अक्षर आकार:

श्रीकुमारस्तवः

shrIkumArastavaH

श्रीकुमारस्तवः

श्रीगणेशाय नमः । अव्यादपारकरुणं तरुणारुणाभ- मव्याजसुन्दरमनन्तगुणाभिरामम् । अम्भोजशक्त्यभयकुक्कुटशोभिहस्त- मम्बातपःफलमपत्यमिहैश्वरं नः ॥ १॥ आचार्यमागमरहस्यमहामनूना- माचान्तवारिनिधिदेशिकमाम्बिकेयम् । आखण्डलाद्यमरवन्दितमात्मरूप- मालम्बते मम मनः शरणं कुमारम् ॥ २॥ इन्दीवरायतविलोचनमिन्द्रसेना- नेतारमिन्दुमुखमिन्दुकलावतंसम् । इन्द्रानुजार्चितमहर्निशमिन्दिराया जामातरं हृदयमिङ्गतु मे कुमारम् ॥ ३॥ ईशानधर्मसुतमीश्वरमीश्वराणा- मीशित्वमुख्यफलदं गतिमीयुषः स्वम् । ईहानुजातजगदण्डकमीक्षितार- मीडेऽहमीप्सितसुपर्वतरुं कुमारम् ॥ ४॥ उद्यन्निशारमणवक्त्रमुपेन्द्रकन्या- मुद्वोढुमादृतमनोज्ञपुलिन्दवेषम् उन्मूलनार्थमुररीकृतादिव्यरूप- मुद्वृत्तदैत्यविततेरुपयामि देवम् ॥ ५॥ ऊरीकृतस्वचरणैकपरायणं तं दूरीकृतात्मविमुखात्मजनं भजामः । ऊहस्वरूपमुपगीतमकृत्रिमाणां मूर्धस्थितैरपि गिरां वचनैः कुमारम् ॥ ६॥ ऋक्सामवर्णितपदं यजुपानुगीत- मृष्यादियुक्तनिजमन्त्रजपैकतानान् । ऋद्धास्पदं गमयितारमृतस्वरूप- मृच्छाम्यहं शरणमात्मजमिन्दुमौलेः ॥ ७॥ एकान्तभक्तिसुलभं जगदेकनाथ- मेकातपत्रविभवप्रदमाश्रितानाम् । एकाग्रगम्यपदमेकरदानुजात- मेधामहे शरवणोद्भवमेयिवांसः ॥ ८॥ ऐश्वर्यसिद्धिमथवा सुखमैहिकं वा- प्यैकाधिपत्यमवनेरपि वामरत्वम् । ऐतुं यदीच्छसि मनः शरणं भजेथा ऐशानमङ्गजमुमागुरुभागधेयम् ॥ ९॥ ओङ्कारमन्त्रपदवाच्यमजं वदन्त- मोजोमदादपरथा प्रविवेश्य काराम् लोकान् ससर्ज निखिलान्निजयैव शक्त्या यो योगिनं तमजरं गुहमाश्रयामः ॥ १०॥ औदार्यवारिनिधिमास्पदमौचितीना- मौद्धत्यवद्दितिसुतौघभिदापटिष्ठम् । औन्नत्यमाशु ददतं सकृदानताना- मौपम्यहीनचरितं गुहमानमामः ॥ ११॥ कल्याणभूमिधरकार्मुकपुण्यपाकः कन्दर्पकोटिकमनीयकलेबरश्रीः । कल्पद्रुकल्पकरकल्पितशक्तिशाली कामान् ममाशु सफलीकुरुतां कुमारः ॥ १२॥ खेदं परित्यज मनः खलसेवनोत्थं खेलाशु खण्डपरशोः सुकृते कुमारे । खेलाविधूतखलदानवयूथपोऽयं खेदं न जातु सहते स्वपदाश्रितानाम् ॥ १३॥ गाङ्गेयकुङ्कुमजपारुणचारुगात्रं गङ्गाधराननसरोजसरोजबन्धुम् । गाङ्गेयमाश्रय मनो बहुचिन्तयालं गङ्गातरङ्गवदयं श्रिततापहारी ॥ १४॥ घोरालिकार्पितलिपिर्विधिनेति चेतो घूर्णस्यजस्रमयि किं गुहमाश्रयेथाः । घूकं दिनेश इव कोटरमेष देवः कारागृहान्तमनयत्खलु तं विरिञ्चम् ॥ १५॥ ङित्प्रत्यये सति परे गुणवृद्ध्यभावः स्यात्सार्वधातुकपिता यदि न व्यवायः । जन्तोः कथं बलवती विधिदुर्लिपिः स्यात् सर्वातिगो यदि गुहो हृदयं प्रविष्टः ॥ १६॥ चक्रायुधप्रियसुतामुखचञ्चरीक- श्चन्द्रावतंसिचरणायुधचारुहस्तः । चेतो भवानिकुचकोरकपूर्णचन्द्र- श्चित्ते चकास्तु धृतचन्द्रकभृत्कुमारः ॥ १७॥ छिन्नाखिलाघशमले स्वपदाश्रितानां छायातरौ भवमहोष्मविशोषितानाम् । छन्दानुरूपफलदे सुरसैन्यनाथे छन्दोमये मम मनो रमतां नितान्तम् ॥ १८॥ जानामि धर्ममयि तत्र न तु प्रवर्ते जानाम्यधर्ममपि नैव ततो निवर्ते । जानासि सर्वहृदयं जगदन्तरात्मन् जातं ममापचरितं सकलं क्षमेथाः ॥ १९॥ ज्ञाताखिलागमरहस्यतमार्थमेतं ज्ञात्वा समाश्रय गुहं शरणं शरण्यम् । ज्ञानं ददीत तदयं हृदयाशु तुभ्य- मेवंविधो न भविता तव येन मोहः ॥ २०॥ झञ्झासमीरणमघौघघनच्छटानां सिद्धौषधं भवभयामयविह्वलानाम् । चिन्तामणिं प्रणमतां करुणाम्बुराशिं गौरीसुतं गुहमहं शरणं प्रपद्ये ॥ २१॥ टङ्कायमाननिजकोपमशेषलोक- बाधाकरासुरमहोपलजालकानाम् । क्रौञ्चाद्रिभेदपरिगुप्तसमस्तलोक- मञ्चामि किञ्चन हृदा शिवभागधेयम् ॥ २२॥ ठूत्कारमाशु परिपातय तं कठोरं मद्वैरिकण्ठकुहरेषु गुहाविषह्यम् । यः प्रागुदस्थितभवद्भुजशक्तिविद्ध- क्रौञ्चाद्रिभेदसमये दितिजाद्रिवज्रः ॥ २३॥ डम्भापहारिचरितं दनुजेश्वराणां जम्भारिराज्यदमडम्भजनानुकूलम् । सम्भावयामि शरकाननसम्भवं तं पक्वं फलं हृदि पुरारिपुराकृतानाम् ॥ २४॥ ढङ्के समस्तहृदयाब्जगुहाशयं तं पश्यामि पातकमहागजपञ्चवक्त्रम् । पञ्चायुधारिमृदुलाङ्ककृताधिवासं क्रौञ्चारिमद्य शरणं मनसा शरण्यम् ॥ २५॥ णान्तं वनं भवति मानसचत्वरं चेत्- तस्मिन् सरस्तदुदरे कमलं तदन्तः । किंञ्चिन्महास्त्रनवषड्युगवक्त्रदृग्दो- स्तद्भेषजं भवरुजो भज गुह्यमेतत् ॥ २६॥ तत्कालतप्ततपनीयमयं किरीटं ताराधिपार्धमणिमौक्तिकशोभितान्तम् तारावलीशशिपरीवृतमेरुशङ्कां तन्वत्तनोतु कुशलं मम तारकारेः ॥ २७॥ स्थेयः शिवं दिशतु मे स्थिरधन्वसूनोः कोटीरनद्धनवरत्नमरीचिविद्धम् । इन्द्रायुधोपमितमिन्दुकलावदातं लोलम्बलोलदलकोल्लसितं ललाटम् ॥ २८॥ दैन्यं ममापहरतां दहनोद्भवस्य कारुण्यवेल्लननियन्त्रितसर्वलोकम् । दिव्यं भ्रुवोर्युगलमीषदरालिरम्यं दूरास्तदर्पकशरासनदर्पभारम् ॥ २९॥ धून्वन्तु मे दुरितमाशु दिशन्तु सौख्यं धीरस्य धूर्जटिसुतस्य कटाक्षमालाः । धूतारविन्दरुचयः करुणामरन्द- धारातिमात्रशिशिराः कमलानिवासाः ॥ ३०॥ नासापुटं नलिननाभसहोदरस्य नासीरनेतुरनिशं कुशलानि कुर्यात् । निम्नोन्नतं नवतिलप्रसवाभिरामं नीचैस्तरीकृतसुचम्पककोरकाभम् ॥ ३१॥ पातां परस्परसमौ गुरुपद्मराग- पाषाणदर्पणसमानरुची कपोलौ पर्यन्तलम्बिमणिकुण्डलमण्डितान्तौ पाटीरशैलपवमानसखारिसूनोः ॥ ३२॥ फुल्लारविन्दसदृशं फलतु श्रियं मे फालान्तलोचनभवस्य मुखं प्रसन्नम् । स्फारस्फुरद्दशनमौक्तिकमन्दहासं श्मश्रुप्ररोहमधरोष्ठपुटप्रवालम् ॥ ३३॥ बर्हीन्द्रकेतनरतस्य मुखाब्जनालो बुद्धिप्रदोऽस्तु शुभदो मम कम्बुकण्ठः । बन्धूकवर्णरुचिभिन्नरुचिप्रवाल- बन्धू भवद्विशदमौक्तिकहारहारी ॥ ३४॥ भद्राङ्कभद्रतनयस्य भुजा भवेयु- र्भद्राय मे भुवनरक्षणजागरूकाः । भास्वत्सुवर्णवलयाङ्गदकाङ्गुलीया भक्ताखिलेष्टफलदानसुरद्रुशाखाः ॥ ३५॥ मन्दारमाल्यमकरन्दमिलद्विरेफ- मालामनोहरमुरो हरनन्दनस्य । माङ्गल्यमावहतु माधवकन्यकाया माणिक्यहारिकुचकुङ्कुमपङ्कशोणम् ॥ ३६॥ यज्ञेश्वरस्य यजमानतनोर्गुहस्य योगेश्वरस्य जठरं जगतां निधानम् । युक्तेन योजयतु मां त्रिवलीविरूढ- रोमावलीलसितवृत्तगभीरनाभम् ॥ ३७॥ रत्नानुविद्धरमणीयसुवर्णकाञ्ची- रेखापिनद्धकनकान्तदुकूलकान्तम् । रामावलीहृदयसंवननं सदा मां रक्षेत्पुलिन्दरमणीरमणस्य मध्यम् ॥ ३८॥ लक्ष्मीविलासभवनं कदलीकमेत- ल्लीलानुकारि ललितान्तरमूरुयुग्मम् । लावण्यशालि लघयेन्मम दैन्यभारं लोकोत्तरस्य ललिताकुलनन्दनस्य ॥ ३९॥ वाचामगोचरमनोहरवामरूपं वामार्धजानिजनुषः किल जानुयुग्मम् । वन्दे वरेण्यमणिदर्पणमञ्जुवृत्तं वन्दारुवाञ्छितवरप्रददिव्यरत्नम् ॥ ४०॥ शम्भोः सुतस्य शतपत्रशरासतूणी- शङ्कावहे शबरराजसुताभिकस्य । शश्वत्कराब्जमृदिते शतमन्युपुत्र्या श‍ृङ्गारिते शमयतां शमलं सुजङ्घे ॥ ४१॥ षड्युग्मषड्भुजमुखस्य पदारविन्दे षड्वैरिवर्गशमने मम जीव एषः । षड्भिः समेत्य करणैः सह षट्पदत्वं षट्पङ्कजोपरि गतो रमतां सुखेन ॥ ४२॥ स्कान्दं सदा स्फुरतु मे मनसि स्वरूपं सर्वाङ्गसुन्दरतरं सरसं समग्रम् । सच्चिन्मयं सकलसत्त्वहिते निविष्टं साक्षात्सदाकृतसदाशिवभागधेयम् ॥ ४३॥ हेरम्बसोदर हिरण्मयकुण्डलाय हेमाङ्गदाय हिमशैलसुतासुताय । हेतोः समस्तजगतां हितचेष्टिताय हे शूरपद्मकुलकाल नमो नमस्ते ॥ ४४॥ क्षोणीधरक्षितिपभूरमणान्ववाय- क्षीरार्णवोदरभवक्षणदाकरेण । क्षन्तव्यमेव भवता गुह साहसं मे क्षुद्रस्य तावकगुणस्तवनाय जातम् ॥ ४५॥ इति श्रीकुमारस्तवं समाप्तम् । ॥ ॐ श्रीसुब्रह्मण्यायनमः ॥