अक्षर आकार:

मुरुकाष्टकम्

murukAShTakam

मुरुकाष्टकम्

ॐ श्री गणेशाय नमः मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः । वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ १॥ मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो । देवदेव महासेन पाहि पाहि सदा विभो ॥ २॥ मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् । मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ ३॥ मुरुकेण मुकुन्देन मुनीनां हार्दवासिना । वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ ४॥ मुरुकाय नमः प्रातः मुरुकाय नमो निशि । मुरुकाय नमः सायं मुरुकाय नमो नमः ॥ ५॥ मुरुकात्परमात्सत्याद्गाङ्गेयाच्छिखिवाहनात् । गुहात्परं न जानेऽहं तत्वं किमपि सर्वदा ॥ ६॥ मुरुकस्य महेशस्य वल्लीसेनापतेः प्रभोः । चिदम्बरविलासस्य चरणौ सर्वदा भजे ॥ ७॥ मुरुके देवसेनेशे शिखिवाहे द्विषड्भुजे । कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ८॥ इति मुरुकाष्टकं सम्पूर्णम् ॥