अक्षर आकार:

श्रीकार्तिकेयाष्टकम्

Shri Kartikeyashtakam

श्रीकार्तिकेयाष्टकम्

ॐ श्रीगणेशाय नमः । अगस्त्य उवाच- नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १॥ नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् । दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २॥ अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय । अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३॥ नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय । हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४॥ तपः स्वरूपाय तपोधनाय तपः फलानां प्रतिपादकाय । सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५॥ नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये । बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६॥ मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय । नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ ७॥ सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय । स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८॥ इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकं सम्पूर्णम् ॥