अक्षर आकार:

श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम्

Shri Kartikeya Ashtottarashatanama Stotram

श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम्

ध्यानम् - सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रत्नाङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ अथ स्तोत्रम् । विश्वामित्रस्तु भगवान् कुमारं शरणं गतः । स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥ १॥ अष्टोत्तरशतनाम्नां श‍ृणु त्वं तानि फाल्गुन । जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात् ॥ २॥ त्वं ब्रह्मवादी त्वं ब्रह्मा ब्रह्मब्राह्मणवत्सलः । ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः ॥ ३॥ त्वं परं परमं तेजो मङ्गलानां च मङ्गलम् । अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान् ॥ ४॥ त्वं सावित्रीमयो देवः सर्वत्रैवापराजितः । मन्त्रः सर्वात्मको देवः षडक्षरवतां वरः ॥ ५॥ गवां पुत्रः सुरारिघ्नः सम्भवो भवभावनः । पिनाकी शत्रुहा चैव कूटः स्कन्दः सुराग्रणीः ॥ ६॥ द्वादशो भूर्भुवो भावी भुवःपुत्रो नमस्कृतः । नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥ ७॥ हेमगर्भो महागर्भो जयश्च विजयेश्वरः । त्वं कर्ता त्वं विधाता च नित्योऽनित्योऽरिमर्दनः ॥ ८॥ महासेनो महातेजा वीरसेनश्चमूपतिः । सुरसेनः सुराध्यक्षो भीमसेनो निरामयः ॥ ९॥ शौरिर्यदुर्महातेजा वीर्यवान् सत्यविक्रमः । तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्जितः ॥ १०॥ कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः । सुव्रतः सूर्यसङ्काशो वह्निगर्भो रणोत्सुकः ॥ ११॥ पिप्पली शीघ्रगो रौद्रिर्गाङ्गेयो रिपुदारणः । कार्तिकेयः प्रभुः क्षान्तो नीलदंष्ट्रो महामनाः ॥ १२॥ निग्रहो निग्रहाणां च नेता त्वं दैत्यसूदनः । प्रग्रहः परमानन्दः क्रोधघ्नस्तारकोऽच्छिदः ॥ १३॥ कुक्कुटी बहुलो वादी कामदो भूरिवर्धनः । अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वबोधनः ॥ १४॥ अनघो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः । पिशाचराजः सूर्याभः शिवात्मा त्वं सनातनः ॥ १५॥ एवं स सर्वभूतानां संस्तुतः परमेश्वरः । नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ॥ १६॥ प्रसन्नमूर्तिराहेदं मुनीन्द्र व्रियतामिति । मम त्वया द्विजश्रेष्ठ स्तुतिरेषा विनिर्मिता ॥ १७॥ भविष्यति मनोभीष्टप्राप्तये प्राणिनां भुवि । विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ॥ १८॥ न राक्षसाः पिशाचा वा न भूतानि न चऽऽपदः । विघ्नकारीणि तद्गेहे यत्रैवं संस्तुवन्ति माम् ॥ १९॥ दुःस्वप्नं न च पश्येत्स बद्धो मुच्येत बन्धनात् । स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥ २०॥ ॥ इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डान्तर्गते कुमारिकाखण्डे श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥