अक्षर आकार:

श्रीकुमारत्रिशती

shrIkumAratrishatI

श्रीकुमारत्रिशती

शत्रुंजयत्रिशती ॐ अस्य श्रीकुमारत्रिशतीमहामन्त्रस्य मार्कण्डेय ऋषिः । अनुष्टुप्छन्दः । कुमारषण्मुखो देवता । कुमार इति बीजम् । शाख इति शक्तिः । विशाख इति कीलकम् । नेजमेष इत्यर्गलम् । कार्तिकेय इति कवचम् । षण्मुख इति ध्यानम् ॥ ध्यानम् - ध्यायेत् षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत् केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ ध्यायेदीप्सितसिद्धिदं भवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ अरिन्दमः कुमारश्च गुहस्स्कन्दो महाबलः । रुद्रप्रियो महाबाहुराग्नेयश्च महेश्वरः ॥ १ ॥ रुद्रसुतो गणाध्यक्षः उग्रबाहुर्गुहाश्रयः । शरजो वीरहा उग्रो लोहिताक्षः सुलोचनः ॥ २ ॥ मयूरवाहनः श्रेष्ठः शत्रुजिच्छत्रुनाशनः । षष्ठीप्रिय उमापुत्रः कार्तिकेयो भयानकः ॥ ३ ॥ शक्तिपाणिर्महेष्वासो महासेनः सनातनः । सुब्रह्मण्यो विशाखश्च ब्रह्मण्यो ब्राह्मणप्रियः ॥ ४ ॥ नेजमेषो महावीरः शाखो धूर्तो रणप्रियः । चोराचार्यो विहर्ता च स्थविरः सुमनोहरः ॥ ५ ॥ प्रणवो देवसेनेशो दक्षो दर्पणशोभितः । बालरूपो ब्रह्मगर्भो भीमो (५०) भीमपराक्रमः ॥ ६ ॥ श्रीमान् शिष्टः शुचिः शीघ्रः शाश्वतः शिखिवाहनः । बाहुलेयो बृहद्बाहुर्बलिष्ठो बलवान्बली । एकवीरो महामान्यः सुमेधा रोगनाशनः । रक्ताम्बरो महामायी बहुरूपो गणेश्वरः ॥ ८ ॥ इषुहस्तो महाधन्वी क्रौञ्चभिदघनाशकः । भिच्चाघनाशकः (for metre matching) बालग्रहो बृहद्रूपो महाशक्तिर्महाद्युतिः ॥ ९ ॥ उग्रवीर्यो महामन्युः रुचिरो रुद्रसम्भवः । भद्रशाखो महापुण्यो महोत्साहः कलाधरः ॥ १० ॥ नन्दिकेशप्रियो देवो ललितो लोकनायकः । विद्वत्तमो विरोधिघ्नो विशोको वज्रधारकः ॥ ११ ॥ श्रीकरः सुमनाः सूक्ष्मः सुघोषः सुखदः सुहृत् (१००) । वह्निजन्मा हरिद्वर्णः सेनानी रेवतीप्रियः ॥ १२ ॥ रत्नार्ची रञ्जनो वीरो विशिष्टः शुभलक्षणः । अर्कपुष्पार्चितः शुद्धो वृद्धिकागणसेवितः ॥ १३ ॥ कुङ्कुमाङ्गो महावेगः कूटस्थः कुक्कुटध्वजः । स्वाहाप्रियो ग्रहाध्यक्षः पिशाचगणसेवितः ॥ १४ ॥ महोत्तमो महामुख्यः शूरो महिषमर्दनः । वैजयन्ती महावीर्यो देवसिम्हो दृढव्रतः ॥ १५ ॥ रत्नाङ्गदधरो दिव्यो रक्तमाल्यानुलेपनः । दुःसहो दुर्लभो दीप्तो गजारूढो महातपः ॥ १६ ॥ यशस्वी विमलो वाग्मी मुखमण्डी सुसेवितः । कान्तियुक्तो वषट्कारो मेधावी मेखली महान ॥ १७ ॥ नेता नियतकल्याणो धन्यो धुर्यो धृतव्रतः । पवित्रः पुष्टिदः (१५०) पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥ १८ ॥ मनोहरो महाज्योतिः प्रदिष्टो महिषान्तकः । षण्मुखो हरपुत्रश्च मन्त्रगर्भो वसुप्रदः ॥ १९ ॥ वरिष्ठो वरदो वेद्यो विचित्राङ्गो विरोचनः । विबुधाग्रचरो वेत्ता विश्वजित् विश्वपालकः ॥ २० ॥ फलदो मतिदो माली मुक्तामालाविभूषणः । मुनिस्तुतो विशालाक्षो नदीसुतश्च वीर्यवान् ॥ २१ ॥ शक्रप्रियः सुकेशश्च पुण्यकीर्तिरनामयः । वीरबाहुः सुवीर्यश्च स्वामी बालग्रहान्वितः ॥ २२ ॥ रणशूरः सुषेणश्च खट्वाङ्गी खड्गधारकः । रणस्वामी महोपायः श्वेतछत्रः पुरातनः ॥ २३ ॥ दानवारिः कृती कामी शत्रुघ्नो गगनेचरः (२००) । सुलभः सिद्धिदः सौम्यः सर्वज्ञः सर्वतोमुखः ॥ २४ ॥ असिहस्तो विनीतात्मा सुवीरो विश्वतोमुखः । दण्डायुधी महादण्डः सुकुमारो हिरण्मयः ॥ २५ ॥ षाण्मातुरो जितामित्रो जयदः पूतनान्वितः । जनप्रियो महाघोरो जितदैत्यो जयप्रदः ॥ २६ ॥ बालपालो गणाधीशो बालरोगनिवारकः । जयी जितेन्द्रियो जैत्रो जगत्पालो जगत्प्रभुः ॥ २७ ॥ जैत्ररथः प्रशान्तश्च सर्वजिद्दैत्यसूदनः । शोभनः सुमुखः शान्तः कविः सोमो जिताहवः ॥ २८ ॥ मरुत्तमो बृहद्भानुर्बृहत्सेनो बहुप्रदः । सुदृश्यो देवसेनानीः तारकारिर्गुणार्णवः ॥ २९ ॥ मातृगुप्तो महाघोषो भवसूनुः (२५०) कृपाकरः । घोरघुष्यो बृहद्द्युम्नो धनुर्हस्तः सुवर्धनः ॥ ३० ॥ कामप्रदः सुशिप्रश्च बहुकारो महाजवः । गोप्ता त्राता (२६०) धनुर्धारी मातृचक्रनिवासिनः ॥ ३१ ॥ षडश्रिशः षडरषट्को द्वादशाक्षो द्विषड्भुजः । षडक्षरः षडर्चिश्च षडङ्गः षडनीकवत् ॥ ३२ ॥ शर्वः सनत्कुमारश्च सद्योजातो महामुनिः । रक्तवर्णः शिशुश्चण्डो हेमचूडः सुखप्रदः ॥ ३३ ॥ सुहेतिरङ्गनाऽऽश्लिष्टो मातृकागणसेवितः । भूतपतिर्गतातङ्को नीलचूडकवाहनः ॥ ३४ ॥ वचद्भू रुद्रभूश्चैव जगद्भूः ब्रह्मभूः तथा । भुवद्भूर्विश्वभूश्चैव मन्त्रमूर्तिर्महामनुः ॥ वासुदेवप्रियश्चैव प्रह्लादबलसूदनः । क्षेत्रपालो बृहद्भासो बृहद्देवोऽरिञ्जयः (३०१) ॥ ३६ ॥ इति श्रीकुमारत्रिशती समाप्ता ।