अक्षर आकार:

शक्रविरचितं लघुकुमारस्तोत्रम्

Laghu KumAra Stotram

शक्रविरचितं लघुकुमारस्तोत्रम्

स्कन्दध्यानम् - कार्तिकेयं महाभागं मयुरोपरिसंस्तिथम् । तप्तकाञ्चन वर्णाभं शक्तिहस्तं वरप्रदं ॥ द्विभुजं शत्रुहन्ता च नानालङ्कारभूषितम् । प्रसन्नवदनं देवम् कुमारं पुत्रदायकं ॥ अथ लघु कुमारस्तोत्रस्य शतक्रतुः ऋषिः । अनुष्टुप् छन्दः । स्कन्दो देवत । ॐ ह्रां ङम् । देवदेवं नमस्यामि कुमारं वरमच्युतं । कार्तिकेयं दुराराध्यं वह्नितेजः समुद्भवं ॥ १ ॥ उमाशङ्करजं भीमं गङ्गाया जठरे धृतं । शक्तिहस्तं विशालाक्षं षण्मुखं दीप्ततेजसं ॥ २ ॥ भक्तानुकम्पिनं दातं ब्रह्मण्यं वरदं प्रभुं । काकपक्षधरं शान्तं शिखण्डकविभूषितं ॥ ३ ॥ रक्ताम्बरं महाबाहुं मयूरवरगामिनं॥ ४ ॥ घण्टाप्रियं गणाध्यक्षं महाबलपराक्रमं । देवसेनापतिं देवं सर्वलोकहितेप्सया ॥ ५ ॥ इति शक्रविरचितं लघुकुमारस्तोत्रं सुम्पूर्णम् ।