अक्षर आकार:

श्रीगुहस्तोत्रम्

Shri Guhastotram

श्रीगुहस्तोत्रम्

(शिवगिरिक्षेत्रे) पार्थक्येन हि पित्रोः कर्तुं सेवामशक्तेषु । भक्तेषु किं कृपातः पित्रोरैक्यं विभो धत्से ॥ १॥ शिवगिरिनिवासलोलं हिमगिरितनयामुखाम्बुजातरविम् । शिरसा नमामि मनसाप्युरसा गुहमनिशमिष्टकल्पतरुम् ॥ २॥ वज्रशूलवरदाभयहस्तं वज्रधारितनयाश्रितवामम् । कालकालहृदयाम्बुजभानुं नीलकण्ठवरवाहनमीडे ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीगुहस्तोत्रं सम्पूर्णम् ।