अक्षर आकार:

श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम्

Shri Muthukkumarasubrahmanyamurti SahasranAmastotram

श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम्

श्रीवैद्येश्वरमन्दिरस्थित (कुम्भघोणनगरस्य निकटवर्ति (तमिळ् नाडु) वैत्तीश्वरन् कोविल्) मुत्तुक्कुमारन् सुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम् Sahasranama is on Lord Subrahmanya at Vaitheeswaran Koil. ॥ध्यानम् ॥ षड्वक्त्रं शिखिवाहनं त्रिनयनं वल्लीशसेनापतिं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं शिवं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ गाङ्गेयं वह्निबीजं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्माणं स्कन्ददेवं गुहमचलभिदं रौद्रतेजःस्वरूपम् । सेनान्यं तारकघ्नं गजमुखसहितं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजसहितमजं देवदेवं नमामि ॥ ॥ॐ श्रीगणेशाय नमः ॥ अथ श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम् । अनन्तश्चामलोऽनादिरमरोऽनन्तसद्गुणः । अच्युतश्चानघोऽनन्तस्वरूपो निष्कलद्युतिः ॥ १॥ अनन्तफलदोऽखण्डरूपोऽनन्तोदरोऽतुलः । आनुकूल्योऽनन्तसौख्यः सुन्दरश्चामराधिपः ॥ २॥ १० षण्मातृनन्दनः स्वर्णभूषणः षण्मुखोऽमृतः । हरसूनुः पिता चाष्टादशार्णश्चादिदेशिकः ॥ ३॥ अगजाकुचपीयूषभोक्ताऽऽखण्डलार्तहृत् । अनेकासुरसंहारी तारकब्रह्मदेशिकः ॥ ४॥ सच्चिदानन्दरूपी च विधीन्द्रसुरवन्दितः । कुमारः शङ्करसुतः हारकेयूरभूषितः ॥ ५॥ षट्किरीटधरो ब्रह्मा आधारश्च परात्परः । आदित्यसोमभौमादिग्रहदोषविभञ्जनः ॥ ६॥ श्रीमान् शिवगिरीशश्च भक्तसंस्तुतवैभवः । अगस्त्यमुनिसम्बोद्धा अमरार्तिप्रभञ्जनः ॥ ७॥ मुकुन्दभागिनेयश्च द्विषण्णेत्रो द्विषड्भुजः । चन्द्रार्ककोटिसदृशः शचीमाङ्गल्यरक्षकः ॥ ८॥ हिमाचलसुतासूनुः सर्वजीवसुखप्रदः । आत्मज्योतिश्शक्तिपाणिर्भक्तसंरक्षणोद्यतः ॥ ९॥ चातुर्वर्ण्येष्टफलदः वल्लीशो दुःखनाशकः । सर्वमोक्षप्रदः पुण्यदृश्यो भक्तदयानिधिः ॥ १०॥ कोटिकन्दर्पलावण्य इच्छाज्ञानक्रियान्वितः । हरिब्रह्मेन्द्रमौल्यग्रछन्नपादाम्बुजद्वयः ॥ ११॥ वल्लीभाषणसुप्रीतो दिव्याङ्गवनमालिकः । इष्टार्थदायको बालः बालचन्द्रकलाधरः ॥ १२॥ शिष्टहृत्पद्मनिलयो दुष्टचोरकुलान्तकः । कोटिकोटिमहासिद्धमुनिवन्दितपादुकः ॥ १३॥ ७० ईशश्चेशाधिपश्चेशदेशिकश्चेश्वरात्मजः । ईशानादिमध्यान्तब्रह्मप्रणवषण्मुखः ॥ १४॥ ईशाग्रो लयभीतिघ्नः विघ्नराजसहोदरः । इन्द्रवारुणकौबेरविरिञ्च्यादिसुखप्रदः ॥ १५॥ ईशकैलासनिलय ईशसंस्तुतवैभवः । कल्पवृक्षादिकौदार्यस्सर्ववेदाग्रवासभूः ॥ १६॥ सर्वसिद्धिप्रदः सर्वसुखदः कीर्तिमान् विभुः । इन्दिरारमणप्रीतः मृत्युभीत्यादिनाशकः ॥ १७॥ सर्वशत्रुकुलारण्यज्वालाकुलदवानलः । अणिमाद्यष्टसिद्धीशो विधिविष्ण्वीश्वराधिपः ॥ १८॥ षडाधाराम्बुजगतसर्वदेवस्वरूपकः । श्रीनीपकुसुमप्रीत ईतिबाधाविनाशकः ॥ १९॥ सर्वपुण्यस्वरूपी च दातॄणां फलदायकः । देवेन्द्रकल्पको गौरीसुतो हृत्कमलालयः ॥ २०॥ तारकप्राणहरण उग्रशक्त्यायुधाधिपः । सर्वात्मनायकः कुम्भसम्भूतप्रियबोधकः ॥ २१॥ १०० चन्द्रकोटिप्रभोल्लासी हुम्फट्कारोत्सुकस्तथा । देवेश्वरो नागभूष उद्यद्भास्करकुण्डलः ॥ २२॥ उद्दण्डधीरो गम्भीरः कृपासागरलोचनः । एककालोदितानेककोटिबालरविप्रभः ॥ २३॥ जयन्तादिसुरानेककारागृहविमोचकः । रुद्राधिप उग्रबालो रक्ताम्बुजपदद्वयः ॥ २४॥ विरिञ्चिकेशवेन्द्रादिसर्वदेवाभयप्रदः । वल्लीन्द्रतनयादक्षवामालङ्कृतसुन्दरः ॥ २५॥ नतकुम्भोद्भवानेकभक्तसङ्घप्रियङ्करः । सत्याचलस्थितः शम्भुविज्ञानसुखबोधकः ॥ २६॥ गौरीशङ्करमध्यस्थो देवसङ्घामृतप्रदः । उमामहेशनयनपद्माकररविप्रभः ॥ २७॥ var दिवाकरः रणरङ्गरमाप्रोक्तजयश्रवणकौतुकः । अहङ्कृतमनोदूरो दैत्यतूलधनञ्जयख् ॥ २८॥ भक्तचित्तामृताम्बोधिः मौनानन्तसुखप्रदः । अनेकक्षेत्रनिलयो वाचिकामृतदायकः ॥ २९॥ पराद्रिस्थोऽर्णवक्षेत्रनिलयो देवपूजितः । अनेकशैलनिलयो फलभूधरनायकः ॥ ३०॥ शिवाचलनिवासी च शिवक्षेत्राधिनायकः । मानसीकपुराधीशः श्रीशैलालयसंस्थितः ॥ ३१॥ मूलाधाराम्बुजगतो स्वाधिष्ठाननिकेतनः । मणीपूरकपद्मस्थ अनाहतसुमस्थितः ॥ ३२॥ विशुद्धिकमलारूढ आज्ञाचक्रान्तरस्थितः । परमाकाशरूपी च नादब्रह्ममयाकृतिः ॥ ३३॥ महाशक्तिर्महोनाथः सर्वलोकात्मविग्रहः । महावल्लीप्रियस्सर्वरूपी सर्वान्तरस्थितः ॥ ३४॥ शिवार्थः सर्वसञ्जीवी समस्तभुवनेश्वरः । सर्वसंरक्षकस्सर्वसंहारकरताण्डवः ॥ ३५॥ चतुर्मुखशिरोदेशमुष्टिताडनविक्रमः । ब्रह्मोपदेष्टा ब्रह्मादिसुरलोकसुखप्रदः ॥ ३६॥ यज्ञदिव्यहविर्भोक्ता वरदस्सर्वपालकः । दीनसंरक्षकोऽव्याजकरुणापूरवारिधिः ॥ ३७॥ सर्वलक्षणसम्पन्नस्सच्चिदानन्दविग्रहः । ब्रह्मानन्दाब्धिशीतांशुः करुणापूर्णलोचनः ॥ ३८॥ एकाक्षरमयश्चैव एकाक्षरपरार्थदः । एकाक्षरपरञ्ज्योतिरेकान्तमतिबोधकः ॥ ३९॥ एकार्थदायकश्चैकपरश्चैकाम्रनायकः । एकान्तमौनफलदो वल्लीमोहनतत्परः ॥ ४०॥ १८० सप्तर्षिवन्दितपदो ब्रह्मातीतो मुनिस्तुतः । वल्लीदर्शनसन्तुष्टो भक्ताभीष्टवरप्रदः ॥ ४१॥ उमाशङ्करमध्यस्थो महावृषभसंस्थितः । सम्पूर्णस्सर्वलोकात्मा नीपमाल्यविभूषितः ॥ ४२॥ १९० कल्मषघ्नो गिरिशयः पापघ्नो दीनरक्षकः । सर्वाभरणभूषाङ्को वज्रशक्त्यादिधारकः ॥ ४३॥ पञ्चाक्षरस्थः पञ्चास्यः कण्ठीरवमुखान्तकः । पञ्चभूतात्मभृत्पञ्चभूतेशः शचिवन्दितः ॥ ४४॥ पञ्चवर्णः पञ्चबाणकरः पञ्चतरुप्रभुः । ऐङ्काररूपः क्लीङ्कारः सौःकारकरुणानिधिः ॥ ४५॥ अकारादिक्षकारान्तमयश्चैरावतार्चितः । ऐरावतगजारूढस्सर्वभक्तप्रियङ्करः ॥ ४६॥ ऐरावतात्मजावल्लीनायिकाप्राणवल्लभः । चतुष्षष्टिकलानाथो द्वात्रिंशल्लक्षणोज्ज्वलः ॥ ४७॥ मदनातीतसौन्दर्यः पाषण्डजनदूरगः । पञ्चेन्द्रियप्रेरकश्च पञ्चकृत्यादिदायकः ॥ ४८॥ २२० पञ्चकृत्येश्वरः पञ्चमूर्तये पञ्चामृतप्रियः । एकार्थश्चैव निर्नाशः प्रणवार्थद एव च ॥ ४९॥ सर्वज्योतिप्रकाशी च रहःकेलिकुतूहलः । दिव्यज्योतिर्वेदमयः वेदमूलोऽर्थसङ्ग्रहः ॥ ५०॥ एकानेकस्वरूपी च रव्यादिद्युतिदायकः । ऐरावताधिपसुतानयनानन्दसुन्दरः ॥ ५१॥ चिदाकारः परञ्ज्योतिः लयोत्पत्तिविवर्जितः । सर्वशत्रुहरो मेषवरारूढो विनायकः ॥ ५२॥ एकातपत्रसाम्राज्यदायकः सुमुखानुजः । मृगीपरशुचापासिशक्त्याद्यायुधभृत्करः ॥ ५३॥ शरत्कालघनानीकमहोदारद्विषट्करः । श्रीवल्लीवामपार्श्वस्थो रव्यादिग्रहदोषभिद् ॥ ५४॥ पादकिङ्किणिकानाददैत्यविभ्रमदायकः । ओङ्कारज्योतिरोङ्कारवाचकातीतवैभवः ॥ ५५॥ ओङ्कारचित्सभासंस्थ ओङ्काराद्भुतमन्दिरः । ओङ्कारमनुसन्दाता ओङ्कारगिरिसंस्थितः ॥ ५६॥ ओङ्कारनादश्रवण ओङ्कारातीतविग्रहः । ओङ्कारनादान्तगतः ओन्नित्यादिषडक्षरः ॥ ५७॥ ओङ्कारपीठकान्तस्थ ओङ्कारमुकुटाग्रगः । ओङ्कारमूलसम्भूत ओङ्काराद्यन्तमध्यगः ॥ ५८॥ ओङ्कारमूलबीजार्थ ओङ्कारपरशक्तिमान् । ओङ्कारबिन्दुरोङ्कारचित्त ओङ्कारचित्पुरः ॥ ५९॥ २७० ओङ्कारफलसत्सार ओङ्कारज्ञानकोविदः । ओङ्कारसच्चिदानन्द ओङ्कारपरमात्मकः ॥ ६०॥ ओङ्कारसम्भूतसप्तकोटिमन्त्राधिनायकः । ओङ्कारप्रणवाकार अकारादिकलात्मकः ॥ ६१॥ २८० षडक्षरो द्वादशार्णः प्रणवाग्रार्णसंयुतः । महेशस्तुतिसन्तुष्टो शिवशक्त्यक्षरान्वितः ॥ ६२॥ पराक्षरकलोपेतो शिवबीजकलाश्रयः । औङ्कारनादकरुण औदासीनजनान्तकः ॥ ६३॥ औदुम्बराश्वत्थनीपबिल्वादिसमिदाहुतः । दुष्टक्रुद्धमनोदूरो शिष्टसङ्घसमाश्रितः ॥ ६४॥ अकाराद्यक्षरप्राण अकारद्यक्षरार्थकः । उदारसद्गुणोपेतो भक्तैश्वर्यप्रदायकः ॥ ६५॥ अकारादिक्षकारान्तकलाकल्पितविग्रहः । श्रीकुम्भसम्भवादीनां सर्वज्ञानोपदेशकृत् ॥ ६६॥ षडर्णमन्त्रस्मरणभक्ताभीष्टप्रदायकः । स्कन्दमूर्तिश्च गाङ्गेयो कलिकल्मषनाशनः ॥ ६७॥ भक्तसन्निहितोऽक्षोभ्यो शङ्खपाणिमुखस्तुतः । ओंश्रींह्रींसौंशरवणभवः शङ्करानन्द एव च ॥ ६८॥ शतलक्षेन्दुसङ्काशः शान्तः शशिधरात्मजः । शत्रुनाशकरश्शम्भुः शचीपतिवरप्रदः ॥ ६९॥ शक्तिमान् शक्तिहस्तश्च शान्तसर्वप्रकाशकः । शरभः शङ्खचक्रादिधरः शङ्करबोधकः ॥ ७०॥ कृत्तिकातनयः कृष्णो शङ्खपद्मनिधिप्रदः । शक्तिवज्रादिसम्पन्नद्विषट्करसरोरुहः ॥ ७१॥ शङ्कुकर्णमहाकर्णघण्टाकर्णादिवन्दितः । मूलादिद्वादशान्तस्थपद्ममध्यनिकेतनः ॥ ७२॥ सद्गुणः शङ्करः साक्षी सदानन्दः सदाशिवः । ज्ञानेश्वरः सृष्टिकर्ता सर्ववश्यप्रदायकः ॥ ७३॥ विचित्रवेषः समरविजयायुधधारकः । क्रौञ्चासुररिपुः शङ्खपतिः सर्वगणेश्वरः ॥ ७४॥ णकारतुर्यमन्त्रार्णो णकारार्णस्वरूपकः । णकारमूलमन्त्राग्रो णकाररवसंस्थितः ॥ ७५॥ णकारशिखरारूढो णकाराक्षरमध्यगः । णद्वितीयो णत्रितीयः णचतुर्थो णपञ्चमः ॥ ७६॥ णषष्ठवर्णो णार्णादिमन्त्रषड्भेदभासुरः । णकारपीठनिलयो नलिनोद्भवशिक्षकः ॥ ७७॥ नादान्तकूटस्थश्चैव नारदप्रिय एव च । नागाशनरथारूढो नान्दात्मा नागभूषणः ॥ ७८॥ नागाचलपतिर्नागो नवतत्त्वो नटप्रियः । नवग्रहादिदोषघ्नो णकारस्तम्भनिष्क्रियः ॥ ७९॥ णकाराक्षो णकारेशः णकारवृषवाहनः । तत्त्वबोद्धा दैवमणिः धनधान्यादिदायकः ॥ ८०॥ वल्लीपतिः शुद्धान्तरस्तत्त्वातीतो हरिप्रियः । तत्परः कमलारूढो षडाननसरोरुहः ॥ ८१॥ भगवान् भयहन्ता च भर्गो भयविमोचकः । भानुकोपादिदैत्यघ्नो भद्रो भागीरथीसुतः ॥ ८२॥ भवाचलमहावज्रो भवारण्यदवानलः । भवतापसुधावृष्टिर्भवरोगमहौषधः ॥ ८३॥ भानुचन्द्राग्निनयनो भावनातीतविग्रहः । भक्तचित्ताम्बुजारूढो भरतोक्तक्रियाप्रियः ॥ ८४॥ भक्तदेवो भयार्तिघ्नो भकारोच्चाटनक्रियः । भारतीशमुकुन्दादिवाङ्मनोऽतीतवैभवः ॥ ८५॥ विचित्रपक्षाश्वारूढो भुजङ्गेशो दयानिधिः । ईशफालाक्षिसम्भूतो वीरः षट्समयाधिपः ॥ ८६॥ महाव्रतो महादेवो भूतेशः शिववल्लभः । महामायी यज्ञभोक्ता मन्त्रस्थो यक्षराट्प्रियः ॥ ८७॥ सर्वश्रेष्ठो महामृत्युरूपासुरविनाशकः । रागाब्जमालिकाभूषो रागी रागाम्बरप्रियः ॥ ८८॥ रागद्वेषादिदोषघ्नो रागरत्नविभूषणः । रावणस्तुतिसन्तुष्टो रतीनायकवन्दितः ॥ ८९॥ रम्भादिनाट्यसुप्रीतो राजीवदललोचनः । रवचापधरो रक्षोवृन्दतूलहुताशनः ॥ ९०॥ रविचन्द्रादिसम्पूज्यो रथारोहकुतूहलः । रवकाञ्चीवरधरो रवयुक्ताङ्घ्रिभूषणः ॥ ९१॥ रव्युद्भवसमानेकहारकेयूरभूषितः । रविकोटिसमानाभो रत्नहाटकदायकः ॥ ९२॥ शिखीन्द्रश्चोरगाकारः निशादिनविवर्जितः । रमावाण्यादिसम्पूज्यो लक्षवीरभटस्तुतः ॥ ९३॥ वीरभूतगणस्तुत्यो श्रीरामश्चारुणो रविः । वरदो वज्रहस्तश्च वामदेवादिवन्दितः ॥ ९४॥ वलारितनयानाथो वरदाभयसत्करः । वल्लीश्वरीपतिर्वाग्मी वल्लीकल्याणसुन्दरः ॥ ९५॥ वलारिमुख्यविबुधवृन्ददुःखविमोचकः । वातरोगहरो वर्मरहितो वासवेश्वरः ॥ ९६॥ वाचकस्थो वासुदेववन्दितो वकुलप्रियः । वासनाङ्कितताम्बूलपूरिताननपङ्कजः ॥ ९७॥ वचनागमनातीतो वामाङ्गो वन्दिमोहनः । वल्लीमनोहरः साधुः देवेन्द्रप्राणदायकः ॥ ९८॥ दिगन्तवल्लभानन्तमदनोज्ज्वलरूपभृत् । सौन्दर्यार्णवपीयूषस्सर्वावयवसुन्दरः ॥ ९९॥ शिशुः कृपालुः कादम्बधरः कौबेरनायकः । धर्माधारस्सर्वधर्मस्वरूपो धर्मरक्षकः ॥ १००॥ सर्वधर्मेश्वरो बन्धुस्तीक्ष्णोऽनन्तकलान्वितः । अनन्तवेदसंवेद्यः स्वामी कनकसुप्रभः ॥ १०१॥ सर्वसाक्षी सर्वकलाश्रवणः करुणालयः । वासवस्सर्वकर्ता च कामः कपिलसंस्तुतः ॥ १०२॥ कामदः कालसंहर्ता कालः कामारिसम्भवः । कामायुधः कामधरो श्रीकृष्णः शिखिवाहनः ॥ १०३॥ ४९० कृपानिधिः कृपासिन्धुः गिरिराट् कृत्तिकाप्रियः । कीर्तिप्रदः कीर्तिधरो गीतनाट्यादिकप्रियः ॥ १०४॥ नर्क्कीरस्तोत्रसन्तुष्टस्तीर्थेशः कुलविद्गुहः । कौमारस्सर्वगुप्तश्च क्रौञ्चासुरविमर्दनः ॥ १०५॥ इन्द्रपुण्यः कुलोत्तुङ्ग अतितीक्ष्णायुधो नटः । कूटस्थः श्रीकरः कूटेशान्तकान्तकसम्भवः ॥ १०६॥ वल्लीभाषणसुप्रीतो गम्भीरो भक्तनायकः । सर्वदेवालयान्तस्थो निश्शोको निरुपद्रवः ॥ १०७॥ ५२० केदारो मदनाधीशो लयघ्नः श्रवणान्वितः । पद्महस्तो देवनुतः भक्तार्थो द्वादशायुधः ॥ १०८॥ कैवल्यो रजताद्रीशो महाराट् गोकर्णाधिपः । शूरमायाम्रतरुभिद् खण्डितासुरमण्डलः ॥ १०९॥ जयदुर्गातिसन्तुष्टो सर्वदेवस्तवाङ्कितः । हितः कोलाहलश्चित्रो नन्दितश्च वृषापतिः ॥ ११०॥ ५४० निगमाग्र्यो महाघोरास्त्रनाथो गव्यमोदिनि । सर्वेशः सुगुणश्चण्डो दिव्यकौस्तुभसन्निभः ॥ १११॥ चण्डप्रचण्डः समरविजयी निरहङ्कृतिः । सर्वस्वामी चण्डहर्ता षड्वक्त्रश्शाम्भवः सुखी ॥ ११२॥ साङ्गः सायुज्यदः सारः सामः साम्राज्यदायकः । सिद्धः शिवश्चिद्गुणश्च चिन्मयश्चित्स्वरूपकः ॥ ११३॥ श‍ृङ्गाररससम्पूर्णश्चित्तस्थः सामपारगः । शिवलोकेश्वरः सिद्धवरः सिद्धवरार्चितः ॥ ११४॥ सर्वजीवस्वरूपी च श्रीदः श्रीधरवन्दितः । शुद्धः शीतः स्वयञ्ज्योतिः सुब्रह्मण्यः शुभप्रदः ॥ ११५॥ श्रुतिज्ञः सुलभः शूरः शुद्धधीरश्च शूरहा । शूरात्मशोधकः शूरस्मर्ता च विभवप्रदः ॥ ११६॥ सर्वैश्वर्यप्रदः सर्वजयदो ब्रह्मसम्भवः । जयधीरः श्रीकरश्च सिन्धुक्षेत्रः सलक्षणः/सुलक्षणः ॥ ११७॥ अभक्तकालो रक्ताभशेखरोऽतुलविक्रमः । शैवाधिपः शैवमणिः शैवधन्यश्शिवात्परः ॥ ११८॥ चैतन्यः क्रौञ्चभेदी च गिरीशो निगमेश्वरः । स्वर्गाधिपस्सुरूपी च स्वर्गलोकादिसौख्यदः ॥ ११९॥ स्वच्छः स्वयम्भूर्भौमाख्यस्सोमधृत्कुक्कुटध्वजः । ज्योतिर्हल्लकशैलस्थः सोमः शोकभयापहः ॥ १२०॥ हितः पशुपतिः सौम्यो नतसौभाग्यदायकः । सौवर्णबीजः सौन्दर्यो दण्डपाणिर्धनप्रदः ॥ १२१॥ एकदेवः सर्वपिता धनिको द्राविडप्रियः । चण्डारिस्तारकः स्थाणुः सर्वधान्यप्रदायकः ॥ १२२॥ मातृभूतस्तारकारिर्दिव्यमाल्यविभूषितः । चित्सभेशो दिशान्नाथः धनुर्हस्तो महाभुजः ॥ १२३॥ ६४० महागुणो महाशौर्यः सर्वदारिद्र्यनाशकः । दीर्घो दिगम्बरस्तीर्थः सर्वतीर्थफलप्रदः ॥ १२४॥ रोगघ्नो दुष्टहर्ता च सर्वदुष्टभयङ्करः । आत्मज्योतिः पवित्रश्च हृद्गतश्च सहायकृत् ॥ १२५॥ कारणस्थूलसूक्ष्मान्तोऽमृतवर्षी चिदम्बरः । परमाकाशरूपी च प्रलयानलसन्निभः ॥ १२६॥ देवो दक्षिणकैलासवासी वल्लीकराञ्चितः । दृढो दिव्योऽमृतकरो देवेशो दैवतप्रभुः ॥ १२७॥ कदम्बमालापीयूषाप्लुतवक्षस्थलान्वितः । देवसेनापतिर्देवधन्यो देवगिरिस्थितः ॥ १२८॥ सर्वज्ञो देशिको धैर्यः सुरवैरिकुलान्तकः । वटुकानन्दनायोद्यद्वाद्यघोषामितप्रियः ॥ १२९॥ पुष्यर्क्षः कुण्डलधरो नित्यो दोषविभञ्जनः । प्रारब्धसञ्चितागाम्यपातकादिप्रभञ्जनः ॥ १३०॥ महाजयो महाभूतो वीरबाह्वादिवन्दितः । चोरारिः सत्त्वमार्गस्थः अलक्ष्मीमलनाशकः ॥ १३१॥ स्तुतिमालालङ्कृताढ्यो नन्दीकेशो हरप्रियः । सर्वसौख्यप्रदाता च नववीरसमावृतः ॥ १३२॥ परमेशो महारुद्रो महाविष्णुः प्रजापतिः । वीणाधरमुनिस्तुत्यश्चतुर्वर्गफलप्रदः ॥ १३३॥ निर्गुणश्च निरालम्बो निर्मलो विष्णुवल्लभः । निरामयो नित्यशुद्धो नित्यमङ्गलविग्रहः ॥ १३४॥ शिखण्डी नीपबाहुश्च नीतिर्नीराजनद्युतिः । निष्कोपश्च महोद्यानः सूक्ष्मो मेर्वादिमन्दिरः ॥ १३५॥ सूक्ष्मातिसूक्ष्मो भालाक्षो महान् सर्वोपदेशकः । सर्ववेषकलातीत उपवीती शतक्रतुः ॥ १३६॥ ७२० वेदागमपुराणज्ञो नूपुराङ्घ्रिसरोरूहः । हृत्पूर्णः पञ्चभूतस्थो कृपामार्गोऽम्बुजाश्रयः ॥ १३७॥ सन्निधिः प्रीतचित्तोऽथ निष्प्रीतिश्चात्मसंस्थितः । औपम्यरहितः प्रीतचित्तगो नैमिशाश्रयः ॥ १३८॥ नैमिशारण्यनिवसन्मुनीन्द्रनिकरस्तुतः । घण्टारवप्रीतमनाः दयाचित्तो सताङ्गतिः ॥ १३९॥ ७४० सर्वापदान्निहन्ता च सद्योऽभीष्टवरप्रदः । सर्वजीवान्तरज्योतिश्छन्दस्सारो महौषधिः ॥ १४०॥ पञ्चाक्षरपरञ्ज्योतिः सूक्ष्मपञ्चेन्द्रियद्युतिः । ज्ञानचक्षुर्गतज्योतिः सौङ्कारपरमद्युतिः ॥ १४१॥ परश्च फलशैलस्थः बालरूपः पराङ्गकः । परमेष्ठी परन्धाम पापनाशी परात्परः ॥ १४२॥ गोक्षीरधवलप्रख्यः पार्वतीप्रियनन्दनः । कटाक्षकरुणासिन्धुर्यमवृक्षकुठारिकः ॥ १४३॥ प्रभुः कपर्दी ब्रह्मेशः ब्रह्मविद् पिङ्गलप्रभः । स्वाधिष्ठानपुराधीशः सर्वव्याधिविनाशकः ॥ १४४॥ वैभवः कनकाभासः भीषणो निगमासनः । भीतिघ्नस्सर्वदेवेड्यः पुण्यस्सत्त्वगुणालयः ॥ १४५॥ पुण्याधिपः पुष्कराक्षः पुण्डरीकपुराश्रयः । पुराणः पुङ्गवः पूर्णः भूधरो भूतिधारकः ॥ १४६॥ ७८० प्राचीनः पुष्पसद्गन्धः रक्तपुष्पप्रियङ्करः । वृद्धो महामतिकरः महोल्लासो महागुणः ॥ १४७॥ मोक्षदायी वृषाङ्कस्थः यजमानस्वरूपभृत् । अभेद्यो मौनरूपी च ब्रह्मानन्दो महोदरः ॥ १४८॥ भूतप्रेतपिशाचघ्नः शिखी साहस्रनामकः । किराततनयापाणिपद्मग्रहणलोलुपः ॥ १४९॥ नीलोत्पलधरो नागकङ्कणः स्वर्णपङ्कजः । सुवर्णपङ्कजारूढः सुवर्णमणिभूषणः ॥ १५०॥ सुवर्णशैलश‍ृङ्गस्थः सुवर्णागदशोभितः । कालज्ञानी महाज्ञानी अमराचलनायकः ॥ १५१॥ लयसम्भवनिर्मुक्तः कमलोद्भवदण्डकः । सप्ताब्धिशोषकृदष्टकुलाचलविभेदकः ॥ १५२॥ मन्त्रबीजो वराबीजो मन्त्रात्मा मन्त्रनायकः । मन्त्रालयो मयूरस्थो मयूराचलनायकः ॥ १५३॥ ८२० मायाधरो महामन्त्रो महादेवो महाबुधः । मायापरो महामायी महासेनो महाप्रभुः ॥ १५४॥ अग्रबुद्धिरग्रगण्यो मिथ्यावादिकुलान्तकः । मुक्तिग्रहः कल्मषघ्नः सर्वदेवजरापहः ॥ १५५॥ सर्वदेवाङ्कुरो मुक्त अतिबालो मुनीश्वरः । दिगम्बरो भक्तिनिधिः सर्वदेवाग्रगण्यकः ॥ १५६॥ अच्युतः सर्वसम्पूर्णो महाविष्णुसुसंस्तुतः । मूर्तिर्ब्रह्माण्डकूटस्थो मूलभूतस्त्रिमूर्तिभृत् ॥ १५७॥ नामपारायणपरभक्ताभीष्टप्रदायकः । चिद्रूपः षट्क्रमानन्दो महासारस्वतप्रदः ॥ १५८॥ ज्योतिर्मयो गिरिशयः नवदुर्गाभिवन्दितः । मुकुटाङ्गदकेयूरकाञ्चीकिङ्किणिभूषितः ॥ १५९॥ नारायणविरिञ्च्यादिदेवाभीतिप्रदायकः । मेषारूढः पञ्चवर्णः सर्ववाद्यप्रियङ्करः ॥ १६०॥ मौनेश्वरो मोक्षनाथः द्वादशान्तःपुरेश्वरः । देवावृतो दीनबन्धुर्वल्लीलीलामनोहरः ॥ १६१॥ वन्दारुमहदैश्वर्यदायको वन्दनप्रियः । वकाराच्छत्रुसंहर्ता वकाराच्छत्रुपीडकः ॥ १६२॥ वकाराच्छत्रुवाक्स्तम्भो वकारात्कलिनाशकः । वकाराच्छत्रुसंहारी सकाराच्छत्रुवञ्चकः ॥ १६३॥ वकाराद्भूतपैशाचप्रेतादिभयमोचकः । वकाराद्ग्रहदोषघ्नो वकाराच्चोरनाशनः ॥ १६४॥ वकारात्सिंहसर्पाश्वव्याघ्रादिभयमोचकः । वकारान्निन्दकश्रोत्रनेत्रवाक्स्तम्भनोद्यतः ॥ १६५॥ वकारान्मृत्युसंहर्ता वकारकुलिशायुधः । वकारार्णमहारुद्रो वकारार्णमहासिकः ॥ १६६॥ वकाराद्वैरिनरराट्चोरचित्तादिविभ्रमः । वचस्यो वटुको वह्निर्वरुणो वाचको वसुः ॥ १६७॥ ८९० वश्यो वसुप्रदो दाता वामनो वचनात्परः । वागीशो वामनयनो वामः सामपरायणः ॥ १६८॥ वामक्रमार्चनप्रीतो विशाखो विमलो विधुः । विद्रुमाभो धनो बीजोऽनन्तसौदामिनीप्रभः ॥ १६९॥ निरन्तरो मन्दिरश्च नववीरनुताङ्घ्रिकः । वीरो भीमः किरातश्च सदाभक्तमनोहरः ॥ १७०॥ सर्वालयो रथारूढ अनन्तप्रलयाधिपः । नामरूपगुणक्षेत्रभेदावस्थाविवर्जितः ॥ १७१॥ सर्वपुण्याध्वरफलः सर्वकर्मफलप्रदः । सर्वागमपुराणादिपाठकृत्फलदायकः ॥ १७२॥ सर्वसम्पत्प्रदः सत्यो राजभोगसुखप्रदः । एकः प्रभुः सभानाथो निष्कलोऽनन्तवल्लभः ॥ १७३॥ ओङ्कारसिन्धुनादाग्रनटनानन्दवैभवः । षडक्षरजपोद्युक्तप्रारब्धादिप्रभेदकः ॥ १७४॥ अनन्तभुवनाधीश आदिमध्यान्तवर्जितः । इन्द्राणीमुखमाङ्गल्यरक्षकश्चेप्सितार्थदः ॥ १७५॥ उद्यत्कोटिरविप्रख्य ऊरुदण्डकरद्वयः । रुद्रकोटिसमाकीर्णलतामण्डपमध्यगः ॥ १७६॥ एलादिवासनाप्रीत ऐरावतगजस्थितः । ओङ्कारचित्सभानाथ औदार्यगुणदायकः ॥ १७७॥ अम्बिकाहृदयानन्द अच्युतेशविधिस्तुतः । करुणारसनिष्यन्दसम्पूर्णद्वादशेक्षणः ॥ १७८॥ खादिपृध्व्यन्तभूतात्मा गण्डमण्डलशोभितः । घटसम्भवसुप्रीतः सुन्दरश्चन्द्रभूषणः ॥ १७९॥ छत्रवर्यधरो जम्भभेत्तृसर्वेष्टदायकः । झलज्झलितझङ्कारकालीकङ्कणभूषितः ॥ १८०॥ ज्ञानसागरपूर्णेन्दु टङ्कशूलादिधारकः । ठकारमध्यगो डम्भगम्भीरगुणसम्भ्रमः ॥ १८१॥ ९६० ढक्काशूलधरानेकवटुकादिमसेवितः । णकारमूलनिलयस्ताटङ्काभरणोज्ज्वलः ॥ १८२॥ स्थाणुर्दयालुर्धनदो नववीरादिसंवृतः । पापाचलमहावज्रो फणिभुग्वाहनस्थितः ॥ १८३॥ बलिप्रियो भयार्तिघ्नो वरषट्चक्रमध्यगः । यक्षाधिपेशो राजीवलोचनो लक्षणोज्ज्वलः ॥ १८४॥ वल्मीकेशो शरवणभवस्तथा षण्मुखसुन्दरः । समस्तजगदाधारो हस्तद्वादशपङ्कजः ॥ १८५॥ लकारतत्त्वरूपी च क्षमासम्पूर्णवारिधिः । ज्ञानशक्तिधरः स्कन्दः अग्निभूर्बाहुलेयकः ॥ १८६॥ कुमारः षण्मुखश्चैव कृत्तिकासुत एव च । शक्त्यायुधधरः शरसम्भवः शरवणोद्भवः ॥ १८७॥ गाङ्गेयस्तारकारिश्च देवसेनापतिर्गुहः । ब्रह्मचारी शिवज्योतिः क्रौञ्चधारी शिखिस्थितः ॥ १८८॥ १००० विद्याप्रदो विजयदो बलदः सर्वरक्षकः । स्वाश्रितश्रीकरः स्वर्णवर्णाङ्गः सौख्यदायकः ॥ १८९॥ भवस्यदेवस्यसुतः सर्वस्यदेवस्यसुतः । ईशानस्यदेवस्यसुतः पशुपतेर्देवस्यसुतः ॥ १९०॥ रुद्रस्यदेवस्यसुतः उग्रस्यदेवस्यसुतः । भीमस्यदेवस्यसुतः महतोदेवस्यसुतः ॥ १९१॥ श्रीवल्लीदेवसेनसमेतश्रीकुमारसुब्रह्मण्यमूर्तये नमः । १०१६ ॥ इति श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ ॐ नमोभगवतेसुब्रह्मण्याय ॥