अक्षर आकार:

श्रीमुत्तुकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः

Shri Muthukumarasubrahmanyamurti SahasranAmAvaliH

श्रीमुत्तुकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः

श्रीवैद्येश्वरमन्दिरस्थित (कुम्भघोणनगरस्य निकटवर्ति (तमिळ् नाडु) वैत्तीश्वरन् कोविल्) मुत्तुक्कुमारन् सुब्रह्मण्यमूर्तिसहस्रनामावलिः Sahasranamavali is on Lord Subrahmanya at Vaitheeswaran Koil. ॥ध्यानम् ॥ षड्वक्त्रं शिखिवाहनं त्रिनयनं वल्लीशसेनापतिं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं शिवं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ गाङ्गेयं वह्निबीजं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्माणं स्कन्ददेवं गुहमचलभिदं रौद्रतेजःस्वरूपम् । सेनान्यं तारकघ्नं गजमुखसहितं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजसहितमजं देवदेवं नमामि ॥ ॥ॐ श्रीगणेशाय नमः ॥ अथ श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः । ॐ अनन्ताय नमः । ॐ अमलाय नमः । ॐ अनादये नमः । ॐ अमराय नमः । ॐ अनन्तसद्गुणाय नमः । ॐ अच्युताय नमः । ॐ अनघाय नमः । ॐ अनन्तस्वरूपाय नमः । ॐ निष्कलद्युतये नमः । ॐ अनन्तफलदाय नमः । १० ॐ अखण्डरूपाय नमः । ॐ अनन्तोदराय नमः । ॐ अतुलाय नमः । ॐ आनुकूल्याय नमः । ॐ अनन्तसौख्याय नमः । ॐ सुन्दराय नमः । ॐ अमराधिपाय नमः । ॐ षाण्मातृनन्दनाय नमः । ॐ स्वर्णभूषणाय नमः । ॐ षण्मुखाय नमः । २० ॐ अमृताय नमः । ॐ हरसूनवे नमः । ॐ पित्रे नमः । ॐ अष्टादशार्णाय नमः । ॐ आदिदेशिकाय नमः । ॐ अगजाकुचपीयूषभोक्त्रे नमः । ॐ आखण्डलार्तहृदे नमः । ॐ अनेकासुरसंहारिणे नमः । ॐ तारकब्रह्मदेशिकाय नमः । ॐ सच्चिदानन्दरूपिणे नमः । ३० ॐ विधीन्द्रसुरवन्दिताय नमः । ॐ कुमाराय नमः । ॐ शङ्करसुताय नमः । ॐ हारकेयूरभूषिताय नमः । ॐ षट्किरीटधराय नमः । ॐ ब्रह्मणे नमः । ॐ आधाराय नमः । ॐ परात्पराय नमः । ॐ आदित्यसोमभौमादिग्रहदोषविभञ्जनाय नमः । ॐ श्रीमते नमः । ४० ॐ शिवगिरीशानाय नमः । ॐ भक्तसंस्तुतवैभवाय नमः । ॐ अगस्त्यमुनिसम्बोद्ध्रे नमः । ॐ अमरार्तिप्रभञ्जनाय नमः । ॐ मुकुन्दभागिनेयाय नमः । ॐ द्विषण्णेत्राय नमः । ॐ द्विषड्भुजाय नमः । ॐ चन्द्रार्ककोटिसदृशाय नमः । ॐ शचीमाङ्गल्यरक्षकाय नमः । ॐ हिमाचलसुतासूनवे नमः । ५० ॐ सर्वजीवसुखप्रदाय नमः । ॐ आत्मज्योतिषे नमः । ॐ शक्तिपाणये नमः । ॐ भक्तसंरक्षणोद्यताय नमः । ॐ चातुर्वर्ण्येष्टफलदाय नमः । ॐ वल्लीशाय नमः । ॐ दुःखनाशकाय नमः । ॐ सर्वस्मै नमः । ॐ मोक्षप्रदाय नमः । ॐ पुण्यदृश्याय नमः । ६० ॐ भक्तदयानिधये नमः । ॐ कोटिकन्दर्पलावण्याय नमः । ॐ इच्छाज्ञानक्रियान्विताय नमः । ॐ हरिब्रह्मेन्द्रमौल्यग्रछन्नपादाम्बुजद्वयाय नमः । ॐ वल्लीभाषणसुप्रीताय नमः । ॐ दिव्याङ्गवनमालिकाय नमः । ॐ इष्टार्थदायकाय नमः । ॐ बालाय नमः । ॐ बालचन्द्रकलाधराय नमः । ॐ शिष्टहृत्पद्मनिलयाय नमः । ७० ॐ दुष्टचोरकुलान्तकाय नमः । ॐ कोटिकोटिमहासिद्धमुनिवन्दितपादुकाय नमः । ॐ ईशाय नमः । ॐ ईशाधिपाय नमः । ॐ ईशदेशिकाय नमः । ॐ ईश्वरात्मजाय नमः । ॐ ईशानादिमध्यान्तब्रह्मप्रणवषण्मुखाय नमः । ॐ ईशाग्राय नमः । ॐ लयभीतिघ्नाय नमः । ॐ विघ्नराजसहोदराय नमः । ८० ॐ इन्द्रवारुणकौबेरविरिञ्च्यादिसुखप्रदाय नमः । ॐ ईशकैलासनिलयाय नमः । ॐ ईशसंस्तुतवैभवाय नमः । ॐ कल्पवृक्षादिकौदार्याय नमः । ॐ सर्ववेदाग्रवासभुवे नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ सर्वसुखदाय नमः । ॐ कीर्तिमते नमः । ॐ विभवे नमः । ॐ इन्दिरारमणप्रीताय नमः । ९० ॐ मृत्युभीत्यादिनाशकाय नमः । ॐ सर्वशत्रुकुलारण्यज्वालाकुलदवानलाय नमः । ॐ अणिमाद्यष्टसिद्धीशाय नमः । ॐ विधिविष्ण्वीश्वराधिपाय नमः । ॐ षडाधाराम्बुजगतसर्वदेवस्वरूपकाय नमः । ॐ श्रीनीपकुसुमप्रीताय नमः । ॐ ईतिबाधाविनाशकाय नमः । ॐ सर्वपुण्यस्वरूपिणे नमः । ॐ दातॄणां फलदायकाय नमः । ॐ देवेन्द्रकल्पकाय नमः । १०० ॐ गौरीसुताय नमः । ॐ हृत्कमलालयाय नमः । ॐ तारकप्राणहरणाय नमः । ॐ उग्रशक्त्यायुधाधिपाय नमः । ॐ सर्वात्मनायकाय नमः । ॐ कुम्भसम्भूतप्रियबोधकाय नमः । ॐ चन्द्रकोटिप्रभाय नमः । ॐ उल्लासिने नमः । ॐ हुम्फट्काराय नमः । ॐ उत्सुकाय नमः । ११० ॐ देवेश्वराय नमः । ॐ नागभूषाय नमः । ॐ उद्यद्भास्करकुण्डलाय नमः । ॐ उद्दण्डधीराय नमः । ॐ गम्भीराय नमः । ॐ कृपासागरलोचनाय नमः । ॐ एककालोदितानेककोटिबालरविप्रभाय नमः । ॐ रुद्राधिपाय नमः । ॐ जयन्तादिसुरानेककारागृहविमोचकाय नमः । ॐ उग्रबालाय नमः । १२० ॐ रक्ताम्बुजपदद्वयाय नमः । ॐ विरिञ्चिकेशवेन्द्रादिसर्वदेवाभयप्रदाय नमः । ॐ वल्लीन्द्रतनयादक्षवामालङ्कृतसुन्दराय नमः । ॐ नतकुम्भोद्भवानेकभक्तसङ्घप्रियङ्कराय नमः । ॐ सत्याचलस्थिताय नमः । ॐ शम्भुविज्ञानसुखबोधकाय नमः । ॐ गौरीशङ्करमध्यस्थाय नमः । ॐ देवसङ्घामृतप्रदाय नमः । ॐ उमामहेशनयनपद्माकररविप्रभाय var दिवाकराय नमः । ॐ रणरङ्गरमाप्रोक्तजयश्रवणकौतुकाय नमः । १३० ॐ अहङ्कृतमनोदूराय नमः । ॐ दैत्यतूलधनञ्जयाय नमः । ॐ भक्तचित्तामृताम्बोधये नमः । ॐ मौनानन्तसुखप्रदाय नमः । ॐ अनेकक्षेत्रनिलयाय नमः । ॐ वाचिकामृतदायकाय नमः । ॐ पराद्रिस्थाय नमः । ॐ अर्णवक्षेत्रनिलयाय नमः । ॐ देवपूजिताय नमः । ॐ अनेकशैलनिलयाय नमः । १४० ॐ फलभूधरनायकाय नमः । ॐ शिवाचलनिवासिने नमः । ॐ शिवक्षेत्राधिनायकाय नमः । ॐ मानसीकपुराधीशाय नमः । ॐ श्रीशैलालयसंस्थिताय नमः । ॐ मूलाधाराम्बुजगताय नमः । ॐ स्वाधिष्ठाननिकेतनाय नमः । ॐ मणीपूरकपद्मस्थाय नमः । ॐ अनाहतसुमस्थिताय नमः । ॐ विशुद्धिकमलारूढाय नमः । १५० ॐ आज्ञाचक्रान्तरस्थिताय नमः । ॐ परमाकाशरूपिणे नमः । ॐ नादब्रह्ममयाकृतये नमः । ॐ महाशक्तये नमः । ॐ महोनाथाय नमः । ॐ सर्वलोकात्मविग्रहाय नमः । ॐ महावल्लीप्रियाय नमः । ॐ सर्वरूपिणे नमः । ॐ सर्वान्तरस्थिताय नमः । ॐ शिवार्थाय नमः । १६० ॐ सर्वसञ्जीविने नमः । ॐ समस्तभुवनेश्वराय नमः । ॐ सर्वसंरक्षकाय नमः । ॐ सर्वसंहारकरताण्डवाय नमः । ॐ चतुर्मुखशिरोदेशमुष्टिताडनविक्रमाय नमः । ॐ ब्रह्मोपदेष्ट्रे नमः । ॐ ब्रह्मादिसुरलोकसुखप्रदाय नमः । ॐ यज्ञदिव्यहविर्भोक्त्रे नमः । ॐ वरदाय नमः । ॐ सर्वपालकाय नमः । १७० ॐ दीनसंरक्षकाय नमः । ॐ अव्याजकरुणापूरवारिधये नमः । ॐ सर्वलक्षणसम्पन्नाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ ब्रह्मानन्दाब्धिशीताम्शवे नमः । ॐ करुणापूर्णलोचनाय नमः । ॐ एकाक्षरमयाय नमः । ॐ एकाक्षरपरार्थदाय नमः । ॐ एकाक्षरपरञ्ज्योतिषे नमः । ॐ एकान्तमतिबोधकाय नमः । १८० ॐ एकार्थदायकाय नमः । ॐ एकपराय नमः । ॐ एकाम्रनायकाय नमः । ॐ एकान्तमौनफलदाय नमः । ॐ वल्लीमोहनतत्पराय नमः । ॐ सप्तर्षिवन्दितपदाय नमः । ॐ ब्रह्मातीताय नमः । ॐ मुनिस्तुताय नमः । ॐ वल्लीदर्शनसन्तुष्टाय नमः । ॐ भक्ताभीष्टवरप्रदाय नमः । १९० ॐ उमाशङ्करमध्यस्थाय नमः । ॐ महावृषभसंस्थिताय नमः । ॐ सम्पूर्णाय नमः । ॐ सर्वलोकात्मने नमः । ॐ नीपमाल्यविभूषिताय नमः । ॐ कल्मषघ्नाय नमः । ॐ गिरिशयाय नमः । ॐ पापघ्नाय नमः । ॐ दीनरक्षकाय नमः । ॐ सर्वाभरणभूषाङ्काय नमः । २०० ॐ वज्रशक्त्यादिधारकाय नमः । ॐ पञ्चाक्षरस्थाय नमः । ॐ पञ्चास्याय नमः । ॐ कण्ठीरवमुखान्तकाय नमः । ॐ पञ्चभूतात्मभृते नमः । ॐ पञ्चभूतेशाय नमः । ॐ शचीवन्दिताय नमः । ॐ पञ्चवर्णाय नमः । ॐ पञ्चबाणकराय नमः । ॐ पञ्चतरुप्रभवे नमः । २१० ॐ ऐङ्काररूपाय नमः । ॐ क्लीङ्काराय नमः । ॐ सौःकारकरुणानिधये नमः । ॐ अकारादिक्षकारान्तमयाय नमः । ॐ ऐरावतार्चिताय नमः । ॐ ऐरावतगजारूढाय नमः । ॐ सर्वभक्तप्रियङ्कराय नमः । ॐ ऐरावतात्मजावल्लीनायिकाप्राणवल्लभाय नमः । ॐ चतुष्षष्टिकलानाथाय नमः । ॐ द्वात्रिंशल्लक्षणोज्ज्वलाय नमः । २२० ॐ मदनातीतसौन्दर्याय नमः । ॐ पाषण्डजनदूरगाय नमः । ॐ पञ्चेन्द्रियप्रेरकाय नमः । ॐ पञ्चकृत्यादिदायकाय नमः । ॐ पञ्चकृत्येश्वराय नमः । ॐ पञ्चमूर्तये नमः । ॐ पञ्चामृतप्रियाय नमः । ॐ एकार्थाय नमः । ॐ निर्नाशाय नमः । ॐ प्रणवार्थदाय नमः । २३० ॐ सर्वज्योतिःप्रकाशिने नमः । ॐ रहःकेलिकुतूहलाय नमः । ॐ दिव्यज्योतिषे नमः । ॐ वेदमयाय नमः । ॐ वेदमूलाय नमः । ॐ अर्थसङ्ग्रहाय नमः । ॐ एकस्मै नमः । ॐ अनेकस्वरूपिणे नमः । ॐ रव्यादिद्युतिदायकाय नमः । ॐ ऐरावताधिपसुतानयनानन्दसुन्दराय नमः । २४० ॐ चिदाकाशाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ लयोत्पत्तिविवर्जिताय नमः । ॐ सर्वशत्रुहराय नमः । ॐ मेषवरारूढाय नमः । ॐ विनायकाय नमः । ॐ एकातपत्रसांराज्यदायकाय नमः । ॐ सुमुखानुजाय नमः । ॐ मृगीपरशुचापासिशक्त्याद्यायुधभृत्कराय नमः । ॐ शरत्कालघनानीकमहोदारद्विषट्कराय नमः । २५० ॐ श्रीवल्लीवामपार्श्वस्थाय नमः । ॐ रव्यादिग्रहदोषभिदे नमः । ॐ पादकिङ्किणिकानाददैत्यविभ्रमदायकाय नमः । ॐ ओङ्कारज्योतिषे नमः । ॐ ओङ्काराय नमः । ॐ वाचकातीतवैभवाय नमः । ॐ ओङ्कारचित्सभासंस्थाय नमः । ॐ ओङ्काराद्भुतमन्दिराय नमः । ॐ ओङ्कारमनुसन्दात्रे नमः । ॐ ओङ्कारगिरिसंस्थिताय नमः । २६० ॐ ओङ्कारनादश्रवणाय नमः । ॐ ओङ्कारातीतविग्राहाय नमः । ॐ ओङ्कारनादान्तगताय नमः । ॐ ओम्मित्यादिषडक्षराय नमः । ॐ ओङ्कारपीठिकान्तस्थाय नमः । ॐ ओङ्कारमुकुटाग्रगाय नमः । ॐ ओङ्कारमूलसम्भूताय नमः । ॐ ओङ्काराद्यन्तमध्यगाय नमः । ॐ ओङ्कारमूलबीजार्थाय नमः । ॐ ओङ्कारपरशक्तिमते नमः । २७० ॐ ओङ्कारबिन्दवे नमः । ॐ ओङ्कारचित्ताय नमः । ॐ ओङ्कारचित्पुराय नमः । ॐ ओङ्कारफलसत्साराय नमः । ॐ ओङ्कारज्ञानकोविदाय नमः । ॐ ओङ्कारसच्चिदानन्दाय नमः । ॐ ओङ्कारपरमात्मकाय नमः । ॐ ओङ्कारसम्भूतसप्तकोटिमन्त्राधिनायकाय नमः । ॐ ओङ्कारप्रणवाकाराय नमः । ॐ अकारादिकलात्मकाय नमः । २८० ॐ षडक्षराय नमः । ॐ द्वादशार्णाय नमः । ॐ प्रणवाग्रार्णसंयुताय नमः । ॐ महेशस्तुतिसन्तुष्टाय नमः । ॐ शिवशक्त्यक्षरान्विताय नमः । ॐ पराक्षरकलोपेताय नमः । ॐ शिवबीजकलाश्रयाय नमः । ॐ औङ्कारनादकरुणाय नमः । ॐ औदासीनजनान्तकाय नमः । ॐ औदुम्बराश्वत्थनीपबिल्वादिसमिदाहुतये नमः । २९० ॐ दुष्टक्रुद्धमनोदूराय नमः । ॐ शिष्टसङ्घसमाश्रिताय नमः । ॐ अकाराद्यक्षरप्राणाय नमः । ॐ अकारद्यक्षरार्थकाय नमः । ॐ उदारसद्गुणोपेताय नमः । ॐ भक्तैश्वर्यप्रदायकाय नमः । ॐ वल्लीपतये नमः । ॐ अकारादिक्षकारान्तकलाकल्पितविग्रहाय नमः । ॐ श्रीकुम्भसम्भवादीनां सर्वज्ञानोपदेशकृते नमः । ॐ षडर्णमन्त्रस्मरणभक्ताभीष्टप्रदायकाय नमः । ३०० ॐ स्कन्दमूर्तये नमः । ॐ गाङ्गेयाय नमः । ॐ कलिकल्मषनाशनाय नमः । ॐ भक्तसन्निहिताय नमः । ॐ अक्षोभ्याय नमः । ॐ शङ्खपाणिमुखस्तुताय नमः । ॐ ओंश्रींह्रींसौंशरवणभवाय नमः । ॐ शङ्करानन्दाय नमः । ॐ शतलक्षेन्दुसङ्काशाय नमः । ॐ शान्ताय नमः । ३१० ॐ शशिधरात्मजाय नमः । ॐ शत्रुनाशकराय नमः । ॐ शम्भवे नमः । ॐ शचीपतिवरप्रदाय नमः । ॐ शक्तिमते नमः । ॐ शक्तिहस्ताय नमः । ॐ शान्तसर्वप्रकाशकाय नमः । ॐ शरभाय नमः । ॐ शङ्खचक्रादिधराय नमः । ॐ शङ्करबोधकाय नमः । ३२० ॐ कृत्तिकातनयाय नमः । ॐ कृष्णाय नमः । ॐ शङ्खपद्मनिधिप्रदाय नमः । ॐ शक्तिवज्रादिसम्पन्नद्विषट्करसरोरुहाय नमः । ॐ शङ्कुकर्णमहाकर्णघण्टाकर्णादिवन्दिताय नमः । ॐ मूलादिद्वादशान्तस्थपद्ममध्यनिकेतनाय नमः । ॐ सद्गुणाय नमः । ॐ शङ्कराय नमः । ॐ साक्षिणे नमः । ॐ सदानन्दाय नमः । ३३० ॐ सदाशिवाय नमः । ॐ ज्ञानेश्वराय नमः । ॐ सृष्टिकर्त्रे नमः । ॐ सर्ववश्यप्रदायकाय नमः । ॐ विचित्रवेषाय नमः । ॐ समरविजयायुधधारकाय नमः । ॐ क्रौञ्चासुररिपवे नमः । ॐ शङ्खपतये नमः । ॐ सर्वगणेश्वराय नमः । ॐ णकारतुर्यमन्त्रार्णाय नमः । ३४० ॐ णकारार्णस्वरूपकाय नमः । ॐ णकारमूलमन्त्राग्राय नमः । ॐ णकाररवसंस्थिताय नमः । ॐ णकारशिखरारूढाय नमः । ॐ णकाराक्षरमध्यगाय नमः । ॐ णद्वितीयाय नमः । ॐ णत्रितीयाय नमः । ॐ णचतुर्थाय नमः । ॐ णपञ्चमाय नमः । ॐ णषष्ठवर्णाय नमः । ३५० ॐ णार्णादिमन्त्रषड्भेदभासुराय नमः । ॐ णकारपीठनिलयाय नमः । ॐ नलिनोद्भवशिक्षकाय नमः । ॐ नादान्तकूटस्थाय नमः । ॐ नारदप्रियाय नमः । ॐ नागाशनरथारूढाय नमः । ॐ नान्दात्मने नमः । ॐ नागभूषणाय नमः । ॐ नागाचलपतये नमः । ॐ नागाय नमः । ३६० ॐ नवतत्त्वाय नमः । ॐ नटप्रियाय नमः । ॐ नवग्रहादिदोषघ्नाय नमः । ॐ णकारस्तम्भनिष्क्रियाय नमः । ॐ णकाराक्षाय नमः । ॐ णकारेशाय नमः । ॐ णकारवृषवाहनाय नमः । ॐ तत्त्वबोद्ध्रे नमः । ॐ दैवमणये नमः । ॐ धनधान्यादिदायकाय नमः । ३७० ॐ वल्लीपतये नमः । ॐ शुद्धान्तराय नमः । ॐ तत्वातीताय नमः । ॐ हरिप्रियाय नमः । ॐ तत्पराय नमः । ॐ कमलारूढाय नमः । ॐ षडाननसरोरूहाय नमः । ॐ भगवते नमः । ॐ भयहन्त्रे नमः । ॐ भर्गाय नमः । ३८० ॐ भवविमोचकाय नमः । ॐ भानुकोपादिदैत्यघ्नाय नमः । ॐ भद्राय नमः । ॐ भागीरथीसुताय नमः । ॐ भवाचलमहावज्राय नमः । ॐ भवारण्यदवानलाय नमः । ॐ भवतापसुधावृष्टये नमः । ॐ भवरोगमहौषधाय नमः । ॐ भानुचन्द्राग्निनयनाय नमः । ॐ भावनातीतविग्रहाय नमः । ३९० ॐ भक्तचित्ताम्बुजारूढाय नमः । ॐ भरतोक्तक्रियाप्रियाय नमः । ॐ भक्तदेवाय नमः । ॐ भयार्तिघ्नाय नमः । ॐ भकारोच्चाटनक्रियाय नमः । ॐ भारतीशमुकुन्दादिवाङ्मनोऽतीतवैभवाय नमः । ॐ विचित्रपक्षाश्वारूढाय नमः । ॐ भुजङ्गेशाय नमः । ॐ दयानिधये नमः । ॐ ईशफालाक्षिसम्भूताय नमः । ४०० ॐ वीराय नमः । ॐ षट्समयाधिपाय नमः । ॐ महाव्रताय नमः । ॐ महादेवाय नमः । ॐ भूतेशाय नमः । ॐ शिववल्लभाय नमः । ॐ महामायिने नमः । ॐ यज्ञभोक्त्रे नमः । ॐ मन्त्रस्थाय नमः । ॐ यक्षराट्प्रियाय नमः । ४१० ॐ सर्वश्रेष्ठाय नमः । ॐ महामृत्युरूपासुरविनाशकाय नमः । ॐ रागाब्जमालिकाभूषाय नमः । ॐ रागिणे नमः । ॐ रागाम्बरप्रियाय नमः । ॐ रागद्वेषादिदोषघ्नाय नमः । ॐ रागरत्नविभूषणाय नमः । ॐ रावणस्तुतिसन्तुष्टाय नमः । ॐ रतीनायकवन्दिताय नमः । ॐ रम्भादिनाट्यसुप्रीताय नमः । ४२० ॐ राजीवदललोचनाय नमः । ॐ रवचापधराय नमः । ॐ रक्षोवृन्दतूलहुताशनाय नमः । ॐ रविचन्द्रादिसम्पूज्याय नमः । ॐ रथारोहकुतूहलाय नमः । ॐ रवकाञ्चीवरधराय नमः । ॐ रवयुक्ताङ्घ्रिभूषणाय नमः । ॐ रव्युद्भवसमानेकहारकेयूरभूषिताय नमः । ॐ रविकोटिसमानाभाय नमः । ॐ रत्नहाटकदायकाय नमः । ४३० ॐ शिखीन्द्राय नमः । ॐ उरगाकाराय नमः । ॐ निशादिनविवर्जिताय नमः । ॐ रमावाण्यादिसम्पूज्याय नमः । ॐ लक्षवीरभटस्तुताय नमः । ॐ वीरभूतगणस्तुत्याय नमः । ॐ श्रीरामाय नमः । ॐ अरुणाय नमः । ॐ रवये नमः । ॐ वरदाय नमः । ४४० ॐ वज्रहस्ताय नमः । ॐ वामदेवादिवन्दिताय नमः । ॐ वलारितनयानाथाय नमः । ॐ वरदाभयसत्कराय नमः । ॐ वल्लीश्वरीपतये नमः । ॐ वाग्मिने नमः । ॐ वल्लीकल्याणसुन्दराय नमः । ॐ वलारिमुख्यविबुधवृन्ददुःखविमोचकाय नमः । ॐ वातरोगहराय नमः । ॐ वर्मरहिताय नमः । ४५० ॐ वासवेश्वराय नमः । ॐ वाचकस्थाय नमः । ॐ वासुदेववन्दिताय नमः । ॐ वकुलप्रियाय नमः । ॐ वासनाङ्कितताम्बूलपूरिताननपङ्कजाय नमः । ॐ वचनागमनातीताय नमः । ॐ वामाङ्गाय नमः । ॐ वन्दिमोहनाय नमः । ॐ वल्लीमनोहराय नमः । ॐ साधवे नमः । ४६० ॐ देवेन्द्रप्राणदायकाय नमः । ॐ दिगन्तवल्लभाय नमः । ॐ अनन्तमदनोज्ज्वलरूपभृते नमः । ॐ सौन्दर्यार्णवपीयूषाय नमः । ॐ सर्वावयवसुन्दराय नमः । ॐ शिशवे नमः । ॐ कृपालवे नमः । ॐ कादम्बधराय नमः । ॐ कौबेरनायकाय नमः । ॐ धर्माधाराय नमः । ४७० ॐ सर्वधर्मस्वरूपाय नमः । ॐ धर्मरक्षकाय नमः । ॐ सर्वधर्मेश्वराय नमः । ॐ बन्धवे नमः । ॐ तीक्ष्णाय नमः । ॐ अनन्तकलान्विताय नमः । ॐ अनन्तवेदसंवेद्याय नमः । ॐ स्वामिने नमः । ॐ कनकसुप्रभाय नमः । ॐ सर्वसाक्षिणे नमः । ४८० ॐ सर्वकलाश्रवणाय नमः । ॐ करुणालयाय नमः । ॐ वासवाय नमः । ॐ सर्वकर्त्रे नमः । ॐ कामाय नमः । ॐ कपिलसंस्तुताय नमः । ॐ कामदाय नमः । ॐ कालसंहर्त्रे नमः । ॐ कालाय नमः । ॐ कामारिसम्भवाय नमः । ४९० ॐ कामायुधाय नमः । ॐ कामधराय नमः । ॐ श्रीकृष्णाय नमः । ॐ शिखिवाहनाय नमः । ॐ कृपानिधये नमः । ॐ कृपासिन्धवे नमः । ॐ गिरिराजे नमः । ॐ कृत्तिकाप्रियाय नमः । ॐ कीर्तिप्रदाय नमः । ॐ कीर्तिधराय नमः । ५०० ॐ गीतनाट्यादिकप्रियाय नमः । ॐ नर्क्कीरस्तोत्रसन्तुष्टाय नमः । ॐ तीर्थेशाय नमः । ॐ कुलविदे नमः । ॐ गुहाय नमः । ॐ कौमाराय नमः । ॐ सर्वगुप्ताय नमः । ॐ क्रौञ्चासुरविमर्दनाय नमः । ॐ इन्द्रपुण्याय नमः । ॐ कुलोत्तुङ्गाय नमः । ५१० ॐ अतितीक्ष्णायुधाय नमः । ॐ नटाय नमः । ॐ कूटस्थाय नमः । ॐ श्रीकराय नमः । ॐ कूटेशाय नमः । ॐ अन्तकान्तकसम्भवाय नमः । ॐ वल्लीभाषणसुप्रीताय नमः । ॐ गम्भीराय नमः । ॐ भक्तनायकाय नमः । ॐ सर्वदेवालयान्तस्थाय नमः । ५२० ॐ निश्शोकाय नमः । ॐ निरुपद्रवाय नमः । ॐ केदाराय नमः । ॐ मदनाधीशाय नमः । ॐ लयघ्नाय नमः । ॐ श्रवणान्विताय नमः । ॐ पद्महस्ताय नमः । ॐ देवनुताय नमः । ॐ भक्तार्थाय नमः । ॐ द्वादशायुधाय नमः । ५३० ॐ कैवल्याय नमः । ॐ रजताद्रीशाय नमः । ॐ महाराजे नमः । ॐ गोकर्णाधिपाय नमः । ॐ शूरमायाम्रतरुभिदे नमः । ॐ खण्डितासुरमण्डलाय नमः । ॐ जयदुर्गातिसन्तुष्टाय नमः । ॐ सर्वदेवस्तवाङ्किताय नमः । ॐ हिताय नमः । ॐ कोलाहलाय नमः । ५४० ॐ चित्राय नमः । ॐ नन्दिताय नमः । ॐ वृषापतये नमः । ॐ निगमाग्य्राय नमः । ॐ महाघोरास्त्रनाथाय नमः । ॐ गव्यमोदिने नमः । ॐ सर्वेशाय नमः । ॐ सुगुणाय नमः । ॐ चण्डाय नमः । ॐ दिव्यकौस्तुभसन्निभाय नमः । ५५० ॐ चण्डप्रचण्डाय नमः । ॐ समरविजयिने नमः । ॐ निरहङ्कृतये नमः । ॐ सर्वस्वामिने नमः । ॐ चण्डहर्त्रे नमः । ॐ षड्वक्त्राय नमः । ॐ शाम्भवाय नमः । ॐ सुखिने नमः । ॐ साङ्गाय नमः । ॐ सायुज्यदाय नमः । ५६० ॐ साराय नमः । ॐ सामाय नमः । ॐ साम्राज्यदायकाय नमः । ॐ सिद्धाय नमः । ॐ शिवाय नमः । ॐ चिद्गुणाय नमः । ॐ चिन्मयाय नमः । ॐ चित्स्वरूपकाय नमः । ॐ श‍ृङ्गाररससम्पूर्णाय नमः । ॐ चित्तस्थाय नमः । ५७० ॐ सामपारगाय नमः । ॐ शिवलोकेश्वराय नमः । ॐ सिद्धवराय नमः । ॐ सिद्धवरार्चिताय नमः । ॐ सर्वजीवस्वरूपिणे नमः । ॐ श्रीदाय नमः । ॐ श्रीधरवन्दिताय नमः । ॐ शुद्धाय नमः । ॐ शीताय नमः । ॐ स्वयञ्ज्योतिषे नमः । ५८० ॐ सुब्रह्मण्याय नमः । ॐ शुभप्रदाय नमः । ॐ श्रुतिज्ञाय नमः । ॐ सुलभाय नमः । ॐ शूराय नमः । ॐ शुद्धधीराय नमः । ॐ शूरघ्ने नमः । ॐ शूरात्मशोधकाय नमः । ॐ शूरस्मर्त्रे नमः । ॐ विभवप्रदाय नमः । ५९० ॐ सर्वैश्वर्यप्रदाय नमः । ॐ सर्वजयदाय नमः । ॐ ब्रह्मसम्भवाय नमः । ॐ जयधीराय नमः । ॐ श्रीकराय नमः । ॐ सिन्धुक्षेत्राय नमः । ॐ सुलक्षणाय नमः । ॐ अभक्तकालाय नमः । ॐ रक्ताभशेखराय नमः । ॐ अतुलविक्रमाय नमः । ६०० ॐ शैवाधिपाय नमः । ॐ शैवमणये नमः । ॐ शैवधन्याय नमः । ॐ शिवात्पराय नमः । ॐ चैतन्याय नमः । ॐ क्रौञ्चभेदिने नमः । ॐ गिरीशाय नमः । ॐ निगमेश्वराय नमः । ॐ स्वर्गाधिपाय नमः । ॐ सुरूपिणे नमः । ६१० ॐ स्वर्गलोकादिसौख्यदाय नमः । ॐ स्वच्छाय नमः । ॐ स्वयम्भुवे नमः । ॐ भौमाख्याय नमः । ॐ सोमधृते नमः । ॐ कुक्कुटध्वजाय नमः । ॐ ज्योतिषे नमः । ॐ हल्लकशैलस्थाय नमः । ॐ सोमाय नमः । ॐ शोकभयापहाय नमः । ६२० ॐ हिताय नमः । ॐ पशुपतये नमः । ॐ सौम्याय नमः । ॐ नतसौभाग्यदायकाय नमः । ॐ सौवर्णबीजाय नमः । ॐ सौन्दर्याय नमः । ॐ दण्डपाणये नमः । ॐ धनप्रदाय नमः । ॐ एकदेवाय नमः । ॐ सर्वपित्रे नमः । ६३० ॐ धनिकाय नमः । ॐ द्राविडप्रियाय नमः । ॐ चण्डारये नमः । ॐ तारकाय नमः । ॐ स्थाणवे नमः । ॐ सर्वधान्यप्रदायकाय नमः । ॐ मातृभूताय नमः । ॐ तारकारये नमः । ॐ दिव्यमाल्यविभूषिताय नमः । ॐ चित्सभेशाय नमः । ६४० ॐ दिशान्नाथाय नमः । ॐ धनुर्हस्ताय नमः । ॐ महाभुजाय नमः । ॐ महागुणाय नमः । ॐ महाशौर्याय नमः । ॐ सर्वदारिद्र्यनाशकाय नमः । ॐ दीर्घाय नमः । ॐ दिगम्बराय नमः । ॐ तीर्थाय नमः । ॐ सर्वतीर्थफलप्रदाय नमः । ६५० ॐ रोगघ्नाय नमः । ॐ दुष्टहर्त्रे नमः । ॐ सर्वदुष्टभयङ्कराय नमः । ॐ आत्मज्योतिषे नमः । ॐ पवित्राय नमः । ॐ हृद्गताय नमः । ॐ सहायकृते नमः । ॐ कारणस्थूलसूक्ष्मान्ताय नमः । ॐ अमृतवर्षिणे नमः । ॐ चिदम्बराय नमः । ६६० ॐ परमाकाशरूपिणे नमः । ॐ प्रलयानलसन्निभाय नमः । ॐ देवाय नमः । ॐ दक्षिणकैलासवासिने नमः । ॐ वल्लीकराञ्चिताय नमः । ॐ दृढाय नमः । ॐ दिव्याय नमः । ॐ अमृतकराय नमः । ॐ देवेशाय नमः । ॐ दैवतप्रभवे नमः । ६७० ॐ कदम्बमालापीयूषाप्लुतवक्षस्थलान्विताय नमः । ॐ देवसेनापतये नमः । ॐ देवधन्याय नमः । ॐ देवगिरिस्थिताय नमः । ॐ सर्वज्ञाय नमः । ॐ देशिकाय नमः । ॐ धैर्याय नमः । ॐ सुरवैरिकुलान्तकाय नमः । ॐ वटुकानन्दनायोद्यद्वाद्यघोषामितप्रियाय नमः । ॐ पुष्यर्क्षाय नमः । ६८० ॐ कुण्डलधराय नमः । ॐ नित्याय नमः । ॐ दोषविभञ्जनाय नमः । ॐ प्रारब्धसञ्चितागाम्यपातकादिप्रभञ्जनाय नमः । ॐ महाजयाय नमः । ॐ महाभूताय नमः । ॐ वीरबाह्वादिवन्दिताय नमः । ॐ चोरारये नमः । ॐ सत्त्वमार्गस्थाय नमः । ॐ अलक्ष्मीमलनाशकाय नमः । ६९० ॐ स्तुतिमालालङ्कृताढ्याय नमः । ॐ नन्दीकेशाय नमः । ॐ हरप्रियाय नमः । ॐ सर्वसौख्यप्रदात्रे नमः । ॐ नववीरसमावृताय नमः । ॐ परमेशाय नमः । ॐ महारुद्राय नमः । ॐ महाविष्णवे नमः । ॐ प्रजापतये नमः । ॐ वीणाधरमुनिस्तुत्याय नमः । ७०० ॐ चतुर्वर्गफलप्रदाय नमः । ॐ निर्गुणाय नमः । ॐ निरालम्बाय नमः । ॐ निर्मलाय नमः । ॐ विष्णुवल्लभाय नमः । ॐ निरामयाय नमः । ॐ नित्यशुद्धाय नमः । ॐ नित्यमङ्गलविग्रहाय नमः । ॐ शिखण्डिने नमः । ॐ नीपबाहवे नमः । ७१० ॐ नीतये नमः । ॐ नीराजनद्युतये नमः । ॐ निष्कोपाय नमः । ॐ महोद्यानाय नमः । ॐ सूक्ष्माय नमः । ॐ मेर्वादिमन्दिराय नमः । ॐ सूक्ष्मातिसूक्ष्माय नमः । ॐ भालाक्षाय नमः । ॐ महते नमः । ॐ सर्वोपदेशकाय नमः । ७२० ॐ सर्ववेषकलातीताय नमः । ॐ उपवीतिने नमः । ॐ शतक्रतवे नमः । ॐ वेदागमपुराणज्ञाय नमः । ॐ नूपुराङ्घ्रिसरोरूहाय नमः । ॐ हृत्पूर्णाय नमः । ॐ पञ्चभूतस्थाय नमः । ॐ कृपामार्गाय नमः । ॐ अम्बुजाश्रयाय नमः । ॐ सन्निधये नमः । ७३० ॐ प्रीतचित्ताय नमः । ॐ निष्प्रीतये नमः । ॐ आत्मसंस्थिताय नमः । ॐ औपम्यरहिताय नमः । ॐ प्रीतचित्तगाय नमः । ॐ नैमिशाश्रयाय नमः । ॐ नैमिशारण्यनिवसन्मुनीन्द्रनिकरस्तुताय नमः । ॐ घण्टारवप्रीतमनसे नमः । ॐ दयाचित्ताय नमः । ॐ सताङ्गतये नमः । ७४० ॐ सर्वापदान्निहन्त्रे नमः । ॐ सद्योऽभीष्टवरप्रदाय नमः । ॐ सर्वजीवान्तरज्योतिषे नमः । ॐ छन्दस्साराय नमः । ॐ महौषधये नमः । ॐ पञ्चाक्षरपरञ्ज्योतिषे नमः । ॐ सूक्ष्मपञ्चेन्द्रियद्युतये नमः । ॐ ज्ञानचक्षुर्गतज्योतिषे नमः । ॐ सौङ्कारपरमद्युतये नमः । ॐ परस्मै । ७५० ॐ फलशैलस्थाय नमः । ॐ बालरूपाय नमः । ॐ पराङ्गकाय नमः । ॐ परमेष्ठिने नमः । ॐ परन्धाम्ने नमः । ॐ पापनाशिने नमः । ॐ परात्पराय नमः । ॐ गोक्षीरधवलप्रख्याय नमः । ॐ पार्वतीप्रियनन्दनाय नमः । ॐ कटाक्षकरुणासिन्धवे नमः । ७६० ॐ यमवृक्षकुठारिकाय नमः । ॐ प्रभवे नमः । ॐ कपर्दिने नमः । ॐ ब्रह्मेशाय नमः । ॐ ब्रह्मविदे नमः । ॐ पिङ्गलप्रभाय नमः । ॐ स्वाधिष्ठानपुराधीशाय नमः । ॐ सर्वव्याधिविनाशकाय नमः । ॐ वैभवाय नमः । ॐ कनकाभासाय नमः । ७७० ॐ भीषणाय नमः । ॐ निगमासनाय नमः । ॐ भीतिघ्नाय नमः । ॐ सर्वदेवेड्याय नमः । ॐ पुण्याय नमः । ॐ सत्त्वगुणालयाय नमः । ॐ पुण्याधिपाय नमः । ॐ पुष्कराक्षाय नमः । ॐ पुण्डरीकपुराश्रयाय नमः । ॐ पुराणाय नमः । ७८० ॐ पुङ्गवाय नमः । ॐ पूर्णाय नमः । ॐ भूधराय नमः । ॐ भूतिधारकाय नमः । ॐ प्राचीनाय नमः । ॐ पुष्पसद्गन्धाय नमः । ॐ रक्तपुष्पप्रियङ्कराय नमः । ॐ वृद्धाय नमः । ॐ महामतिकराय नमः । ॐ महोल्लासाय नमः । ७९० ॐ महागुणाय नमः । ॐ मोक्षदायिने नमः । ॐ वृषाङ्कस्थाय नमः । ॐ यजमानस्वरूपभृते नमः । ॐ अभेद्याय नमः । ॐ मौनरूपिणे नमः । ॐ ब्रह्मानन्दाय नमः । ॐ महोदराय नमः । ॐ भूतप्रेतपिशाचघ्नाय नमः । ॐ शिखिने नमः । ८०० ॐ साहस्रनामकाय नमः । ॐ किराततनयापाणिपद्मग्रहणलोलुपाय नमः । ॐ नीलोत्पलधराय नमः । ॐ नागकङ्कणाय नमः । ॐ स्वर्णपङ्कजाय नमः । ॐ सुवर्णपङ्कजारूढाय नमः । ॐ सुवर्णमणिभूषणाय नमः । ॐ सुवर्णशैलश‍ृङ्गस्थाय नमः । ॐ सुवर्णाङ्गदशोभिताय नमः । ॐ कालज्ञानिने नमः । ८१० ॐ महाज्ञानिने नमः । ॐ अमराचलनायकाय नमः । ॐ लयसम्भवनिर्मुक्ताय नमः । ॐ कमलोद्भवदण्डकाय नमः । ॐ सप्ताब्धिशोषकृते नमः । ॐ अष्टकुलाचलविभेदकाय नमः । ॐ मन्त्रबीजाय नमः । ॐ वराबीजाय नमः । ॐ मन्त्रात्मने नमः । ॐ मन्त्रनायकाय नमः । ८२० ॐ मन्त्रालयाय नमः । ॐ मयूरस्थाय नमः । ॐ मयूराचलनायकाय नमः । ॐ मायाधराय नमः । ॐ महामन्त्राय नमः । ॐ महादेवाय नमः । ॐ महाबुधाय नमः । ॐ मायापराय नमः । ॐ महामायिने नमः । ॐ महासेनाय नमः । ८३० ॐ महाप्रभवे नमः । ॐ अग्रबुद्धये नमः । ॐ अग्रगण्याय नमः । ॐ मिथ्यावादिकुलान्तकाय नमः । ॐ मुक्तिग्रहाय नमः । ॐ कल्मषघ्नाय नमः । ॐ सर्वदेवजरापहाय नमः । ॐ सर्वदेवाङ्कुराय नमः । ॐ मुक्ताय नमः । ॐ अतिबालाय नमः । ८४० ॐ मुनीश्वराय नमः । ॐ दिगम्बराय नमः । ॐ भक्तिनिधये नमः । ॐ सर्वदेवाग्रगण्यकाय नमः । ॐ अच्युताय नमः । ॐ सर्वसम्पूर्णाय नमः । ॐ महाविष्णुसुसंस्तुताय नमः । ॐ मूर्तये नमः । ॐ ब्रह्माण्डकूटस्थाय नमः । ॐ मूलभूताय नमः । ८५० ॐ त्रिमूर्तिभृते नमः । ॐ नामपारायणपरभक्ताभीष्टप्रदायकाय नमः । ॐ चिद्रूपाय नमः । ॐ षट्क्रमानन्दाय नमः । ॐ महासारस्वतप्रदाय नमः । ॐ ज्योतिर्मयाय नमः । ॐ गिरिशयाय नमः । ॐ नवदुर्गाभिवन्दिताय नमः । ॐ मुकुटाङ्गदकेयूरकाञ्चीकिङ्किणिभूषिताय नमः । ॐ नारायणविरिञ्च्यादिदेवाभीतिप्रदायकाय नमः । ८६० ॐ मेषारूढाय नमः । ॐ पञ्चवर्णाय नमः । ॐ सर्ववाद्यप्रियङ्कराय नमः । ॐ मौनेश्वराय नमः । ॐ मोक्षनाथाय नमः । ॐ द्वादशान्तःपुरेश्वराय नमः । ॐ देवावृताय नमः । ॐ दीनबन्धवे नमः । ॐ वल्लीलीलामनोहराय नमः । ॐ वन्दारुमहदैश्वर्यदायकाय नमः । ८७० ॐ वन्दनप्रियाय नमः । ॐ वकाराच्छत्रुसंहर्त्रे नमः । ॐ वकाराच्छत्रुपीडकाय नमः । ॐ वकाराच्छत्रुवाक्स्तम्भाय नमः । ॐ वकारात्कलिनाशकाय नमः । ॐ वकाराच्छत्रुसंहारिणे नमः । ॐ सकाराच्छत्रुवञ्चकाय नमः । ॐ वकाराद्भूतपैशाचप्रेतादिभयमोचकाय नमः । ॐ वकाराद्ग्रहदोषघ्नाय नमः । ॐ वकाराच्चोरनाशनाय नमः । ८८० ॐ वकारात्सिंहसर्पाश्वव्याघ्रादिभयमोचकाय नमः । ॐ वकारान्निन्दकश्रोत्रनेत्रवाक्स्तम्भनोद्यताय नमः । ॐ वकारान्मृत्युसंहर्त्रे नमः । ॐ वकारकुलिशायुधाय नमः । ॐ वकारार्णमहारुद्राय नमः । ॐ वकारार्णमहासिकाय नमः । ॐ वकारादिवैरिनरराट्चोरचित्तादिविभ्रमाय नमः । ॐ वचस्याय नमः । ॐ वटुकाय नमः । ॐ वह्नये नमः । ८९० ॐ वरुणाय नमः । ॐ वाचकाय नमः । ॐ वसवे नमः । ॐ वश्याय नमः । ॐ वसुप्रदाय नमः । ॐ दात्रे नमः । ॐ वामनाय नमः । ॐ वचनात्पराय नमः । ॐ वागीशाय नमः । ॐ वामनयनाय नमः । ९०० ॐ वामाय नमः । ॐ सामपरायणाय नमः । ॐ वामक्रमार्चनप्रीताय नमः । ॐ विशाखाय नमः । ॐ विमलाय नमः । ॐ विधवे नमः । ॐ विद्रुमाभाय नमः । ॐ धनाय नमः । ॐ बीजाय नमः । ॐ अनन्तसौदामिनीप्रभाय नमः । ९१० ॐ निरन्तराय नमः । ॐ मन्दिराय नमः । ॐ नववीरनुताङ्घ्रिकाय नमः । ॐ वीराय नमः । ॐ भीमाय नमः । ॐ किराताय नमः । ॐ सदाभक्तमनोहराय नमः । ॐ सर्वालयाय नमः । ॐ रथारूढाय नमः । ॐ अनन्तप्रलयाधिपाय नमः । ९२० ॐ नामरूपगुणक्षेत्रभेदावस्थाविवर्जिताय नमः । ॐ सर्वपुण्याध्वरफलाय नमः । ॐ सर्वकर्मफलप्रदाय नमः । ॐ सर्वागमपुराणादिपाठकृत्फलदायकाय नमः । ॐ सर्वसम्पत्प्रदाय नमः । ॐ सत्याय नमः । ॐ राजभोगसुखप्रदाय नमः । ॐ एकस्मै नमः । ॐ प्रभवे नमः । ॐ सभानाथाय नमः । ९३० ॐ निष्कलाय नमः । ॐ अनन्तवल्लभाय नमः । ॐ ओङ्कारसिन्धुनादाग्रनटनानन्दवैभवाय नमः । ॐ षडक्षरजपोद्युक्तप्रारब्धादिप्रभेदकाय नमः । ॐ अनन्तभुवनाधीशाय नमः । ॐ आदिमध्यान्तवर्जिताय नमः । ॐ इन्द्राणीमुखमाङ्गल्यरक्षकाय नमः । ॐ ईप्सितार्थदाय नमः । ॐ उद्यत्कोटिरविप्रख्याय नमः । ॐ ऊरुदण्डकरद्वयाय नमः । ९४० ॐ रुद्रकोटिसमाकीर्णलतामण्डपमध्यगाय नमः । ॐ एलादिवासनाप्रीताय नमः । ॐ ऐरावतगजस्थिताय नमः । ॐ ओङ्कारचित्सभानाथाय नमः । ॐ औदार्यगुणदायकाय नमः । ॐ अम्बिकाहृदयानन्दाय नमः । ॐ अच्युतेशविधिस्तुताय नमः । ॐ करुणारसनिष्यन्दसम्पूर्णद्वादशेक्षणाय नमः । ॐ खादिपृध्व्यन्तभूतात्मने नमः । ॐ गण्डमण्डलशोभिताय नमः । ९५० ॐ घटसम्भवसुप्रीताय नमः । ॐ सुन्दराय नमः । ॐ चन्द्रभूषणाय नमः । ॐ छत्रवर्यधराय नमः । ॐ जम्भभेत्तृसर्वेष्टदायकाय नमः । ॐ झलज्झलितझङ्कारकालीकङ्कणभूषिताय नमः । ॐ ज्ञानसागरपूर्णेन्दवे नमः । ॐ टङ्कशूलादिधारकाय नमः । ॐ ठकारमध्यगाय नमः । ॐ डम्भगम्भीरगुणसम्भ्रमाय नमः । ९६० ॐ ढक्काशूलधरानेकवटुकादिमसेविताय नमः । ॐ णकारमूलनिलयाय नमः । ॐ ताटङ्काभरणोज्ज्वलाय नमः । ॐ स्थाणवे नमः । ॐ दयालवे नमः । ॐ धनदाय नमः । ॐ नववीरादिसंवृताय नमः । ॐ पापाचलमहावज्राय नमः । ॐ फणिभुग्वाहनस्थिताय नमः । ॐ बलिप्रियाय नमः । ९७० ॐ भयार्तिघ्नाय नमः । ॐ वरषट्चक्रमध्यगाय नमः । ॐ यक्षाधिपेशाय नमः । ॐ राजीवलोचनाय नमः । ॐ लक्षणोज्ज्वलाय नमः । ॐ वल्मीकेशाय नमः । ॐ शरवणभवाय नमः । ॐ षण्मुखसुन्दराय नमः । ॐ समस्तजगदाधाराय नमः । ॐ हस्तद्वादशपङ्कजाय नमः । ९८० ॐ लकारतत्त्वरूपिणे नमः । ॐ क्षमासम्पूर्णवारिधये नमः । ॐ ज्ञानशक्तिधराय नमः । ॐ स्कन्दाय नमः । ॐ अग्निभुवे नमः । ॐ बाहुलेयकाय नमः । ॐ कुमाराय नमः । ॐ षण्मुखाय नमः । ॐ कृत्तिकासुताय नमः । ॐ शक्त्यायुधधराय नमः । ९९० ॐ शरसम्भवाय नमः । ॐ शरवणोद्भवाय नमः । ॐ गाङ्गेयाय नमः । ॐ तारकारये नमः । ॐ देवसेनापतये नमः । ॐ गुहाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ शिवज्योतिषे नमः । ॐ क्रौञ्चधारिणे नमः । ॐ शिखिस्थिताय नमः । १००० ॐ विद्याप्रदाय नमः । ॐ विजयदाय नमः । ॐ बलदाय नमः । ॐ सर्वरक्षकाय नमः । ॐ स्वाश्रितश्रीकराय नमः । ॐ स्वर्णवर्णाङ्गाय नमः । ॐ सौख्यदायकाय नमः । ॐ भवस्यदेवस्यसुताय नमः । ॐ सर्वस्यदेवस्यसुताय नमः । ॐ ईशानस्यदेवस्यसुताय नमः । १०१० ॐ पशुपतेर्देवस्यसुताय नमः । ॐ रुद्रस्यदेवस्यसुताय नमः । ॐ उग्रस्यदेवस्यसुताय नमः । ॐ भीमस्यदेवस्यसुताय नमः । ॐ महतोदेवस्यसुताय नमः । ॐ श्रीवल्लीदेवसेनसमेतश्रीकुमारसुब्रह्मण्यमूर्तये नमः । १०१६ ॥ इति श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामावलिः सम्पूर्णा ॥ ॥ ॐ नमोभगवतेसुब्रह्मण्याय ॥