अक्षर आकार:

श्रीकुमारमङ्गलस्तोत्रम्

Shri KumAra Mangala Stotram

श्रीकुमारमङ्गलस्तोत्रम्

ॐ श्रीगणेशाय नमः । अथ श्रीकुमारमङ्गलस्तोत्रम् । यज्ञोपवीतीकृतभोगिराजो गणाधिराजो गजराजवक्त्रः । सुराधिराजार्चितपादपद्मः सदा कुमाराय शुभं करोतु ॥ १॥ विधातृपद्माक्षमहोक्षवाहाः सरस्वतीश्रीगिरिजासमेताः । आयुः श्रियं भूमिमनन्तरूपं भद्रं कुमाराय शुभं दिशन्तु ॥ २॥ मासाश्च पक्षाश्च [दिनानि ताराः] राशिश्च योगाः करणानि सम्यक् ग्रहाश्च सर्वेऽदितिजास्समस्थाः श्रियं कुमाराय शुभं दिशन्तु ॥ ३॥ ऋतुर्वसन्तः सुरभिः सुधा च वायुस्तथा दक्षिणनामधेयः । पुष्पाणि शश्वत्सुरभीणि कामः श्रियं कुमाराय शुभं करोतु ॥ ४॥ भानुस्त्रिलोकीतिलकोऽमलात्मा कस्तूरिकालङ्कृतवामभागः । पम्पासरश्चैव स सागरश्च श्रियं कुमाराय शुभं करोतु ॥ ५॥ भास्वत्सुधारोचिकिरीटभूषा कीर्त्या समं शुभ्रसुगात्रशोभा । सरस्वती सर्वजनाभिवन्द्या श्रियं कुमाराय शुभं करोतु ॥ ६॥ आनन्दयन्निन्दुकलावतंसो मुखोत्पलं पर्वतराजपुत्र्याः । स्पृसन् सलीलं कुचकुम्भयुग्मं श्रियं कुमाराय शुभं करोतु ॥ ७॥ वृषस्थितः शूलधरः पिनाकी गिरिन्द्रजालङ्कृतवामभागः । समस्तकल्याणकरः श्रितानां श्रियं कुमाराय शुभं करोतु ॥ ८॥ लोकानशेषानवगाहमाना प्राज्यैः पयोभिः परिवर्धमाना । भागीरथी भासुरवीचिमाला श्रियं कुमाराय शुभं करोतु ॥ ९॥ श्रद्धां च मेधां च यशश्च विद्यां प्रज्ञां च बुद्धिं बलसम्पदौ च आयुष्यमारोग्यमतीव तेजः सदा कुमाराय शुभं करोतु ॥ १०॥ ॥ इति श्रीकुमारमङ्गलस्तोत्रम् सम्पूर्णम् ॥