नवगुणम् । प्रभूतांस्ते गन्धान् गिरिशसुत सन्धाय निटिले सुखासीनं हि त्वां ननु खलु दिदृक्षे चपलधीः ॥ ६॥ किरीटानां षट्कं तव हि कलयन् षण्मुख शिर- स्स्वथ ग्रीवायां ते समनुघटयन् हारलतिकाम् । ललाटेष्वातन्वन् तिलकमथ ते कुण्डलगणं समर्घं श्रोत्रेषु क्षणमपि दिदृक्षे भवसुत ॥ ७॥ अमन्दैर्मन्दारद्रुमकुसुमसङ्घैः सुरभिलैः समर्चन् सामोदं तव हि सुकुमाराङ्गमखिलम् । समन्तात्सम्प्लावां तव वदनसौन्दर्यलहरीं सदा स्मारं स्मारं सफलयितुमीशे जनिमिमाम् ॥ ८॥ समाजिघ्र स्वामिन्नगरुयुतधूपं करुणया जिघृक्षस्वापीमानमलघृतदीपानुपहृतान् । गृहाणाज्यप्लावान् मृदुलतरभक्ष्याणि विविधा- न्युपादत्स्वाप्यन्नं विविधमथ पञ्चामृतमपि ॥ ९॥ सुकर्पूरस्वादुक्रमुकयुतमेलादिकलितं सुताम्बूलं स्वामिन् सदयमुपगृह्णीष्व मृदुलम् । ततस्ते कर्पूरैस्सुरभितरनीराजनविधिं प्रकुर्वन्नाधास्ये तव शिरसि पुष्पाञ्जलिमपि ॥ १०॥ करोमि स्वामिंस्ते निखिलमुपचारं प्रवणधीः दयार्द्रास्ते दृष्टीर्विकिर गिरिजानन्दन मयि । समन्तात्संसारव्यसनकलुषीभूतहृदयं परित्रायस्वाशापरवशितमापन्नमपि माम् ॥ ११॥ इमां चेतः पूजां शरवणभुवो यः किल पठेत् सकृद्वाऽन्यैर्गीतं सपदि श‍ृणुयाद्भक्तिभरितः । न तं संसाराशा परवशयते नापि विषयाः क्रमात्पुण्यात्माऽयं ननु भजति कैवल्यपदवीम् ॥ १२॥ इति श्रीजगद्गुरुश‍ृङ्गेरीपीठाधीशश्रीचन्द्रशेखरभारती श्रीपादैःकृतं श्रीशरवणभवमानसपूजास्तोत्रं सम्पूर्णम् ।