अक्षर आकार:

श्रीकुमारस्तुतिः

Shri Kumarastuti

श्रीकुमारस्तुतिः

विप्र उवाच - श‍ृणु स्वामिन्वचो मेद्य कष्टं मे विनिवारय । सर्वब्रह्माण्डनाथस्त्वमतस्ते शरणं गतः ॥ १॥ अजमेधाध्वरं कर्तुमारम्भं कृतवानहम् । सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबन्धनम् ॥ २॥ न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु । न प्राप्तोऽतस्स बलवान् भङ्गो भवति मे क्रतोः ॥ ३॥ त्वयि नाथे सति विभो यज्ञभङ्गः कथं भवेत् । विचार्य्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे ॥ ४॥ त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो । सर्वब्रह्माण्डनाथं हि सर्वामरसुसेवितम् ॥ ५॥ दीनबन्धुर्दयासिन्धुस्सुसेव्या भक्तवत्सलः । हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ६॥ पार्वतीनन्दनस्स्कन्दः परमेकः परन्तपः । परमात्माऽत्मदस्स्वामी सतां च शरणार्थिनाम् ॥ ७॥ दीनानाथ महेश शङ्करसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय । त्वं सर्वप्रभुप्रियः खिलविदब्रह्मादिदेवैस्तुत- स्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ ८॥ भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोऽसि शम्भुप्रियः शम्भुः शम्भुसुतः प्रसन्नसुखदस्सच्चित्स्वरूपो महान् । सर्वज्ञस्त्रिपुरघ्नशङ्करसुतः सत्प्रेमवश्यस्सदा षड्वक्त्रः प्रियसाधुरानतप्रियस्सर्वेश्वरश्शङ्करः । साधुद्रोहकरघ्न शङ्करगुरो ब्रह्माण्डनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ ९॥ वैरिभयङ्कर शङ्कर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य । विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि ॥ १०॥ करोति किं तस्य बली विपक्षोदक्षोऽपि पक्षोभयापार्श्वगुप्तः । किन्तक्षकोप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ॥ ११॥ विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्- कथय कथमहं स्यां मन्दबुद्धिर्वरार्च्यः । शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमल परागं स्कन्द ते प्रार्थयामि ॥ १२॥ हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं भृत्यस्स्वस्य न सेवकस्य गणपस्याऽऽगश्शतं सत्प्रभो । भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ १३॥ कल्याणकर्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः । त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १४॥ रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः । यज्ञकर्ता यज्ञभर्ता हरसे विघ्नकारिणाम् ॥ १५॥ विघ्नवारण साधूनां सर्गकारण सर्वतः । पूर्णं कुरु ममेशान सुतयज्ञ नमोऽस्तु ते ॥ १६॥ सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि । सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ १७॥ संगीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः । सर्वस्थाता विधाता त्वं देवदेवस्सतां गतिः ॥ १८॥ भवानीनन्दनश्शम्भुतनयो वयुनः स्वराट् । ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम् ॥ १९॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराऽद्भुतचरितवर्णनं नाम षष्ठोऽध्यायान्तर्गतं श्रीकुमारस्तुतिः सम्पूर्णा ॥ shivapurANam, saMhitA 2 (rudrasaMhitA), khaNDaH 4 (kumArakhaNDaH) adhyAyaH 6 Verses 4-22